मार्गशीर्ष-कृष्ण-उत्पन्ना-एकादशी-कृत-मुरवधः

श्री-महागणपति-प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥

श्री-गुरु-प्रार्थना

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

श्री-सरस्वती-प्रार्थना

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

श्री-व्यास-नमस्क्रिया

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥

पाद्ममहापुराणम् — मङ्गलश्लोकः

स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

अथ चत्वारिंशोऽध्यायः॥४०

महादेव उवाच

एकस्मिन् समये पुत्र गतोऽहं विष्णुसन्निधौ।
तत्र पृष्टं मया पूर्वं माहात्म्यं द्वादशीभवम्॥१॥

नारद उवाच

कीदृशी स्यान्महादेव महाद्वादशिका परा।
तस्या व्रते फलं कीदृग्वद सर्वेश्वर प्रभो॥२॥

शिव उवाच

इयमेकादशी ब्रह्मन् महापुण्यफलप्रदा।
ऋक्षयोगैश्च संयुक्ता कर्तव्या मुनिसत्तमैः॥३॥
जया च विजया चैव जयन्ती पापनाशिनी।
सर्वपापहराश्चैताः कर्तव्याः फलकाङ्क्षिभिः॥४॥
एकादश्यां यदा ऋक्षं शुक्लपक्षे पुनर्वसुः।
नाम्ना सा च जया ख्याता तिथीनामुत्तमा तिथिः॥५॥
तामुपोष्य नरः पापान्मुच्यते नात्र संशयः।
यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत्॥६॥
विजया सा समाख्याता तिथीनामुत्तमा तिथिः।
सहस्रगुणितं दानं यस्यां वै विप्र भोजनम्॥७॥
होमस्तथोपवासश्च सहस्राधिफलप्रदः।
यदा च शुक्लद्वादश्यां प्राजापत्यं हि जायते॥८॥
जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः।
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु॥९॥
प्रक्षालयति गोविन्दस्तस्यामभ्यर्चितो ध्रुवम्।
यदा वै शुक्लद्वादश्यां पुष्यं भवति कर्हिचित्॥१०॥
तदा तु सा महापुण्या भविता पापनाशिनी।
यो ददाति तिलप्रस्थं नित्यं संवत्सरं प्रति॥११॥
उपवासं च यस्तस्यां करोत्येतत् समं स्मृतम्।
तस्यां जगत्पतिर्देवस्तुष्टः सर्वेश्वरो हरिः॥१२॥
प्रत्यक्षतां प्रयात्येव तत्रानन्तफलं स्मृतम्।
सगरेण ककुत्स्थेन नहुषेण च साधितः॥१३॥
तस्यामाराधितः कृष्णो दत्तवानखिलं भुवि।
वाचिकान्मानसाद्वाऽपि कायजाच्च विशेषतः॥१४॥
सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः।
तामेकां समुपोष्याथ पुण्यनक्षत्रसंयुताम्॥१५॥
एकादशीसहस्रस्य फलं प्राप्नोति मानवः।
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम्॥१६॥
यत् तस्यां क्रियते किञ्चित्तदक्षयफलं स्मृतम्।
तस्मादेषा प्रकर्तव्या यत्नेन फलकाङ्क्षिभिः॥१७॥
पञ्चमेनाश्वमेधेन यदि स्नातो युधिष्ठिरः।
पर्यपृच्छत धर्मात्मा कृष्णं यदुकुलोद्वहम्॥१८॥

युधिष्ठिर उवाच

उपवासस्य नक्तस्य त्वेकभुक्तस्य मे प्रभो।
किं पुण्यं किं फलं तस्य ब्रूहि सर्वं जनार्दन॥१९॥

