उन्मीलनीव्रतम्
श्री-महागणपति-प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्॥
श्री-गुरु-प्रार्थना
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम्।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्॥
श्री-सरस्वती-प्रार्थना
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना॥
श्री-व्यास-नमस्क्रिया
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः
प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
साक्षाल्लोकान् पावयमानः कविमुख्यः
पाराशर्यः पर्वसु रूपं विवृणोतु॥२॥
जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः।
यस्यास्यकमलगलितं वाङ्मयममृतं जगत् पिबति॥३॥
पाद्ममहापुराणम् — मङ्गलश्लोकः
स्वच्छं चन्द्रावदातं करिकर-मकर-क्षोभ-सञ्जात-फेनं
ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः।
ओङ्कारालङ्कृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं
सम्भोगाभोगरम्यं जलमशुभहरं पौष्करं नः पुनातु॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥
अथ सप्तत्रिंशोऽध्यायः॥३७
महादेव उवाच
अतस्त्वां सम्प्रवक्ष्यामि उन्मीलनीमनुत्तमाम्।
यस्याः श्रवणमात्रेण जन्मसंसारबन्धनात्॥१॥
पापात्मा मुच्यते पापैः स्वर्गलोके महीयते।
देवताः पितरश्चैव तस्या गतिमवाप्नुयुः॥२॥
विद्यार्थी लभते विद्यां सर्वकामानवाप्नुयात्।
तस्या व्रतान्न सन्देहः स्वर्गलोके महीयते॥३॥
स्वस्थानं तत्र वै प्राप्तः शिवलोके महीयते।
अतस्त्वं कुरुषे राजन् वैष्णवानां तु पूजनम्॥४॥
वैष्णवानां तु ये राजन् सेवा कुर्वन्ति नित्यशः।
तेषां दण्डं च कुरुषे नो वा तेषां नराधिपः॥५॥
भोजनानन्तरं तेषां भोजनं कुरुते नृप।
तैरेव पूजितो विष्णुर्यैर्भक्त्या तु प्रपूजितः॥६॥
शालग्रामशिलाभूतां दत्त्वा मूर्धनि प्रत्यहम्।
त्वं धारयसि भूपाल कण्ठे नित्यं सुभक्तितः॥७॥
धूपशेषं तु वै विष्णोर्भक्त्या भजसि भूपते।
आरार्तिकं सदा कृत्वा भक्तानां वेदयेर्नृप॥८॥
शङ्खोदकं हरेर्मूर्ध्नि भ्रामयित्वा तु भक्तितः।
नित्यं बिभर्षि शिरसि शेषं यच्छसि वैष्णवान्॥९॥
नैवेद्यं प्रत्यहं कृत्वा सर्वोपस्करसंयुतम्।
विष्वक्सेनाय दत्त्वा वै स्वयं भुनक्षि वाडव॥१०॥
विष्णोर्निवेदितं चान्नं वैष्णवैः सह भुज्यते।
नित्यं नामसहस्रेण भक्त्या स्तौषि जनार्दनम्॥११॥
दीपार्घदानं वै विष्णोः कुरुषे गीतनर्तनम्।
श्यामाङ्कुरैः पूजयसे पूज्यन्ते नृपसत्तम॥१२॥
श्यामाङ्कुरैः सदा वत्स पूजनं चाति दुर्लभम्।
पृथ्वीदानसमं पुण्यं दूर्वया पूजने कृते॥१३॥
अतो वै नास्ति लोकेऽस्मिन् दूर्वायाः सदृशं भुवि।
तया वै पूजनं कार्यं विष्णुसायुज्यमिच्छता॥१४॥
अतस्त्वं कुरुषे नित्यं पूजनं दूर्वया सह।
यवाक्षतैर्विशेषेण पूजनं कुरुषे न वा॥१५॥
पक्षे पक्षे नृपश्रेष्ठ विधिवद् द्वादशीव्रतम्।
यत् कृतं तु महाराज महापापप्रणाशनम्॥१६॥
मोक्षदं सुखदं चैव तथाऽयुष्यप्रदं सदा।
एतद् विष्णुव्रतं प्रोक्तं वैष्णवानां तु मोक्षदम्॥१७॥
