बृन्दावनपूजा (श्री-तुलसी--विष्णु-पूजा)
(मूलम्—पूजा-सङ्ग्रहः (राधाकृष्ण-शास्त्रिणः))
पूर्वाङ्ग-विघ्नेश्वर-पूजा
(आचम्य)
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
प्राणान् आयम्य।
[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि॥
ममोपात्त-समस्त-दुरित-क्षयद्वारा
श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः
अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।
[अप उपस्पृश्य]
अगजानानपद्मार्कं गजाननमहर्निशम्।
अनेकदं तं भक्तानाम् एकदन्तमुपास्महे॥
अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।
श्री- महागणपतये नमः, आसनं समर्पयामि।
श्री- महागणपतये नमः, पादयोः पाद्यं समर्पयामि।
श्री- महागणपतये नमः, अर्घ्यं समर्पयामि।
श्री- महागणपतये नमः, आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मधुपर्कं समर्पयामि।
श्री- महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि।
श्री- महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।
श्री- महागणपतये नमः, अक्षतान् समर्पयामि।
श्री- महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।
अर्चना
सुमुखाय नमः
एकदन्ताय नमः
कपिलाय नमः
गजकर्णकाय नमः
लम्बोदराय नमः
विकटाय नमः
विघ्नराजाय नमः
विनायकाय नमः
धूमकेतवे नमः
गणाध्यक्षाय नमः
फालचन्द्राय नमः
गजाननाय नमः
वक्रतुण्डाय नमः
शूर्पकर्णाय नमः
हेरम्बाय नमः
स्कन्दपूर्वजाय नमः
श्री- महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
श्री- महागणपतये नमः, धूपमाघ्रापयामि।
श्री- महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।
श्री- महागणपतये नमः, ( ) (नैवेद्यं) निवेदयामि।
निवेदनान्तरम् आचमनीयं समर्पयामि।
श्री- महागणपतये नमः, ताम्बूलं समर्पयामि।
श्री- महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।
श्री- महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः॥
गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम्।
उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम्॥
अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।
छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।
वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः॥
धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः।
वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा।
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते॥
प्रार्थनाः समर्पयामि।
❀
प्रधान-पूजा — तुलसी-पूजा
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
प्राणान् आयम्य।
सङ्कल्पः
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये ( ) नाम संवत्सरे दक्षिणायने शरद्-ऋतौ (तुला/वृश्चिक)-कार्तिक-मासे शुक्लपक्षे द्वादश्यां शुभतिथौ (इन्दु / भौम / सौम्य / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायां ( )-नक्षत्र-( )-योग-( )-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम्
