द्वादशी-एकादशी-जागरणमहिमावर्णनम्

श्री-महागणपति-प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥

श्री-गुरु-प्रार्थना

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

श्री-सरस्वती-प्रार्थना

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

श्री-व्यास-नमस्क्रिया

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥

पाद्ममहापुराणम् — मङ्गलश्लोकः

स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

अथ नामैकोनचत्वारिंशोऽध्यायः॥३९

महादेव उवाच

शृणु नारद वक्ष्यामि माहात्म्यं जागरस्य च।
यच्छ्रुत्वा मुक्तिमाप्नोति महापापी न संशयः॥१॥

नारद उवाच

अहो विश्वेश्वरो विष्णुः पवित्रीकरणः सदा।
तस्योपवासमाहात्म्यं श्रुतं हि त्वन्मुखाच्छिव॥२॥
तथाऽपि श्रोतुमिच्छामि माहात्म्यं जागरस्य तु।
कीदृक्जागरमाहात्म्यं रात्रो भक्तिस्तु कीदृशी॥३॥
प्रहरेषु च या पूजा वद विश्वेश्वर प्रभो।
त्वं लोकेषु सदा पूज्यस्त्वं हि देवो जनार्दनः।
त्वं हि विश्वेश्वरो देवो यतो भक्तिर्जनार्दने॥४॥
सर्वेषां चैव भक्तानां त्वं च श्रेष्ठ उमापतिः।
लोकेस्मिन् सर्वदा भक्त्या तवाख्या वर्तते सदा॥५॥
अतो येन प्रकारेण लोकानां मुक्तिरेव च।
विश्वेश्वर वद त्वं तु माहात्म्यं जागरस्य तु॥६॥