गृहस्थानां तु सुखदं यतीनां मुक्तिदायकम्।
सर्वरोगादिशमनं पवित्रं कायशोधनम्॥१८॥
व्रतमेतच्च कुरुषे नो वा चैव नराधिप।
दशमीवेधरहितं कुरुषे जागरान्वितम्॥१९॥
तुलसीपत्रनिकरैर्नित्यं पूजयसे हरिम्।
गोपीचन्दनजं पत्रं भाले वा नृपसत्तम॥२०॥
धारितं सर्वलोकानां पवित्रीकरणं नृप।
अतस्त्वं च धारयसे गोपीचन्दनसम्भवम्॥२१॥
ब्रह्महा हेमहारी च मद्यपानी तथैव च।
अगम्यगो महापापी तथा ह्यनृतभाषितः॥२२॥
ते सर्वे मुक्तिमायान्ति तिलकं धारणादृताः।
बिभर्षि कण्ठे नित्यं त्वं धात्रीफलसमुद्भवाम्॥२३॥
मालां मुख्यायुतसमां तुलसीपत्रसम्भवाम्।
शालग्रामशिलायुक्तां द्वारकायां समुद्भवाम्॥२४॥
नित्यं पूजयसे भूप भुक्तिमुक्तिफलप्रदाम्।
पद्मसंज्ञं पुराणं वै पठसे पुरतो हरेः॥२५॥
चरितं दैत्यराज्यस्य प्रह्लादस्य च भूपते।
वासरं वासुदेवस्य सवेधं कुर्वतो नरान्॥२६॥
निवारयसि भूपाल शास्त्रं दृष्ट्वा प्रयत्नतः।
सवेधं वासरं विष्णोर्यस्मिन् राष्ट्रे प्रवर्तते॥२७॥
लिप्यते तेन पापेन राजा भवति नारकी।
वेधं चतुर्विधं त्यक्त्वा समुपोष्य हरेर्दिनम्।
कुलकोटिं समुद्धृत्य विष्णुलोके महीयते॥२८॥
गौतम उवाच
शृणु भूपाल वक्ष्यामि वैष्णवाख्यं महाव्रतम्।
यं श्रुत्वा पापिनः सर्वे मुक्तिमायान्ति तत्क्षणात्॥२९॥
द्वादशीसम्भवं पुण्यं मया ख्यातं न कस्यचित्।
वैष्णवोऽसि महाराज भक्तो भागवते नृणाम्॥३०॥
वैष्णवं तु महागुह्यं तद् व्रतं त्वं निशामय।
उन्मीलनी नाम पुरा भक्त्या मे माधवेन तु॥३१॥
कथिता सुप्रसन्नेन तां ते भूप वदाम्यहम्।
एकादशी अहोरात्रं प्रभाते घटिका भवेत्॥३२॥
उन्मीलनी तु सा ज्ञेया विशेषेण हरिप्रिया।
त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च॥३३॥
कोट्यंशे नैव तुल्यानि मखा वेदास्तपांसि च।
उन्मीलनी समं किञ्चिन्न भूतं न भविष्यति॥३४॥
प्रयागो न कुरुक्षेत्रं न काशी न च पुष्करः।
शैलो हिमाचलो नैव न मेरुर्गन्धमादनः॥३५॥
शैलो न नीलनिषधो न विन्ध्यो नैव नैमिषम्।
गोदावरी न कावेरी चन्द्रभागा न वेदिका॥३६॥
न तापी न पयोष्णी च न क्षिप्रा नैव चन्दना।
चर्मण्वती च सरयूश्चन्द्रभागा न गण्डिका॥३७॥
गोमती च विपाशा च शोणाख्यश्च महानदः।
किमत्र बहुनोक्तेन भूयो भूयो नराधिप॥३८॥
उन्मीलनीसमं किञ्चिन्न देवः केशवात् परः।
उन्मीलनीमनुप्राप्य यैः कृतं केशवार्चनम्॥३९॥
पापचक्रसमूहस्य राशयः पतिताः क्षणात्।
यस्मिन् मासे महीपाल तिथिरुन्मीलनी भवेत्॥४०॥
तन्मासनाम्ना गोविन्दः पूजनीयः प्रयत्नतः।
जातरूपमयः कार्यं मासनाम्ना तु माधवः॥४१॥
स्वशक्त्या विश्वरूपस्तु श्रद्धाभक्तिसमन्वितः।
पवित्रोदकसंयुक्तं पञ्चरत्नसमन्वितम्॥४२॥
गन्धपुष्पाक्षतैर्युक्तं कुम्भं स्रग्दामभूषितम्।
पात्रं च सोदकं कार्यं गोधूमैश्चापि पूरितम्॥४३॥
नानारत्नैश्च संयुक्तं नानागन्धैः प्रपूजितम्।
मल्लिकामोदसंयुक्तं जातीपुष्पैः प्रपूजितम्॥४४॥
श्वेताख्यैस्तन्दुलैश्चैव पूरणीयः प्रयत्नतः।
प्रदद्याद् वस्त्रयुग्मं तु उपवीतं तु सोत्तरम्॥४५॥