श्रीभगवानुवाच

हेमन्ते चैव सम्प्राप्ते मासे मार्गे च शोभने।
कृष्णपक्षे च या पार्थ द्वादशी तामुपोषयेत्।
दशम्यां चैकभक्तश्च शुद्धचित्तो दृढव्रतः॥२०॥
नक्तं चैव तथा ज्ञात्वा दशम्यां नियतः सदा।
दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे॥२१॥
नक्तं च तद् विजानीयान्न नक्तं निशिभोजनम्।
नक्षत्रदर्शनान्नक्तं गृहस्थस्य विधीयते॥२२॥
यतेर्दिनाष्टमे भागे रात्रौ तस्य निषेधनम्।
ततः प्रभातसमये कृत्वा च नियमं व्रती॥२३॥
मध्याह्ने च तथा पार्थ स्नानं शुचिः समाचरेत्।
अधमं कूपके स्नानं वाप्यां स्नानं च मध्यमम्॥२४॥
तडागे चोत्तमं स्नानं नद्यां स्नानं ततः परम्।
पीड्यन्ते जन्तवो यत्र जलमध्ये व्यवस्थिते॥२५॥
तत्र स्नाने कृते पार्थ पापं पुण्यं समं भवेत्।
गृहे चैवोत्तमं स्नानं जलं चैव विशोधयेत्॥२६॥
तस्मात् तु पाण्डवश्रेष्ठ गृहे स्नानं समाचरेत्।
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे॥२७॥
मृत्तिके हर मे पापं यन्मया पूर्वसञ्चितम्।
क्रोधलोभौ परित्यज्य चैकचित्तो दृढव्रतः॥२८॥
नालापेतान्त्यजं चैव तथा पाखण्डिनो नरान्।
मिथ्यावादरतांश्चैव तथा ब्राह्मणनिन्दकान्॥२९॥
अन्यांश्चैव दुराचारानगम्यागमनेरतान्।
परद्रव्यापहारांश्च परदाराभिगामिनः॥३०॥
केशवं पूजयित्वा तु नैवेद्यं तत्र कारयेत्।
दीपं दद्याद्गृहे तत्र भक्तियुक्तेन चेतसा॥३१॥
तद्दिने वर्जयेत् पार्थ निद्रां चैव तु मैथुनम्।
धर्मशास्त्रविनोदेन दिनं सर्वं निवारयेत्॥३२॥
रात्रौ जागरणं कृत्वा भक्तियुक्तो नृपोत्तम।
विप्रेभ्यो दक्षिणां दद्यात् प्रणिपत्य क्षमापयेत्॥३३॥
यथा कृष्णा तथा शुक्ला विधिनैवं प्रकारयेत्।
एकादशीं द्विजः पार्थ विभेदं नैव कारयेत्॥३४॥
एवं हि कुरुते यस्तु शृणु तस्य हि यत्फलम्।
शङ्खोद्धारे नरः स्नात्वा दृष्ट्वा देवं गदाधरम्॥३५॥
एकादश्युपवासस्य कलां नार्हति षोडशीम्।
सङ्क्रान्तिषु चतुर्लक्षं यो ददाति नृपोत्तम॥३६॥
एकादश्युपवासस्य कलां नार्हति षोडशीम्।
प्रभासक्षेत्रे यत् पुण्यं ग्रहणे चन्द्र सूर्ययोः॥३७॥
तत्फलं जायते नूनमेकादश्युपवासिनः।
केदारे चोदकं पीत्वा पुनर्जन्म न विद्यते॥३८॥
तथा चैकादशी पार्थ गर्भवासक्षयङ्करी।
अश्वमेधस्य यज्ञस्य पृथिव्यां यत्फलं लभेत्॥३९॥
तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः।
तपस्विनो गृहे यस्य भुञ्जते च द्विजोत्तमाः॥४०॥
तत्फलं जायते नूनमेकादश्युपवासिनः।
गोसहस्रेण यत् पुण्यं दत्त्वा वेदान्तपारगे॥४१॥
तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः।
येषां देहे त्रयो देवा ब्रह्मविष्णुमहेश्वराः॥४२॥
वसन्ति तेषां ते तुल्या एकादश्युपवासिनः।
ते नराः पुण्यकर्माणो ये भक्ता हरिपूजकाः॥४३॥
एकादशीव्रतस्यापि पुण्यसङ्ख्या न विद्यते।
एतत् पुण्यं भवेत् तस्य यत्सुरैरपि दुर्लभम्॥४४॥
एतस्मादर्धपुण्यं तु प्राप्यते नक्तभोजनात्।
नक्तस्यार्धं भवेत् पुण्यमेकभक्तेन देहिनाम्॥४५॥
तावद्गर्जन्ति तीर्थानि दानानि नियमानि च।
यावन्नोपोषयेज्जन्तुर्वासरं विष्णुवल्लभम्॥४६॥
तस्मात् त्वं पाण्डवश्रेष्ठ व्रतमेतत् समाचर।
पुण्यसङ्ख्यां न जानामि यत्त्वं पृच्छसि पाण्डव॥४७॥
एतद्धि कथितं पार्थ यद् गोप्यं व्रतमुत्तमम्।
एकादशीसमं नास्ति कृत्वा यज्ञसहस्रकम्॥४८॥

युधिष्ठिर उवाच

उत्पन्ना सा कथं देव पुण्या चैकादशी तिथिः।
कथं पवित्रा विश्वेऽस्मिन् कथं वै देवताप्रिया॥४९॥

