षोडशोपचार-पूजा

ध्यायेच्चतुर्भुजं देवं शङ्खचक्रगदाधरम्।
पीताम्बरयुगोपेतं लक्ष्मीयुक्तं विभूषितम्।
लसत्कौस्तुभशोभाढ्यं मेघश्यामं सुलोचनम्॥

अस्मिन् बिम्बे श्री-भूमि-नीला-समेतं महाविष्णुं ध्यायामि।

स॒हस्र॑शीर्‌षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात्।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा। अत्य॑तिष्ठद्दशाङ्गु॒लम्॥

अस्मिन् बिम्बे श्री-भूमि-नीला-समेतं महाविष्णुम् आवाहयामि।

पुरु॑ष ए॒वेदꣳ सर्वम्᳚। यद्भू॒तं यच्च॒ भव्यम्᳚।
उ॒तामृ॑त॒त्वस्येशा॑नः। यदन्ने॑नाति॒रोह॑ति॥

श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, आसनं समर्पयामि।

ए॒तावा॑नस्य महि॒मा। अतो॒ ज्यायाꣴ॑श्च॒ पूरु॑षः।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑। त्रि॒पाद॑स्या॒मृतं॑ दि॒वि॥

श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, पाद्यं समर्पयामि।

त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः। पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑।
ततो॒ विश्व॒ङ्व्य॑क्रामत्। सा॒श॒ना॒न॒श॒ने अ॒भि॥

श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, अर्घ्यं समर्पयामि।

तस्मा᳚द्वि॒राड॑जायत। वि॒राजो॒ अधि॒ पूरु॑षः।
स जा॒तो अत्य॑रिच्यत। प॒श्चाद्भूमि॒मथो॑ पु॒रः॥

श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, आचमनीयं समर्पयामि।

यत्पुरु॑षेण ह॒विषा᳚। दे॒वा य॒ज्ञमत॑न्वत।
व॒स॒न्तो अ॑स्याऽऽसी॒दाज्यम्᳚। ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः॥

श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, मधुपर्कं समर्पयामि।

स॒प्तास्या॑ऽऽसन् परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः। अब॑ध्न॒न् पु॑रुषं प॒शुम्॥

श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।

तं य॒ज्ञं ब॒र्{}हिषि॒ प्रौक्षन्॑। पुरु॑षं जा॒तम॑ग्र॒तः।
तेन॑ दे॒वा अय॑जन्त। सा॒ध्या ऋष॑यश्च॒ ये॥

श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, वस्त्रं समर्पयामि।

तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। सम्भृ॑तं पृषदा॒ज्यम्।
प॒शूꣴस्ताꣴश्च॑क्रे वाय॒व्यान्॑। आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये॥

श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, यज्ञोपवीतं समर्पयामि।

तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑। ऋचः॒ सामा॑नि जज्ञिरे।
छन्दासि जज्ञिरे॒ तस्मा᳚त्। यजु॒स्तस्मा॑दजायत॥

श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, दिव्यपरिमलगन्धान् धारयामि।
गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि। अक्षतान् समर्पयामि।

तस्मा॒दश्वा॑ अजायन्त। ये के चो॑भ॒याद॑तः।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त्। तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑॥

