श्री-चित्रगुप्त-पूजा
मूलम्—श्रीवत्स वे. सोमदेव-शर्मा, ``पूजा-कल्पाः'' (चेन्नै, १९८७), पृ. ६–१३
पूर्वाङ्ग-विघ्नेश्वर-पूजा
(आचम्य)
प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]
ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]
अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
अर्चना
सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
प्रार्थनाः समर्पयामि।
प्रधान-पूजा — श्री-चित्रगुप्त-पूजा
प्राणान् आयम्य।
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे उत्तरायणे वसन्त-ऋतौ मेष-चैत्र-मासे शुक्लपक्षे पौर्णमास्यां शुभतिथौ (इन्दु / भौम / सौम्य / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायां ( )-नक्षत्र-( )-योग-( )-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम्
पौर्णमास्यां शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं धर्मराज-सभास्थित-श्री-चित्रगुप्त-प्रीत्यर्थं रौरव-महारौरव-कालसूत्र-तामिस्र-अन्धतामिस्र-आदि-नरक-बाधा-निवृत्त्यर्थं पुण्यलोक-प्राप्त्यर्थं चित्रा-पौर्णमास्यां यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-चित्रगुप्त-पूजां करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)
आसन-पूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥
घण्टा-पूजा
कलश-पूजा
कलशाय नमः दिव्यगन्धान् धारयामि।
श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्म-पूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः
समस्तोपचारान् समर्पयामि।
पीठ-पूजा
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः
गुरु-ध्यानम्
षोडशोपचार-पूजा
श्री-चित्रगुप्तं ध्यायामि।
श्री-चित्रगुप्तम् आवाहयामि।
श्री-चित्रगुप्ताय नमः, आसनं समर्पयामि।
श्री-चित्रगुप्ताय नमः, पाद्यं समर्पयामि।
श्री-चित्रगुप्ताय नमः, अर्घ्यं समर्पयामि।
श्री-चित्रगुप्ताय नमः, आचमनीयं समर्पयामि।
श्री-चित्रगुप्ताय नमः, मधुपर्कं समर्पयामि।
श्री-चित्रगुप्ताय नमः, पञ्चामृतं समर्पयामि।
श्री-चित्रगुप्ताय नमः, स्नानं समर्पयामि।
श्री-चित्रगुप्ताय नमः, वस्त्रं समर्पयामि।
श्री-चित्रगुप्ताय नमः, उपवीतं समर्पयामि।
श्री-चित्रगुप्ताय नमः, गन्धान् धारयामि।
श्री-चित्रगुप्ताय नमः, अक्षतान् समर्पयामि।
श्री-चित्रगुप्ताय नमः, पुष्पाणि समर्पयामि।
अङ्ग-पूजा
| १. | पापनाशनाय नमः | पादौ पूजयामि |
| २. | कमलवर्णाय नमः | गुल्फौ पूजयामि |
| ३. | चित्राय नमः | जानुनी पूजयामि |
| ४. | चित्ररूपाय नमः | जङ्घे पूजयामि |
| ५. | नताभीष्टदाय नमः | नाभिं पूजयामि |
| ६. | वृकोदराय नमः | उदरं पूजयामि |
| ७. | प्राज्ञाय नमः | हृदयं पूजयामि |
| ८. | कालाय नमः | कण्ठं पूजयामि |
| ९. | बहुरूपाय नमः | बाहून् पूजयामि |
| १०. | अन्तकसचिवाय नमः | अधरं पूजयामि |
| ११. | मध्यस्थाय नमः | मुखं पूजयामि |
| १२. | करुणानिधये नमः | कर्णौ पूजयामि |
| १३. | पद्मनेत्राय नमः | नेत्रे पूजयामि |
| १४. | नानारूपाय नमः | नासिकां पूजयामि |
| १५. | ललिताय नमः | ललाटं पूजयामि |
| १६. | चित्रगुप्ताय नमः | शिरः पूजयामि |
| १७. | सर्वेश्वराय नमः | सर्वाण्यङ्गानि पूजयामि |
चतुर्विंश-नाम-पूजा
यमाय नमः
धर्मराजाय नमः
मृत्यवे नमः
अन्तकाय नमः
वैवस्वताय नमः
कालाय नमः
सर्वभूतक्षयाय नमः
औदुम्बराय नमः
दध्नाय नमः
नीलाय नमः
परमेष्ठिने नमः
वृकोदराय नमः
चित्राय नमः
चित्रगुप्ताय नमः
नानाविध-परिमल-पुष्पाणि समर्पयामि।
उत्तराङ्ग-पूजा
श्री-चित्रगुप्ताय नमः, धूपम् आघ्रापयामि।
श्री-चित्रगुप्ताय नमः, दीपं सन्दर्शयामि।
श्री-चित्रगुप्ताय नमः, नैवेद्यं निवेदयामि।
श्री-चित्रगुप्ताय नमः, ताम्बूलं समर्पयामि।
श्री-चित्रगुप्ताय नमः, नीराजनं समर्पयामि।
अनेक-कोटि-प्रदक्षिण-नमस्कारान् समर्पयामि।
श्री-चित्रगुप्ताय नमः, मन्त्रपुष्पं समर्पयामि।
श्री-चित्रगुप्ताय नमः, स्वर्णपुष्पं समर्पयामि।
श्री-चित्रगुप्ताय नमः, नमस्कारान् समर्पयामि।
प्रार्थनाः समर्पयामि।
अर्घ्य-प्रदानम्
अद्य ( )-तिथौ श्री-चित्रगुप्त-पूजान्ते क्षीरार्घ्य-प्रदानम् उपायन-दानं च करिष्ये।
श्री-चित्रगुप्ताय नमः, इदम् अर्घ्यम् (त्रिवारम्)।
वैवस्वताय नमः, इदम् अर्घ्यम् (त्रिवारम्)।
ब्रह्मणे नमः, इदम् अर्घ्यम् (त्रिवारम्)।
उपायन-दानम्
चित्रगुप्त-प्रीत्यर्थं स्वयम्पाक-ताम्बूल-दक्षिणादि-सहितम् उपायनं ब्राह्मणाय दद्यात्।
इति श्री-चित्रगुप्त-पूजा समाप्ता।