श्रीभगवानुवाच

पुरा कृतयुगे पार्थ मुरनामेति दानवः।
अत्यद्भुतो महारौद्र सर्वदेवभयङ्करः॥५०॥
इन्द्रोऽपि निर्जितस्तेन सर्वदेवास्तथा नृप।
महासुरेण तेनैव मृत्युना च दुरात्मना॥५१॥
स्वर्गान्निराकृतास्तेन विचरन्ति महीतले।
सशङ्का भयभीताश्च सर्वे गत्वा महेश्वरम्॥५२॥
इन्द्रेण कथितं सर्वमीश्वरस्यापि चाग्रतः।
स्वर्गलोकपरिभ्रष्टा विचरन्ति महीतले॥५३॥
मर्त्येषु संस्थिता देवा न शोभन्ते महेश्वर।
उपायं ब्रूहि मे देव ह्यमरा यान्ति कां गतिम्॥५४॥

महादेव उवाच

देवराज सुरश्रेष्ठ यत्राऽऽस्ते गरुडध्वजः।
शरण्यश्च जगन्नाथः परित्राता परायणः॥५५॥
तत्र गच्छ सुरश्रेष्ठ स वो रक्षां विधास्यति।
ईश्वरस्य वचः श्रुत्वा देवराजो महामतिः॥५६॥
त्रिदशैः सहितो यत्र गतस्तत्र युधिष्ठिर।
जलमध्ये प्रसुप्तं तं दृष्ट्वा देवं गदाधरम्॥५७॥
कृताञ्जलिपुटो भूत्वा इन्द्रः स्तोत्रमुदीरयत्॥५८॥

इन्द्र उवाच

ॐ नमो देवदेवेश देवदानववन्दित।
दैत्यारे पुण्डरीकाक्ष त्राहि नो मधुसूदन॥५९॥
सुराः सर्वे समायाता भयभीताश्च दानवात्।
शरणं त्वां जगन्नाथ त्राहि मां भक्तवत्सल॥६०॥
त्राहि नो देवदेवेश त्राहि त्राहि जनार्दन।
त्राहि वै पुण्डरीकाक्ष दानवानां विनाशक॥६१॥
त्वत्समीपं गताः सर्वे त्वमेव शरणं प्रभो।
शरणागतानां देवानां सहायं कुरु वै प्रभो॥६२॥
त्वं पतिस्त्वं मतिर्देव त्वं कर्ता त्वं च कारणम्।
त्वं माता सर्वलोकानां त्वमेव जगतः पिता॥६३॥
भगवन् देवदेवेश शरणागतवत्सल।
शरणं तव चाऽऽयाता भयभीताश्च देवताः॥६४॥
देवता निर्जिताः सर्वाः स्वर्गभ्रष्टाः कृताः प्रभो।
अत्युग्रेण हि दैत्येन मुरनाम्ना महौजसा।
इन्द्रस्य वचनं श्रुत्वा विष्णुर्वचनमब्रवीत्॥६५॥

श्रीभगवानुवाच

कीदृशो दानवः शक्र किं रूपं कीदृशं बलम्।
क्व स्थानं तस्य दुष्टस्य किं वीर्यं कः पराक्रमः।
किं वरं तस्य दुष्टस्य ममाऽऽख्याहि महामते॥६६॥

इन्द्र उवाच

पूर्वं बभूव देवेश ब्रह्मवंशसमुद्भवः।
तालजङ्घस्तु नाम्ना च अत्युग्रोऽपि महासुरः॥६७॥
तस्य पुत्रो हि विख्यातो मुरनामेति दानवः।
अत्युत्कटो महावीर्यो देवतानां भयङ्करः॥६८॥
पुरी चन्द्रावती नाम्ना तत्र स्थाने वसत्यसौ।
निर्जिता देवताः सर्वा स्वर्गात्तेन विवासिताः॥६९॥
इन्द्रोऽन्यो रोपितस्तेन वातश्चैव हुताशनः।
चन्द्रसूर्यो कृतौ चान्यौ वायुर्वरुण एव च॥७०॥
सर्वमात्मकृतं तेन सत्यं सत्यं जनार्दन।
देवलोकः कृतस्तेन सर्वस्थानविवर्जितः॥७१॥
तस्य तद् वचनं श्रुत्वा कोपमानो जनार्दनः।
हनिष्ये दानवं दुष्टं देवतानां भयङ्करम्॥७२॥
त्रिदशैः सहितो देवो गतश्चन्द्रावतीं पुरीम्।
दृष्टो देवैस्तु दैत्येन्द्रो गर्जमानः पुनः पुनः॥७३॥
तेन सर्वे जिता देव गताश्चैव दिशो दश।
हरिं निरीक्ष्य प्रोवाच तिष्ठ तिष्ठेति दानवः॥७४॥
भगवानब्रवीत् तं च क्रोधसंरक्तलोचनः।