महादेव उवाच

एकादश्यां जनो विष्णुं रात्रौ सम्पूज्य भक्तितः।
कुर्याज्जागरणं विष्णोः पुरतो वैष्णवैः सह॥७॥
गीतं वाद्यं तथा नृत्यं पुराणपठनं तथा।
धूपं दीपं च नैवेद्यं पुष्पं गन्धानुलेपनम्॥८॥
फलमर्घं तथा श्रद्धा दानमिन्द्रियसंयमम्।
सत्यान्वितं च विप्रेन्द्र वचोयुक्तं क्रियान्वितम्॥९॥
विनिद्रं च मुदायुक्तो यः करोति नरः सदा।
सर्वपापविनिर्मुक्तो जायते विष्णुवल्लभः॥१०॥
रात्रौ जागरणे प्राप्ते निद्रां कुर्वन्ति वैष्णवाः।
हारितं चोपवासं तैर्व्रतं वै विष्णुसंज्ञकम्॥११॥
ये कुर्वन्ति नराः प्राज्ञ जागरे विष्णुसंज्ञके।
जागरं कृष्णभावेन न स्वपन्ति कदाचन॥१२॥
कृष्णस्य नाम मनसा वदन्ति च पुनः पुनः।
ते तु धन्यतमा ज्ञेया अस्यां रात्रौ विशेषतः॥१३॥
क्षणेक्षणे तु गोदानं घट्यां चैव चतुर्गुणम्।
प्रहरे कोटिगुणितं चतुर्यामेष्वसङ्ख्यकम्॥१४॥
जागरे निमिषार्धे तु केशवाग्रे विशेषतः।
तत्फलं कोटिगुणितं तस्य सङ्ख्या न विद्यते॥१५॥
नर्तनं कुरुते यस्तु केशवाग्रे नरोत्तमः।
न फलं हीयते तस्य आजन्ममरणान्तिकम्॥१६॥
साश्चर्यं चैव सोत्साहं पापालापादिवर्जितम्।
प्रदक्षिणसमायुक्तं नमस्कारपुरःसरम्॥१७॥
नीराजनसमायुक्तमनिर्विण्णेन चेतसा।
यामेयामे महाभाग कुर्यादारार्तिकं हरेः॥१८॥
षड्विंशगुणसंयुक्तमेकादश्यां च जागरम्।
यः करोति नरो भक्त्या न पुनर्जायते भुवि॥१९॥
य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः।
जागरं वासरे विष्णोर्लीयते परमात्मनि॥२०॥
धनवान्वित्तशाठ्येन यः करोति प्रजागरम्।
तेनात्माहारितो नूनं कितवेन दुरात्मना॥२१॥
विष्णुजागरणे प्राप्ते उपहासं करोति यः।
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः॥२२॥
वेदविद् ब्राह्मणो यस्तु नर्तनेन विशेषतः।
उपहासपरः प्राप्तः स वै चाण्डाल उच्यते॥२३॥
निमिषं निमिषार्धं वा यः करोति प्रजागरम्।
धर्मार्थकाममोक्षाणां प्राप्नोति पदमव्ययम्॥२४॥
वेदशास्त्ररतो नित्यं नित्यं वै यज्ञयाजकः।
रात्रौ जागरणे प्राप्ते निन्दां कुर्वन्व्रजत्यधः॥२५॥
मम पूजां प्रकुर्वाणो विष्णुनिन्दासु तत्परः।
एकविंशत्कुलेनैव नरकं प्रतिपद्यते॥२६॥
विष्णुः शिवः शिवो विष्णुरेकमूर्तिर्द्विधा स्थिताः।
तस्मात् सर्वप्रकारेण नैव निन्दां प्रकारयेत्।
दष्टाः कलिभुजङ्गेन स्वपन्ति मधुहाहनि॥२७॥
कुर्वन्ति जागरं नैव मायया ते च मोहिताः।
प्राप्ता एकादशी येषां कलौ जागरणं विना॥२८॥
ते विनष्टा न सन्देहो यस्माज्जीवितमध्रुवम्।
उद्धृतं नेत्रयुग्मं तु दत्त्वा वै वैष्णवं पदम्॥२९॥
कृतं ये नैव पश्यन्ति पापिनो हरिजागरम्।
अभावे वाचकस्याथ गीतं नृत्यं तु कारयेत्॥३०॥
वाचके सति देवर्षे पुराणं प्रथमं पठेत्।
अश्वमेधसहस्रस्य वाजपेयायुतस्य च॥३१॥
पुण्यं कोटिगुणं वत्स विष्णोर्जागरणे कृते।
पितृपक्षे मातृपक्षे भार्यापक्षे तु वाडव॥३२॥
कुलानुद्धरते चैतान्कृत्वा जागरणं हरेः।
उपोषणदिने विद्धे जागरं पूजनं हरेः॥३३॥
वृथादानादिकं सर्वं कृतघ्नेषु कृतं यथा।
उपोषणदिने विद्धे प्रारब्धे जागरे स्थितिम्॥३४॥
विहाय स्थानं तद् विष्णुः शापं दत्त्वा प्रगच्छति।
अविद्धे वासरे विष्णोर्ये कुर्वन्ति प्रजागरम्॥३५॥
तेषां मध्ये तु तुष्टः सन्नृत्यं तु कुरुते हरिः।
यावद्दिनानि कुरुते जागरं केशवाग्रतः॥३६॥
युगानि तानि तावन्ति विष्णुलोके महीयते।
यावद्दिनानि वसते विना जागरणं हरेः॥३७॥
तावद् वर्षसहस्राणि रौरवान्न निवर्तते।
एकदश्यां शयानस्तु विना जागरणं हरेः॥३८॥
मूकवत्तिष्ठते यो वै गानं पाठं न वाचरेत्।
सप्तजन्मानि मूकत्वं जायतेऽजागरे हरेः॥३९॥
यो न नृत्यति मूढात्मा पुरतो जागरे हरेः।
पङ्गुत्वं तस्य जानीयात्सप्तजन्मानि वाडव॥४०॥
यः पुनः कुरुते गीतं नृत्यं जागरणं हरेः।
ब्राह्मं पदं मदीयं च सत्यं वै तस्य वैष्णवम्॥४१॥
यः प्रबोधयते लोकान्विष्णोर्जागरणे रतः।
वसेच्चिरं तु वैकुण्ठे पितृभिः सह वैष्णवः॥४२॥
