पक्षवर्धिनी-एकादशी-माहात्म्यम्

श्री-महागणपति-प्रार्थना

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥

श्री-गुरु-प्रार्थना

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥

श्री-सरस्वती-प्रार्थना

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥

श्री-व्यास-नमस्क्रिया

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥

पाद्ममहापुराणम् — मङ्गलश्लोकः

स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥

अथ नामाष्टत्रिंशोऽध्यायः॥३८

नारद उवाच

कीदृशी स्यान्महादेव पक्षवर्धिनिसंज्ञका।
यया वै कृतया जन्तुर्महपापात् प्रमुच्यते॥१॥

श्रीमहादेव उवाच

अमा वा यदि वा पूर्णा सम्पूर्णा जायते तदा।
भूत्वा वै नाडिकाषष्ठिर्जायते प्रतिपद्दिने।
अश्वमेधायुतैस्तुल्या सा भवेत् पक्षवर्धिनी॥२॥

नारद उवाच

पूजाविधिं तु पृच्छामि साम्प्रतं देवसत्तम।
यत्कृते तु महादेव महाफलमवाप्नुयात्॥३॥

महादेव उवाच

पूजाविधिं प्रवक्ष्यामि साम्प्रतं द्विजनन्दन।
पूजिते चार्चिते विष्णौ फलं प्राप्नोत्यसंशयः॥४॥
येन पूजाविधानेन तुष्टिं प्राप्नोति माधवः।
अव्रणं जलपूर्णं च कुम्भं चन्दनचर्चितम्॥५॥
पञ्चरत्नसमायुक्तं पुष्पमालाभिवेष्टितम्।
स्थाप्यं ताम्रमयं पात्रं सगोधूमं घटोपरि॥६॥
सौवर्णं कारयेद् देवं माससंज्ञाभिनामकम्।
पञ्चामृतेन विधिना स्नपनं सुमनोरमम्॥७॥
कारयेद् देवदेवेशं जगन्नाथं जगत्पतिम्।
विलेपनं तु कर्तव्यं कुङ्कुमागरुचन्दनैः॥८॥
वस्त्रयुग्मं च दातव्यं छत्रोपानहसंयुतम्।
पूजयेद् देवताधीशं कुम्भपात्रोपरिस्थितम्॥९॥
पद्मनाभाय वै पादौ जानुनी विश्वमूर्तये।
ऊरू वै ज्ञानगम्याय कटी दानप्रदाय च॥१०॥
उदरं विश्वनाथाय हृदयं श्रीधराय च।
कण्ठं कौस्तुभकण्ठाय बाहू क्षत्रान्तकारिणे॥११॥
ललाटं व्योममूर्ध्ने तु शिरो वै सर्वरूपिणे।
स्वनाम्ना चैव कमलां सर्वाङ्गीं दिव्यरूपिणीम्॥१२॥
एवं विधिवत्सम्पूज्य ततोऽर्घं दापयेत्सुधीः।
नालिकेरेण शुभ्रेण देवदेवस्य चक्रिणः॥१३॥
अनेनैवार्घदानेन सम्पूर्णं जायते व्रतम्।
संसारार्णवमग्नं मां समुद्धर जगत्पते॥१४॥
त्वमीशः सर्वलोकानां त्वं साक्षाच्च जगत्पतिः।
गृहाणार्घं मया दत्तं पद्मनाभ नमोस्तु ते॥१५॥
नैवेद्यानि सुहृद्यानि षड्रसानि विशेषतः।
देयानि तु विशेषेण केशवाय सुभक्तितः॥१६॥
नागपत्रं सकर्पूरं दद्याद् देवस्य भक्तितः।
घृतेन दीपकं कुर्यात्तिलतैलेन वा पुनः॥१७॥
कृत्वा सम्यग्विधानेन गुरोः पूजां प्रकारयेत्।
वस्त्राणि चैव चोष्णीषं कञ्चुकं च प्रदापयेत्॥१८॥
दक्षिणां च यथाशक्त्या गुरुवे सम्प्रदापयेत्।
भोजनं चैव ताम्बूलं दत्त्वा चार्घं प्रदापयेत्॥१९॥
स्ववित्तस्यानुमानेन यथाशक्त्या तु निर्धनैः।
कार्या सम्यक्प्रयत्नेन द्वादशी पक्षवर्धिनी॥२०॥
ततो जागरणं कुर्याद्गीतनृत्यसमन्वितम्।
पुराणपाठसहितं हास्याह्लादसमन्वितम्॥२१॥
स्तुवन्ति च प्रशंसन्ति जागरं चक्रपाणिनः।
नित्योत्सवो भवेत्तेषां गृहे वै दशजन्मसु॥२२॥
अतो धन्यतमा चेयं कर्तव्या पक्षवर्धनी।
कृत्वा तु सकलं पुण्यं फलं प्राप्नोत्यसंशयम्॥२३॥
पक्षवर्धिनी-माहात्म्यं ये शृण्वन्ति मनीषिणः।
तैः कृतं सत्कृतं सर्वं यावदाभूतसम्प्लवम्॥२४॥
पञ्चाग्निसाधने पुण्यं यच्च स्यात्तीर्थसाधने।
तत्पुण्यं समवाप्नोति विष्णोर्जागरकारणात्॥२५॥
पक्षवर्धनिका पुण्या पवित्रा पापनाशिनी।
उपवासकृता विप्र हत्याकोटिविनाशिनी॥२६॥
वसिष्ठेन कृता पूर्वं भारद्वाजेन वै मुने।
ध्रुवेण चाम्बरीषेण कृतेयं विष्णुवल्लभा॥२७॥
इयं काशीसमा पुण्या इयं वै द्वारका समा।
उपोषिता च भक्तेन वाञ्छितं च ददात्यसौ॥२८॥
इयं धन्या धन्यतमा हत्यायुतविनाशिनी।
कर्तव्या तु विशेषेण वैष्णवैर्ज्ञानतत्परैः॥२९॥
अहो सर्वेश्वरो देवः संसेव्यो व्रततत्परैः।
किमन्यद् बहुनोक्तेन कर्तव्यं व्रतमुत्तमम्॥३०॥
यथा च वर्धते चन्द्रः सिते पक्षे विशेषतः।
तथा वै वर्धते भक्त कारणात् पक्षवर्धिनी॥३१॥
सूर्योदये यथा ध्वान्तं नश्यते तत्क्षणादपि।
तथाऽघं नाशमाप्नोति करणात् पक्षवर्धिनी॥३२॥

॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे पक्षवर्धिनी-एकादशी-माहात्म्यं नाम नामाष्टत्रिंशोऽध्यायः॥३८॥

मङ्गलश्लोकाः

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