श्रीभगवानुवाच

रे दानव दुराचार मम बाहुं निरीक्षय॥७५॥
ततस्ते सम्मुखाः सर्वे विष्णुना दुष्टदानवाः।
हता बाणैः पुनर्दिव्यैर्जाताश्च भयविह्वलाः॥७६॥
चक्रं मुक्तं च कृष्णेन दैत्यसैन्येषु पाण्डव।
तेन छिन्नास्तु शतशो बहवो निधनं गताः॥७७॥
एकोऽपि दानवस्तत्र युध्यमानो मुहुर्मुहुः।
नष्टाः सर्वे सुरास्तेन निर्जितो मधुसूदनः॥७८॥
निर्जितं तेन दैत्येन बाहुयुद्धमजायत।
बाहुयुद्धं कृतं तेन दिव्यं वर्षसहस्रकम्॥७९॥
विष्णुश्चिन्तां प्रपन्नश्च नष्टाः सर्वाश्च देवताः।
विष्णुश्च निर्जितस्तेन गतो बदरिकाश्रमम्॥८०॥
गुहा सिंहावती नाम तत्र सुप्तो जनार्दनः।
योजनद्वादशवती एकद्वारा च पाण्डव॥८१॥
तस्यां विष्टः प्रसुप्तश्च दानवो हन्तुमुद्यतः।
महायुद्धेन तेनैव श्रान्तोऽसौ योगमायया॥८२॥
दानवः पृष्ठतो लग्नो प्रविष्टः स तदा गुहाम्।
प्रसुप्तं तत्र मां दृष्ट्वा दानवो हर्षमागतः॥८३॥
इत्थं मां निर्जितं मत्वा प्रविष्टं शङ्कया हरिम्।
निःसन्देहं हनिष्यामि दानवानां भयङ्करम्॥८४॥
निर्गता कन्यका तत्र विष्णुदेहाद्युधिष्ठिर।
रूपवती सुसौभाग्या दिव्यप्रहरणायुधा॥८५॥
तस्य तेजोंऽशसम्भूता महाबलपराक्रमा।
दृष्टा सा दानवेन्द्रेण मुरनाम्ना धनञ्जय॥८६॥
युद्धं समाहितं तेन स्त्रिया चैव प्रयाचितम्।
कन्यका युध्यते तत्र सर्वयुद्धविशारदा॥८७॥
हुङ्कारैर्भस्मसाज्जातो मुर नामा महासुरः।
निहते दानवे तस्मिंस्तत्र देवस्त्वबुध्यत॥८८॥
पतितं दानवं दृष्ट्वा ततो विस्मयमागतः।
केनायं च हतो रौद्रो ह्यत्युग्रो मम शात्रवः॥८९॥
अत्युग्रं च कृतं कर्म मम कारुण्यतः कृतम्।

कन्योवाच

तेन देवाश्च गन्धर्वा सयक्षोरगराक्षसाः॥९०॥
इन्द्राद्याः सकला जित्वा स्वर्गाच्चैव निराकृताः।
हरिः सुप्तो मया दृष्टो मुरः पृष्ठे समागतः॥९१॥
संहरिष्यति त्रैलोक्यं सुप्ते चैव जर्नादने।
तस्यास्तद्वचनं श्रुत्वा विष्णुर्वचनमब्रवीत्॥९२॥
अहं च निर्जितो येन कथं सोऽपि त्वया जितः।

एकादश्युवाच

त्वत्प्रसादाच्च भो स्वामिन् महादैत्यो मया हतः॥९३॥

श्रीभगवानुवाच

आनन्दं त्रिषु लोकेषु मुनयो देवता गताः।
ब्रूहि त्वं च मया भद्रे यत्ते मनसि रोचते।
ददामि च न सन्देहो यत्सुरैरपि दुर्लभम्॥९४॥

एकादश्युवाच

यदि तुष्टोऽसि मे देव सत्यमुक्तं जनार्दन।
वरमेकं तु वाञ्छामि हृदये च जगत्पते॥९५॥
प्रार्थयामि च देवेश ईप्सितं च मया प्रभो।
यदि सत्यं जगन्नाथ तिस्रो वाचो ददासि मे॥९६॥