उपानहौ तु राजर्षे आतपत्रं शिरोपरि।
भोजनं जलपात्रं च सप्तधान्यं तिलैः सह॥४६॥
रूप्यं चैव तु कार्पासं पायसं मुद्रिका हरेः।
धेनुर्वाऽत्र तु दातव्या वत्सालङ्कारसंयुता॥४७॥
स्वर्णशृङ्गी रौप्यखुरी ताम्रपृष्ठी तथैव च।
कांस्यदोहीं रत्नपुच्छीं दद्याद्वै गुरवे तदा॥४८॥
शय्यां सोपस्करां दद्यात् साधवे भक्तिपूर्वकम्।
धूपं दीपं तु नैवेद्यं फलपत्रं निवेदयेत्॥४९॥
पूजनीयो महाभक्तैर्मन्त्रैरेभिस्तु केशवः।
तुलसीपत्रसंयुक्तैः पुष्पैः कालोद्भवैस्तथा॥५०॥
मासनाम्नैव चरणौ जानुनी विष्णुरूपिणे।
गुह्ये तु भूतपतये कटिं वै पीतवाससे॥५१॥
ब्रह्ममूर्तिभृते नाभिमुदरं विश्वयोनये।
हृदयं ज्ञानगम्याय कण्ठं वैकुण्ठमूर्तये॥५२॥
ऊर्ध्वगाय ललाटे तु बाहौ दक्षान्तकारिणे।
उत्तमाङ्गं सुरेशाय सर्वाङ्गं सर्वमूर्तये॥५३॥
स्वनाम्ना चाऽऽयुधादीनि पूजनीयानि भक्तितः।
अर्घ्यदानं प्रकर्तव्यं नालिकेरादिभिः समम्॥५४॥
शङ्खोपरि जले कृत्वा गन्धपुष्पाक्षतान्वितम्।
सूत्रेणावेष्टितं कृत्वा दद्यादर्घ्यं विधानतः॥५५॥
देवदेव महादेव श्रीकेशव जनार्दन।
सुब्रह्मण्य नमस्तेऽस्तु पुण्यराशिविवर्धन॥५६॥
शोकमोहमहापापान्मामुद्धर भवार्णवात्।
सुकृतं न कृतं किञ्चिज्जन्मकोटिशतैरपि॥५७॥
तथाऽपि मां महास्वामिन् मामुद्धर भवार्णवात्।
व्रतेनानेन देवेश ये चान्ये मम पूर्वजाः॥५८॥
वियोनिं च गताश्चान्ये पापमृत्युवशं गताः।
ये भविष्यन्ति येऽतीताः प्रेतलोकान् समुद्धर॥५९॥
आर्तस्य मम दीनस्य भक्तिरव्यभिचारिणी।
दत्तमर्घ्यं मया तुभ्यं भक्त्या गृह्ण गदाधर॥६०॥
दत्त्वाऽर्घ्यं धूपदीपाद्यैर्नैवेद्यैर्विष्णुसम्भवैः।
स्तोत्रैर्नीराजनैर्गीतैर्भृत्यैः सन्तोषयेद्धरिम्॥६१॥
वस्त्रैर्दानैश्च गोदानैर्भोजनैस्तोषयेद् गुरुम्।
तथा तथा विधातव्यं गुरुर्वै प्रीतिमाप्नुयात्॥६२॥
लोकानां तारणार्थाय धात्रा सृष्टो गुरुर्यतः।
अतो वै गुरुपूजा च कर्तव्या वै प्रयत्नतः॥६३॥
अहितं यो नाशयति स्वहितं दर्शयेत् सदा।
स गुरुः स च विज्ञेयः सर्वधर्मार्थकोविदः॥६४॥
अकुर्वन् वित्तशाठ्यं तु गुरवे तं निवेदयेत्।
गुरोर्निवेदिते भूप परिपूर्णं भवेद् व्रतम्॥६५॥
कृत्वा दिनकृतं कर्म भोजनं ब्राह्मणैः सह।
कर्तव्यं नृपशार्दूल दिनं नेयं कथानकैः॥६६॥
अनेन विधिना यस्तु कुर्यादुन्मीलनीव्रतम्।
कल्पकोटिसहस्राणि वसते विष्णुसन्निधौ॥६७॥
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे उन्मीलनीव्रतं नाम सप्तत्रिंशोऽध्यायः॥३७॥
मङ्गलश्लोकाः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः।
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवन्तु॥
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम्॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद् भवेत्।
तत् सर्वं क्षम्यतां देव नारायण नमोऽस्तुते॥
विसर्गबिन्दुमात्राश्च पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तुते॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
❀