द्वादश्यां शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं श्री-तुलसी-महाविष्णु-प्रसादसिद्धयर्थं बृन्दावन-द्वादशी-पुण्यकाले यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-तुलसी-महाविष्णुपूजां करिष्ये।
तदङ्गं कलशपूजां च करिष्ये।
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च।
(गणपति-प्रसादं शिरसा गृहीत्वा)
आसन-पूजा
पृथिव्या मेरुपृष्ठ ऋषिः। सुतलं छन्दः। कूर्मो देवता॥
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं चासनं कुरु॥
घण्टा-पूजा
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्।
घण्टारवं करोम्यादौ देवताऽऽह्वानकारणम्॥
कलश-पूजा
कलशाय नमः दिव्यगन्धान् धारयामि।
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु॥
श्री- गङ्गायै नमः। श्री- यमुनायै नमः। श्री- गोदावर्यै नमः। श्री- सरस्वत्यै नमः। श्री- नर्मदायै नमः। श्री- सिन्धवे नमः। श्री- कावेर्यै नमः।
सप्तकोटिमहातीर्थान्यावाहयामि।
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्)
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः।
अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः॥
सर्वे समुद्राः सरितः तीर्थानि च ह्रदा नदाः।
आयान्तु देवपूजार्थं दुरितक्षयकारकाः॥
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
आत्म-पूजा
आत्मने नमः, दिव्यगन्धान् धारयामि।
१. आत्मने नमः
२. अन्तरात्मने नमः
३. योगात्मने नमः
४. जीवात्मने नमः
५. परमात्मने नमः
६. ज्ञानात्मने नमः
समस्तोपचारान् समर्पयामि।
देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत्॥
पीठ-पूजा
आधारशक्त्यै नमः
मूलप्रकृत्यै नमः
आदिकूर्माय नमः
आदिवराहाय नमः
अनन्ताय नमः
पृथिव्यै नमः
रत्नमण्डपाय नमः
रत्नवेदिकायै नमः
स्वर्णस्तम्भाय नमः
श्वेतच्छत्त्राय नमः
कल्पकवृक्षाय नमः
क्षीरसमुद्राय नमः
सितचामराभ्यां नमः
योगपीठासनाय नमः
गुरु-ध्यानम्
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परं ब्रह्म तस्मै श्री-गुरवे नमः॥
षोडशोपचार-पूजा
ध्यायामि तुलसीं देवीं श्यामां कमललोचनाम्।
प्रसन्नवदनाम्भोजां वरदाम् अभयप्रदाम्॥
अस्मिन् क्षुपे तुलसीं ध्यायामि।
ध्यायामि विष्णुं वरदं तुलसीप्रियवल्लभम्।
पीताम्बरं पद्मनेत्रं वासुदेवं वरप्रदम्॥
अस्मिन् आमलक-स्कन्धे महाविष्णुं ध्यायामि।
वासुदेवप्रिये देवि सर्वदेवस्वरूपिणि।
आगच्छ पूजाभवने सदा सन्निहिता भव॥
आगच्छाऽऽगच्छ देवेश तेजोराशे जगत्पते।
क्रियमाणां मया पूजां वासुदेव गृहाण भोः॥
तुलसीविष्णू आवाहयामि।
नानारत्नसमायुक्तं कार्तस्वरविभूषितम्।
आसनं कृपया विष्णो तुलसि प्रतिगृह्यताम्॥
तुलसी-विष्णुभ्यां नमः, आसनं समर्पयामि।
नानानदीसमानीतं सुवर्णकलशस्थितम्।
पाद्यं गृहाण तुलसि पापं मे विनिवारय॥
गङ्गादिसर्वतीर्थेभ्यो वासुदेव मयाऽऽहृतम्।
तोयमेतत्सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम्॥
तुलसी-विष्णुभ्यां नमः, पाद्यं समर्पयामि।
अर्घ्यं गृहाण देवि त्वं अच्युतप्रियवल्लभे।
अक्षतादिसमायुक्तं अक्षय्यफलदायिनि॥
नमस्ते देवदेवेश नमस्ते कमलापते।
नमस्ते सर्वविनुत गृहाणार्घ्यं नमोऽस्तु ते॥