श्रीभगवानुवाच

सत्यं सत्यं मया प्रोक्तं अवश्यं तव सुव्रते।
तिस्रो वाचो मया दत्ता न चावाक्यं भवेदिह॥९७॥

एकादश्युवाच

त्रिभुवनेषु च देवेश चतुर्युगेषु साम्प्रतम्।
त्रिषु लोकेषु सर्वत्र तादृशं कुरु मे प्रभो॥९८॥
सर्वतीर्थप्रधानं हि सर्वविघ्नविनाशिनी।
सर्वसिद्धिकरी देवी त्वत्प्रसादाद् भवाम्यहम्॥९९॥
मामुपोष्यन्ति ये भक्त्या तव भक्त्या जनार्दन।
सर्वसिद्धिर्भवेत्तेषां यदि तुष्टोऽसि मे प्रभो॥१००॥
उपवासं च नक्तं च एकभक्तं करोति च।
तस्य वित्तं च धर्मं च मोक्षं वै देहि माधव॥१०१॥

विष्णुरुवाच

यत्त्वं वदसि कल्याणि तत् सर्वं च भविष्यति।
सर्वान् मनोरथान्भद्रे दास्यसि त्वं च नान्यथा॥१०२॥
मम भक्ताश्च ये लोके ये च भक्तास्तु कार्त्तिके।
चतुर्युगेषु विख्यातास्त्रिषु लोकेषु वै प्रभो॥१०३॥
त्वां च शक्तिमहं मन्ये एकादशीव्रतस्थिताः।
मम पूजां करिष्यन्ति मोक्षगास्ते न संशयः॥१०४॥
तृतीया चाष्टमी चैव नवमी च चतुर्दशी।
एकादशी विशेषेण तिथिरेषा हरिप्रिया।
सर्वतीर्थाधिकं पुण्यं सत्यं सत्यं न संशयः॥१०५॥
इदं दत्त्वा वरं तस्यै तिस्रो वाचो न संशयः।
हृष्टा पुष्टा च सञ्जाता एकादशी महाव्रता॥१०६॥
शत्रुं हंसि परां तस्य ददासि परमां गतिम्।
त्वं हंसि सर्वविघ्नानि सर्वसिद्धिवरप्रदा॥१०७॥
उभयोः पक्षयोः पार्थ तुल्या एकादशी शुभा।
न शुक्ला नैव कृष्णा च विभेदं नैव कारयेत्॥१०८॥
विभेदो नैव कर्तव्यः समस्तव्रतकारिभिः।
दिवा वा यदि वा रात्रौ शृणोति भक्तितत्परः॥१०९॥
तिथिरेका भवेत् सर्वा पक्षयोरुभयोरपि।
उभयैकादशी स्वल्पा ह्यन्ते चैव त्रयोदशी॥११०॥
मध्ये तु द्वादशी पूर्णा त्रिस्पृशा सा हरिप्रिया।
एकामुपोषयेत्तां वै सहस्रैकादशीफलम्॥१११॥
सहस्रगुणितं ह्येवं द्वादश्यां पारणे कृते।
अष्टम्येकादशी षष्ठी तृतीया च चतुर्दशी॥११२॥
पूर्वविद्धा न कर्तव्या परविद्धामुपोषयेत्।
एकादशी ह्यहोरात्रं प्रभाते घटिका भवेत्॥११३॥
सा तिथिः परिहर्तव्या उपोष्या द्वादशीयुता।
एवंविधा मया प्रोक्ता पक्षयोरुभयोरपि॥११४॥
एकादश्यां प्रकुर्वीत ह्युपवासं न संशयः।
ते यान्ति वैष्णवं स्थानं यत्राऽऽस्ते गरुडध्वजः॥११५॥
धन्यास्ते मानवा लोके विष्णुभक्तिपरायणाः।
एकादश्याश्च माहात्म्यं सर्वकालेषु यः पठेत्॥११६॥
गोसहस्रफलं सोऽपि पुण्यं प्राप्नोति मानवः।
दिवा वा यदि वा रात्रौ ये वै शृण्वन्ति भक्तितः॥११७॥
ब्रह्महत्यादिपापेभ्यो मुच्यन्ते नात्र संशयः।
विष्णुधर्मसमं नास्ति गीतार्थं च नृपोत्तम।
एकादशीसमं नास्ति व्रतं पापप्रणाशनम्॥११८॥

॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे मार्गशीर्ष-कृष्ण-उत्पन्ना-एकादशी-कृत-मुरवधो नाम चत्वारिंशोऽध्यायः॥४०॥

मङ्गलश्लोकाः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