मतिं प्रयच्छते यस्तु हरेर्जागरणं प्रति।
षष्टिवर्षसहस्राणि श्वेतद्वीपे वसेन्नरः॥४३॥
यत्किञ्चित्क्रियते पापं कोटिजन्मनि मानवैः।
श्रीकृष्णजागरे सर्वं रात्रौ नश्यति वाडव॥४४॥
शालग्रामशिलाग्रे ये कुर्वन्ति प्रतिजागरम्।
यामेयामे फलं प्रोक्तं कोट्यैन्दवसमुद्भवम्॥४५॥
सम्प्राप्ते वासरे विष्णोर्ये न कुर्वन्ति जागरम्।
वृथा स्यात्तत्कृतं तेषां वैष्णवानां च निन्दया॥४६॥
कामार्थौ सम्पदः पुत्राः कीर्तिर्लोकाश्च शाश्वताः।
यज्ञायुतैर्न लभ्यन्ते द्वादशीजागरं विना॥४७॥
मतिर्न जायते यस्य द्वादश्यां जागरं प्रति।
न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि॥४८॥
यावत् पदानि चलति केशवायतनं प्रति।
अश्वमेधसमानि स्युः जागरार्थं प्रगच्छतः॥४९॥
पादयोः पतितं यावद्धरण्यां पांशु गच्छताम्।
तावद् वर्षसहस्राणि जागरो वसते दिवि॥५०॥
तस्माद् गृहात् प्रगन्तव्यं जागरे केशवालये।
कलौ मलविनाशाय द्वादशीद्वादशीषु च॥५१॥
परापवादसंयुक्तं मनः प्रासाद वर्जितम्।
शास्त्रहीनमगान्धर्वं तथा दीपविवर्जितम्॥५२॥
शक्त्योपचाररहितमुदासीनं सनिन्दनम्।
कलियुक्तं विशेषेण जागरं नवधा मतम्॥५३॥
सशास्त्रं जागरं यच्च नृत्यगान्धर्वसंयुतम्।
सवाद्यं तालासंयुक्तं सदीपं मधुभिर्युतम्॥५४॥
उच्चारैस्तु समायुक्तं यथोक्तैर्भक्तिभावितैः।
प्रसन्नं तुष्टिजननं सम्मूढं लोकरञ्जनम्॥५५॥
गुणैर्द्वादशभिर्युक्तं जागरं माधवप्रियम्।
कर्तव्यं तत् प्रयत्नेन पक्षयोः शुक्लकृष्णयोः॥५६॥
किं व्रतैर्बहुभिश्चीर्णैस्तीर्थवासेन तस्य किम्।
द्वादशीवासरे प्राप्ते न कुर्याज्जागरं हरेः॥५७॥
प्रवासेन त्यजेद्यस्तु पथिस्विन्नोऽपि वाडव।
जागरं वासुदेवस्य द्वादश्यां तु समे प्रियः॥५८॥
मद्भक्तो न हरेः कुर्याज्जागरं पापमोहितः।
व्यर्थं मत्पूजनं तस्य मत्पूज्यं यो न पूजयेत्॥५९॥
न शैवो न च सौरोऽसौ न शाक्तो गणसेवकः।
यो भुङ्क्ते वासरे विष्णोर्ज्ञेयः पश्वधिको हि सः॥६०॥
विप्रियं च कृतं तेन दुष्टेनैव च पापिना।
मद्भक्तिबलमाश्रित्य यो भुङ्क्ते वै हरेर्दिने॥६१॥
सबाह्याभ्यन्तरं देहं वेष्टितं पापकोटिभिः।
मुच्यन्ते वासरे विष्णोर्ये कुर्वन्ति प्रजागरम्॥६२॥
कूर्परं यमदूतानां दत्तं तेन यमस्य च।
कृत्वा जागरणं विष्णोरविद्धं द्वादशीव्रतम्॥६३॥
स्वर्गापेक्षा मुनिश्रेष्ठ मुक्ता ते नैव संशयः।
वाञ्छितं नारकं सौख्यं विद्धं कृत्वा हरेर्दिनम्॥६४॥
निहताः पितरस्तेन देवानां वै वधः कृतः।
दत्तं राज्यं तु दैत्यानां कृत्वा विद्धं हरेर्दिनम्॥६५॥
यो नृत्यति प्रहृष्टात्मा कृत्वा वै करताडनम्।
गीतं कुर्वन्मुखेनापि दर्शयन्कौतुकान्बहून्॥६६॥
पुरतो वासुदेवस्य रात्रौ जागरणे स्थितः।
पठन्कृष्णचरित्राणि रञ्जयन्वैष्णवान्गणान्॥६७॥
मुखेन कुरुते वाद्यं सम्प्रहृष्टतनूरुहः।
दर्शयन्विविधान्भृत्यान्स्वेच्छालापान् प्रकारयन्॥६८॥
भावैरेतैर्नरो यस्तु कुरुते जागरे हरेः।
निमिषेनिमिषे पुण्यं तीर्थकोटिफलं स्मृतम्॥६९॥
अनुद्विग्नमना यस्तु धूपनीराजनं हरेः।
कुरुते जागरे रात्रौ सप्तद्वीपाधिपो भवेत्॥७०॥
यानि कानि च पापानि ब्रह्महत्यासमानि च।
कृष्णा ह जागरात्तानि विलयं यान्ति खण्डशः॥७१॥
एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः।
एकतो देवदेवस्य जागरः कृष्णवल्लभः॥७२॥
तत्र काशी पुष्करं च प्रयागं नैमिषं गया।
शालग्राममहाक्षेत्रमर्बुदारण्यमेव च॥७३॥
पौष्करं मथुरा तत्र सर्वतीर्थानि चैव हि।
यज्ञा वेदाश्च चत्वारो व्रजन्ति हरिजागरम्॥७४॥
गङ्गा सरस्वती तापी यमुना च शतद्रुका।
चन्द्रभागा वितस्ता च नद्यः सर्वास्तु तत्र वै॥७५॥
सरांसि च ह्रदाः सर्वे समुद्राः सर्व एव हि।
एकादश्यां द्विजश्रेष्ठ गच्छन्ति कृष्णजागरम्॥७६॥
स्पृहणीया हि देवानां ये नराः कृष्णजागरे।
नृत्यन्ति गीतं कुर्वन्ति वीणावाद्यप्रहर्षिताः॥७७॥
एवं जागरणं कृत्वा सम्पूज्य च महाहरिम्।
द्वादश्यां पारणं कृत्वा स्वशक्त्या वैष्णवैः सह॥७८॥