तुलसी-विष्णुभ्यां नमः, अर्घ्यं समर्पयामि।
गृहाणाचमनार्थाय विष्णुवक्षः स्थलालये।
स्वच्छं तोयमिदं देवि सर्वपापविनाशिनि॥
कर्पूरवासितं तोयं गङ्गादिभ्यः समाहृतम्।
आचम्यतां जगन्नाथ मया दत्तं च भक्तितः॥
तुलसी-विष्णुभ्यां नमः, आचमनीयं समर्पयामि।
मधुपर्कं गृहाणेमं मधुसूदनवल्लभे।
मधुदध्याज्यसंयुक्तं महापापविनाशिनि॥
दध्याज्यमधुसंयुक्तं मधुपर्कं मयाऽऽहृतम्।
गृहाण विष्णो वरद लक्ष्मीकान्त नमोऽस्तु ते॥
तुलसी-विष्णुभ्यां नमः, मधुपर्कं समर्पयामि।
पञ्चामृतं गृहाणेदं पञ्चपातकनाशिनि।
दधिक्षीरसमायुक्तं दामोदरकुटुम्बिनि॥
मध्वाज्यशर्करायुक्तं दधिक्षीरसमन्वितम्।
पञ्चामृतं गृहाणेदं भक्तानामिष्टदायक॥
तुलसी-विष्णुभ्यां नमः, पञ्चामृतं समर्पयामि।
गङ्गागोदावरीकृष्णातुङ्गादिभ्यः समाहृतम्।
सलिलं देवि तुलसि स्नानार्थं प्रतिगृह्यताम्॥
गङ्गा कृष्णा च यमुना नर्मदा च सरस्वती।
तुङ्गा गोदावरी वेणी क्षिप्रा सिन्धुर्घटप्रभा॥
तापी पयोष्णी सरयूस्ताभ्यः स्नानार्थमाहृतम्।
तोयमेतत्सुखस्पर्शं स्नानीयं गृह्यतां हरे॥
तुलसी-विष्णुभ्यां नमः, स्नानं समर्पयामि।
पीताम्बरमिदं दिव्यं पातकव्रजनाशिनि।
पीताम्बरप्रिये देवि परिधत्स्व परात्परे॥
सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे।
वाससी प्रतिगृह्णातु लक्ष्मीजानिरधोक्षजः॥
तुलसी-विष्णुभ्यां नमः, वस्त्रं समर्पयामि।
भूषणानि वरार्हाणि गृह्णीतं तुलसीश्वर।
किरीटहारकेयूरकटकानि हरेऽमृते॥
तुलसी-विष्णुभ्यां नमः, आभरणानि समर्पयामि।
चन्दनागरुकर्पूरकस्तूरीकुङ्कुमान्वितम्।
गन्धं स्वीकुरुतं देवौ रमेशहरिवल्लभे॥
तुलसी-विष्णुभ्यां नमः, गन्धान् धारयामि।
मल्लिकाकुन्दमन्दारजाजीवकुलचम्पकैः।
शतपत्रैश्च कह्लारैरर्चये तुलसीहरी॥
तुलसी-विष्णुभ्यां नमः, पुष्पाणि समर्पयामि।
अङ्ग-पूजा
| बृन्दायै | अच्युताय नमः | - पादौ पूजयामि। |
| तुलस्यै | अनन्ताय नमः | - गुल्फौ पूजयामि। |
| जनार्दनप्रियायै | तुलसीकान्ताय नमः | - जङ्घे पूजयामि। |
| जन्मनाशिन्यै | गङ्गाधरपदाय नमः | - जानुनी पूजयामि |
| उत्तमायै | उत्तमाय नमः | - ऊरू पूजयामि। |
| कमलाक्ष्यै | कमलाक्षाय नमः | - कटिं पूजयामि। |
| नारायण्यै | नारायणाय नमः | - नाभिं पूजयामि। |
| उन्नतायै | उन्नताय नमः | - उदरं पूजयामि। |
| वरदायै | वरदाय नमः | - वक्षः पूजयामि। |
| स्तव्यायै | स्तव्याय नमः | - स्तनौ कौस्तुभं पूजयामि। |
| चतुर्भुजायै | चतुर्भुजाय नमः | - भुजान् पूजयामि। |
| कम्बुकण्ठ्यै | वनमालिने नमः | - कण्ठं पूजयामि। |
| कल्मषघ्न्यै | कल्मषघ्नाय नमः | - कर्णौ पूजयामि। |
| मुनिप्रियायै | मुनिप्रियाय नमः | - नेत्रे पूजयामि |
| शुभप्रदायै | शुभप्रदाय नमः | - शिरः पूजयामि। |
| सर्वार्थदायिन्यै | सर्वार्थदायिने नमः | - सर्वाण्यङ्गानि पूजयामि। |
चतुर्विंशति नामपूजा
ॐ केशवाय नमः
ॐ नारायणाय नमः
ॐ माधवाय नमः
ॐ गोविन्दाय नमः
ॐ विष्णवे नमः
ॐ मधुसूदनाय नमः
ॐ त्रिविक्रमाय नमः
ॐ वामनाय नमः
ॐ श्रीधराय नमः
ॐ हृषीकेशाय नमः
ॐ पद्मनाभाय नमः
ॐ दामोदराय नमः
ॐ सङ्कर्षणाय नमः
ॐ वासुदेवाय नमः
