उत्तराङ्ग-पूजा
श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, धूपमाघ्रापयामि।
उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन्निर्ऋ॑तिं॒ मम॑।
प॒शूꣴश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॑ दिश॥
मा नो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त्।
अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय॥
श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, ( ) निवेदयामि।
अमृतापिधानमसि। निवेदनानन्तरम् आचमनीयं समर्पयामि।
श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, कर्पूरताम्बूलं समर्पयामि।
श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, समस्त-अपराध-क्षमापनार्थं कर्पूरनीराजनं दर्शयामि।
कर्पूरनीरजनानन्तरम् आचमनीयं समर्पयामि।
यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति।
य ए॒वं वेद॑। यो॑ऽपामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति।ओं᳚ तद्ब्र॒ह्म। ओं᳚ तद्वा॒युः। ओं᳚ तदा॒त्मा।
ओं᳚ तथ्स॒त्यम्।
ओं᳚ तथ्सर्वम्᳚। ओं᳚ तत्पुरो॒र्नमः॥अन्तश्चरति॑ भूते॒षु॒ गुहायां वि॑श्वमू॒र्तिषु।
त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ
रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्वं॑ प्रजा॒पतिः।
त्वं त॑दाप॒ आपो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्॥
श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि।
श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, स्वर्णपुष्पं समर्पयामि।
प्रदक्षिणं कृत्वा।
श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
अर्घ्यप्रदानम्
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् एकादशीपुण्यकाले महाविष्णुपूजान्ते क्षीरार्घ्यप्रदानं करिष्ये॥
महाविष्णवे नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥
केशवादिभ्यः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्।
विष्णवे नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥
महालक्ष्म्यै नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्।
अनेन अर्घ्यप्रदानेन भगवान् सर्वात्मकः
श्री-भूमि-नीला-समेतः श्री-महाविष्णुः प्रीयताम्।
अर्घ्यप्रदानम्—उन्मीलनीव्रतम्
विष्णवे नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥
विष्णवे नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥
विष्णवे नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥
विष्णवे नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥
विष्णवे नमः इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥
एकादशीपुण्यकाले अस्मिन् मया क्रियमाण
महाविष्णुपूजायां यद्देयमुपायनदानं तत्प्रत्याम्नायार्थं हिरण्यं
श्री-भूमि-नीला-समेत-श्री-महाविष्णु-प्रीतिं कामयमानः
मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम।
अनया पूजया श्री-भूमि-नीला-समेतः श्री-महाविष्णुः प्रीयताम्।
विसर्जनम्
अस्मात् बिम्बात् श्री-भूमि-नीला-समेत-श्री-महाविष्णुं यथास्थानं प्रतिष्ठापयामि (अक्षतानर्पित्वा देवमुत्सर्जयेत्।)
अनया पूजया श्री-भूमि-नीला-समेतः श्री-महाविष्णुः प्रीयताम्।
ॐ तत्सद्ब्रह्मार्पणमस्तु।
इति तीर्थं पीत्वा शिरसि प्रसादं धारयेत्।
उत्तरस्मिन् दिने पारणम्
पद्मपुराणान्तर्गत-एकादशी-माहात्म्यानि
उन्मीलनीव्रतम्
पक्षवर्धिनी-एकादशी-माहात्म्यम्
द्वादशी-एकादशी-जागरणमहिमावर्णनम्
मार्गशीर्ष-कृष्ण-उत्पन्ना-एकादशी-कृत-मुरवधः
मार्गशीर्ष-शुक्ल-मोक्षदा-एकादशी-माहात्म्यम्
पौष-कृष्ण-सफला-एकादशी-माहात्म्यम्
पौष-शुक्ल-पुत्रदा-एकादशी-माहात्म्यम्
माघ-कृष्ण-षट्तिला-एकादशी-माहात्म्यम्
माघ-शुक्ल-जया-एकादशी-माहात्म्यम्
फाल्गुन-कृष्ण-विजया-एकादशी-माहात्म्यम्
फाल्गुन-शुक्लामलकी-एकादशी-माहात्म्यम्
चैत्र-कृष्ण-पापमोचनी-एकादशी-माहात्म्यम्
चैत्र-शुक्ल-कामदा-एकादशी-माहात्म्यम्
वैशाख-कृष्ण-वरूथिनी-एकादशी-माहात्म्यम्
वैशाख-शुक्ल-मोहिनी-एकादशी-माहात्म्यम्
ज्येष्ठ-कृष्णापरा-एकादशी-माहात्म्यम्
ज्येष्ठ-शुक्ल-निर्जला-एकादशी-माहात्म्यम्
आषाढ-कृष्ण-योगिनी-एकादशी-माहात्म्यम्
आषाढ-शुक्ल-शयनी-एकादशी-माहात्म्यम्
श्रावण-कृष्ण-कामिका-एकादशी-माहात्म्यम्
श्रावण-शुक्ल-पुत्रदा-एकादशी-माहात्म्यम्
भाद्रपद-कृष्णाजा-एकादशी-माहात्म्यम्
भाद्रपद-शुक्ल-पद्मा-एकादशी-माहात्म्यम्
आश्विन-कृष्णेन्दिरा-एकादशी-माहात्म्यम्
आश्विन-शुक्ल-पाशाङ्कुशा-एकादशी-माहात्म्यम्
कार्त्तिक-कृष्ण-रमा-एकादशी-माहात्म्यम्
कार्त्तिक-शुक्ल-प्रबोधिनी-एकादशी-माहात्म्यम्
पुरुषोत्तम-मासस्य शुक्ल-कमला-एकादशी-माहात्म्यम्
पुरुषोत्तम-मासस्य कृष्ण-कामदा-एकादशी-माहात्म्यम्