महादेव उवाच

शृणु ब्रह्मन् प्रवक्ष्यामि द्वादशीमाहात्म्यमुत्तमम्।
द्वादशी तु सदा ज्ञेया पुत्रदा मोक्षदायिनी॥७९॥
प्रातः स्नात्वा हरिं पूज्य उपवासं समर्पयेत्।
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव॥८०॥
प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव।
पारणं च ततः कुर्याद् यथासम्भवमग्रतः॥८१॥
अत ऊर्ध्वं यथेष्टं तु कारयेच्च यथाविधि।
यदा तु द्वादशी स्वल्पा पारणेन भवेद्दिवज॥८२॥
तदा रात्रौ तु कर्तव्यं पारणं मुक्तिमिच्छता।
तदा न रात्रिदोषः स्यान्निषिद्धं न भवेत्क्वचित्॥८३॥
यदुक्तं निशि न स्नायान्महानिशि न भोजयेत्।
तत्पूर्वपरयामाभ्यां दिनवत्कर्म कारयेत्॥८४॥
यदा भवति स्वल्पा तु द्वादशी पारणे दिने।
उषःकाले द्वयं कुर्यात् प्रातर्मध्याह्निकं तथा॥८५॥
द्वादशी साधिता येन नरेण भुवि सर्वदा।
तस्य पुण्यमहं वक्तुं न समर्थो विशेषतः॥८६॥
साधयित्वाखिलान्कामान् प्राप्नुयुश्च महाजनाः।
अम्बरीषादयः सर्वे ये भक्ता भुवि विश्रुताः॥८७॥
द्वादशीं साधयित्वा तु ते गता विष्णुसद्मनि।
सत्यं सत्यं पुनः सत्यं यदुक्तं तु मया तव॥८८॥
नास्ति विष्णुसमो देवो न तिथिर्द्वादशीसमा।
अत्र दत्तं च भुक्तं च तथा पूजादिकं च यत्॥८९॥
तत् सर्वं पूर्णतां याति पूजिते माधवे सति।
किं पुनर्बहुनोक्तेन भक्तानां वल्लभो हरिः॥९०॥
प्रददात्यखिलान्कामान्यावदाभूतसम्प्लवम्।
द्वादश्यां चैव यद् दत्तं तत् सर्वं सफलं भवेत्॥९१॥
कुरुक्षेत्रेषु यद् दत्तं निष्फलं नैव जायते।
तद्वच्च द्वादशीदत्तं भवेद् देवर्षिसत्तम॥९२॥

॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे द्वादशी-एकादशी-जागरणमहिमावर्णनं नाम नामैकोनचत्वारिंशोऽध्यायः॥३९॥

मङ्गलश्लोकाः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