ॐ प्रद्युम्नाय नमः
ॐ अनिरुद्धाय नमः
ॐ पुरुषोत्तमाय नमः
ॐ अधोक्षजाय नमः
ॐ नृसिंहाय नमः
ॐ अच्युताय नमः
ॐ जनार्दनाय नमः
ॐ उपेन्द्राय नमः
ॐ हरये नमः
ॐ श्रीकृष्णाय नमः
श्री-तुलसी-विष्णुभ्यां नमः, नानाविध-परिमल-पत्र-पुष्पाणि समर्पयामि।
धूपं गृहाण वरदे दशाङ्गेन सुवासितम्।
तुलस्यमृतसम्भूते धूतपापे नमोऽस्तु ते॥
दशाङ्गो गुग्गुलूपेतः सुगन्धः सुमनोहरः।
श्रीवत्साङ्क हृषीकेश धूपोऽयं प्रतिगृह्यताम्॥
तुलसी-विष्णुभ्यां नमः, धूपम् आघ्रापयामि।
वर्तित्रययुतं दीप्तं गोघृतेन समन्वितम्।
दीपं देवि गृहाणेमं दैत्यारिहृदयस्थिते॥
साज्यं त्रिवर्तिसंयुक्तं दीप्तं देव जनार्दन।
गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरं हर॥
तुलसी-विष्णुभ्यां नमः, दीपं दर्शयामि।
नानाभक्ष्यैश्च भोज्यैश्च फलैः क्षीरघृतादिभिः।
नैवेद्यं गृह्यतां युक्तं नारायणमनःप्रिये॥
भोज्यं चतुर्विधं चोष्यभक्ष्यसूपफलैर्युतम्।
दधिमध्वाज्यसंयुक्तं गृह्यतामम्बुजेक्षण॥
तुलसी-विष्णुभ्यां नमः, महानैवेद्यं निवेदयामि।
कर्पूरचूर्णताम्बूलवल्लीपूगफलैर्युतम्।
जगतः पितरावेतत्ताम्बूलं प्रतिगृह्यताम्॥
तुलसी-विष्णुभ्यां नमः, ताम्बूलं समर्पयामि।
नीराजनं गृहाणेदं कर्पूरैः कलितं मया।
तुलस्यमृतसम्भूते गृहाण हरिवल्लभे॥
चन्द्रादित्यौ च नक्षत्रं विद्युदग्निस्त्वमेव च।
त्वमेव सर्वज्योतींषि कुर्यां नीराजनं हरे॥
तुलसी-विष्णुभ्यां नमः, कर्पूर-नीराजनं दर्शयामि।
प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये।
युवां प्रदक्षिणी कुर्वे तुलसीशौ प्रसीदतम्॥
तुलसी-विष्णुभ्यां नमः, प्रदक्षिणं समर्पयामि।
नमोऽस्तु पीयूषसमुद्भवायै
नमोऽस्तु पद्माक्षमनः प्रियायै।
नमोऽस्तु जन्माप्यय-भीतिहन्त्र्यै
नमस्तुलस्यै जगतां जनन्यै॥
शङ्खचक्रगदापाणे द्वारकानिलयाच्युत।
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागत(ता)म्॥
तुलसी-विष्णुभ्यां नमः, नमस्कारान् समर्पयामि।
पुष्पाञ्जलिं गृहाणेदं पङ्कजाक्षस्य वल्लभे।
नमस्ते देवि तुलसि नताभीष्टफलप्रदे॥
मन्दारनीलोत्पलकुन्दजाती पुन्नागमल्लीकरवीरपद्मैः।
पुष्पाञ्जलिं ते जगदेकबन्धो हरे त्वदङ्घ्रौ विनिवेशयामि॥
तुलसी-विष्णुभ्यां नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि।
आयुरारेग्यमतुलमैश्वर्यं पुत्रसम्पदः।
देहि मे सकलान्कामान् तुलस्यमृतसम्भवे॥
नमो नमः सुखवरपूजिताङ्घ्रये
नमो नमो निरुपममङ्गलात्मने।
नमो नमो विपुलपदैकसिद्धये
नमो नमः परमदयानिधे हरे॥
तुलसी-विष्णुभ्यां नमः, प्रार्थनाः समर्पयामि।
नमस्ते देवि तुलसि नमस्ते मोक्षदायिनि।
इदमर्घ्यं प्रदास्यामि सुप्रीता वरदा भव॥
लक्ष्मीपते नमस्तुभ्यं तुलसीदामभूषण।
इदमर्घ्यं प्रदास्यामि गृहाण गरुडध्वज॥
श्री-तुलस्यै महाविष्णवे च नमः, इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्।
नमस्ते देवि तुलसि माधवेन समन्विता।
प्रयच्छ सकलान्कामान् द्वादश्यां पूजिता मया॥
अनेन पूजनेन श्री-तुलसी-विष्णू प्रीयेताम्।
तुलसी-वन्दनम्
पापानि यानि रविसूनुपटस्थितानि
गो-ब्रह्म-बाल-पितृ-मातृ-वधादिकानि।
नश्यन्ति तानि तुलसीवनदर्शनेन