श्री-भूमि-नीला-समेत-महा-विष्णवे नमः, पुष्पाणि समर्पयामि। पुष्पैः पूजयामि।

अङ्ग-पूजा

१.ॐ वराहाय नमःपादौ पूजयामि
२.सङ्कर्षणाय नमःगुल्फौ पूजयामि
३.कालात्मने नमःजानुनी पूजयामि
४.विश्वरूपाय नमःजङ्घे पूजयामि
५.क्रोढाय नमःऊरू पूजयामि
६.भोक्त्रे नमःकटिं पूजयामि
७.विष्णवे नमःमेढ्रं पूजयामि
८.हिरण्यगर्भाय नमःनाभिं पूजयामि
९.श्रीवत्सधारिणे नमःकुक्षिं पूजयामि
१०.परमात्मने नमःहृदयं पूजयामि
११.सर्वास्त्रधारिणे नमःवक्षः पूजयामि
१२.वनमालिने नमःकण्ठं पूजयामि
१३.सर्वात्मने नमःमुखं पूजयामि
१४.सहस्राक्षाय नमःनेत्राणि पूजयामि
१५.सुप्रभाय नमःललाटं पूजयामि
१६.चम्पकनासिकाय नमःनासिकां पूजयामि
१७.सर्वेशाय नमःकर्णौ पूजयामि
१८.सहस्रशिरसे नमःशिरः पूजयामि
१९.नीलमेघनिभाय नमःकेशान् पूजयामि
२०.महापुरुषाय नमःसर्वाणि अङ्गानि पूजयामि

अङ्ग-पूजा (फाल्गुन-शुक्ल-आमलकी-एकादशी)

१.विशोकाय नमःपादौ पूजयामि
२.विश्वरूपिणे नमःजानुनी पूजयामि
३.उग्राय नमःऊरू पूजयामि
४.दामोदराय नमःकटिं पूजयामि
५.पद्मनाभाय नमःउदरं पूजयामि
६.श्रीवत्सधारिणे नमःउरसं पूजयामि
७.चक्रिणे नमःवामबाहुं पूजयामि
८.गदिने नमःदक्षिणबाहुं पूजयामि
९.वैकुण्ठाय नमःकण्ठं पूजयामि
१०.यज्ञमुखाय नमःआस्यं पूजयामि
११.विशोकनिधये नमःनासिकां पूजयामि
१२.वासुदेवाय नमःअक्षिणी पूजयामि
१३.वामनाय नमःललाटं पूजयामि
१४.रामाय नमःभ्रुवौ पूजयामि
१५.सर्वात्मने नमःशीर्षं पूजयामि

अङ्ग-पूजा (उन्मीलनी-व्रतम्)

१.तन्मास-नाम्नेनमःचरणौ पूजयामि
२.विष्णुरूपिणे नमःजानुनी पूजयामि
३.भूतपतये नमःगुह्यं पूजयामि
४.पीतवाससे नमःकटिं पूजयामि
५.ब्रह्ममूर्तिभृते नमःनाभिं पूजयामि
६.विश्वयोनये नमःउदरं पूजयामि
७.ज्ञानगम्याय नमःहृदयं पूजयामि
८.वैकुण्ठमूर्तये नमःकण्ठं पूजयामि
९.ऊर्ध्वगाय नमःललाटं पूजयामि
१०.दक्षान्तकारिणे नमःबाहू पूजयामि
११.सुरेशाय नमःउत्तमाङ्गं पूजयामि
१२.सर्वमूर्तये नमःसर्वाङ्गं पूजयामि

आयुध-पूजा

१.शङ्खाय नमःशङ्खं पूजयामि
२.चक्राय नमःचक्रं पूजयामि
३.गदायै नमःगदां पूजयामि
४.पद्माय नमःपद्मं पूजयामि

चतुर्विंशति नामपूजा

ॐ केशवाय नमः
ॐ नारायणाय नमः
ॐ माधवाय नमः
ॐ गोविन्दाय नमः
ॐ विष्णवे नमः
ॐ मधुसूदनाय नमः
ॐ त्रिविक्रमाय नमः
ॐ वामनाय नमः
ॐ श्रीधराय नमः
ॐ हृषीकेशाय नमः
ॐ पद्मनाभाय नमः
ॐ दामोदराय नमः
ॐ सङ्कर्षणाय नमः
ॐ वासुदेवाय नमः
ॐ प्रद्युम्नाय नमः
ॐ अनिरुद्धाय नमः
ॐ पुरुषोत्तमाय नमः
ॐ अधोक्षजाय नमः
ॐ नृसिंहाय नमः
ॐ अच्युताय नमः
ॐ जनार्दनाय नमः
ॐ उपेन्द्राय नमः
ॐ हरये नमः
ॐ श्रीकृष्णाय नमः