गोकोटिदानसदृशे फलमाशु च स्यात्॥१॥
(तुलसीवनगमने प्रोक्तव्यम्)
या दृष्टा निखिलाघसङ्घशमनी स्पृष्टा वपुः पावनी
रोगाणामभिवन्दिता निरसनी सिक्तान्तकत्रासिनी।
प्रत्यासत्ति विधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः॥२॥
(तुलसी-जल-प्रोक्षणम्)
ललाटे यस्य दृश्येत तुलसीमूलमृत्तिका।
यमस्तं नेक्षितुं शक्तः किमु दूता भयङ्कराः॥३॥
(मृत्तिका-धारणम्)
तुलसीकाननं यत्र यत्र पद्मवनानि च।
वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः॥४॥
पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा।
वासुदेवादयो देवा वसन्ति तुलसीवने॥५॥
(प्रदक्षिणम्)
तुलसी श्रीसखि शुभे पापहारिणि पुण्यदे।
नमस्ते नारदनुते नारायणमनःप्रिये॥६॥
(नमस्कारः)
श्रीतुलसीषोडशकनामस्तोत्रम्
तुलसी श्रीमहालक्ष्मीर्विद्याऽविद्या यशस्विनी।
धर्म्या धर्मावनासक्ता पद्मिनी श्रीर्हरिप्रिया॥
लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला।
षोडशैतानि नामानि तुलस्याः कीर्तयेन्नरः।
लभते सुतरां भक्तिम् अन्ते विष्णुपदं लभेत्॥
तुलसीविवाहविधिः
(इक्षुदण्डनिर्मिते पुष्पाद्यलङ्कृते मण्टपे विवाहः।
तुलसी हरिद्राचन्दनकुङ्कुमपुष्पाद्यालङ्कृता स्वीयवेद्यां प्रथमं पूज्यते।
शुक्लाम्बरधरं + परमेश्वरप्रीत्यर्थं शुभे शोभने मुहूर्ते + शुभतिथौ तुलस्याः विष्णुना सह विवाहोत्सवमाचरिष्ये।
[अप उपस्पृश्य]
विष्णुं विवाहार्थे वरार्ह-वस्त्रालङ्करण-पुष्पमालादिभिः अलङ्कृत्य वाद्यघोषगीतपुरस्सरं विवाहमण्टपमानीय कर्ता नारिकेल-कदलीफलताम्बूलादिभिः उपसृत्य मण्टपे आसने प्रतिष्ठाप्य प्रार्थयेत्।
आगच्छ भगवन् देव अर्हयिष्यामि केशव।
तुभ्यं ददामि तुलसीं प्रतीच्छन् कामदो भव॥
आसनमिदं, अलङ्क्रियताम्।
पाद्यं समर्पयामि।
अर्घ्यं समर्पयामि, आचमनीयं समर्पयामि।
मधुपर्कं समर्पयामि।
हरिद्रालेप-मङ्गलविधिं समर्पयामि।
तैलाभ्यङ्गपूर्वकं मङ्गलस्नानं समर्पयामि।
वस्त्रालङ्करणपुष्पमालाः समर्पयामि।
गन्धान् धारयामि। गन्धोपरि हरिद्राकुङ्कुमं समर्पयामि।
पुष्पैः पूजयामि।
तुलसी-विष्णुभ्यां नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
(वधूवरौ परस्परमभिमुखौ स्थापयित्वा)
... गोत्रोद्भवां ... शर्मणः प्रपौत्रीं, ... शर्मणः पौत्रीं, ... शर्मणः पुत्रीं
तुलसीनाम्नीम् इमां कन्यकां अजाय
परब्रह्मणे श्री-विष्णवे वराय प्रतिपादयामि। (त्रिः उक्त्वा)
अनादिमध्यनिधन त्रैलोक्यप्रतिपालक।
इमां गृहाण तुलसीं विवाहविधिनेश्वर॥
पार्वती-बीजसम्भूतां बृन्दाभस्मनि संस्थिताम्।
अनादिमध्यनिधनां वल्लभां ते ददाम्यहम्॥
पयोघटैश्च सेवाभिः कन्यावद्वर्धितां मया।
त्वत्प्रियां तुलसीं तुभ्यं ददामि त्वं गृहाण भोः॥
वाद्यघोष-वेदस्वस्तिवाचन-मङ्गलाशीर्भिः उभौ मेलयित्वा गीतादिभिः सन्तोषयेत्।
सायमपि पुनः पूजां कृत्वा स्त्रीधनं यथाशक्तिं दद्यात्।
विवाहोत्सवपूर्तौ—
वैकुण्ठं गच्छ भगवन् तुलस्या सहितः प्रभो।
मत्कृतं पूजनं गृह्य सन्तुष्टो भव सर्वदा॥
गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर।
यत्र ब्रह्मादयो देवाः तत्र गच्छ जनार्दन॥
इति उभौ अभ्यनुज्ञापयेत् मङ्गलारार्तिकेन सह। तुलसीं यथापूर्वं रक्षेत्।
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥
ॐ तत्सद्ब्रह्मार्पणमस्तु।
❀
धात्रीतुलस्युत्पत्तिवर्णनम्
नारद उवाच
क्षिप्तेभ्यस्तत्र बीजेभ्यो वनस्पत्यस्त्रयोऽभवन्।
धात्री च मालती चैव तुलसी च नृपोत्तम॥१॥
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता।
गौरीभवा च तुलसी तमःसत्त्वरजोगुणाः॥२॥
स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप।
उत्तस्थौ सम्भ्रमाद्वृन्दा रूपातिशयविभ्रमः॥३॥
दृष्ट्वा च याचते मोहात्कामासक्तेन चेतसा।
तं चापि तुलसीधात्र्यौ रागेणैव व्यलोकताम्॥४॥
यच्च लक्ष्म्या पुरा बीजमीर्ष्ययैव समर्पितम्।
तस्मात्तदुद्भवा नारी तस्मिन्नीर्ष्यापराऽभवत्॥५॥
अतः सा बर्बरीत्याख्यामवापाध विगर्हिताम्।
धात्रीतुलस्यौ तद्रागात्तस्य प्रीतिप्रदे सदा॥६॥
ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु।
वैकुण्ठमगमद् धृष्टः सर्वदेवनमस्कृतः॥७॥
कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते।
तुलसीमूलदेशेऽस्य प्रीतिदा सा यतः स्मृता॥८॥
तुलसीकाननं राजन्गृहे तस्यावतिष्ठते।
तद्गृहं तीर्थरूपं तु नाऽऽयान्ति यमकिङ्कराः॥९॥
सर्वपापहरं नित्यं कामदं तुलसीवनम्।
रोपयन्ति नराः श्रेष्ठास्ते न पश्यन्ति भास्करिम्॥१०॥
दर्शनं नर्मदायास्तु गङ्गास्नानं तथैव च।
तुलसीवनसंसर्गः सममेव त्रयं स्मृतम्॥११॥
रोपणात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम्।
तुलसी दहते पापं वाङ्मनःकायसञ्चितम्॥१२॥
तुलसीमञ्जरीभिर्यः कुर्याद्धरिहरार्चनम्।
न स गर्भगृहं याति मुक्तिभागी न संशयः॥१३॥
पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा।
वासुदेवादयो देवास्तिष्ठन्ति तुलसीदले॥१४॥
तुलसीमञ्जरीयुक्तो यस्तु प्राणान्विमुञ्चति।
यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि॥१५॥
विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम।
तुलसीकाष्ठजं यस्तु चन्दनं धारयेन्नरः॥१६॥
तद्देहं न स्पृशेत्पापं क्रियमाणमपीह यत्।
तुलसीविपिनच्छाया यत्र यत्र भवेन्नृप॥१७॥
तत्र श्राद्धं प्रकर्तव्यं पितॄणां दत्तमक्षयम्।
धात्रीफलविमिश्रैश्च तुलसीपत्रमिश्रितैः॥१८॥
जलैः स्नाति नरस्तस्य गङ्गास्नानफलं स्मृतम्।
देवार्चनं नरः कुर्याद्धात्रीपत्रैः फलैस्तथा॥१९॥
सुवर्णमणिमुक्तौघैरर्चनस्याऽऽप्नुयात्फलम्।
तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके॥२०॥
नित्यं धात्रीं समाश्रित्य तिष्ठन्त्यर्के तुलास्थिते।
द्वादश्यां तुलसीपत्रं धात्रीपत्रं तु कार्तिके॥२१॥
लुनाति स नरो गच्छेन्निरयानतिगर्हितान्।
धात्रीतुलस्योर्माहात्म्यमपि देवश्चतुर्मुखः।
न समर्थो भवेद्वक्तुं यथा देवस्य शार्ङ्गिणः॥२२॥
धात्रीतुलस्युद्भवकारणं यः
शृणोति यः श्रावयते च भक्त्या।
विधूतपाप्मा सह पूर्वजैः स्वैः
स्वर्गं व्रजत्यग्र्यविमानसंस्थैः॥२३॥
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
धात्रीतुलस्युत्पत्तिवर्णनं नाम त्रयोविंशोऽध्यायः॥२३॥
तुलसीविवाहविधिवर्णनम्
वालखिल्या ऊचुः
कार्तिके शुक्लनवमी तत्राऽभूद् द्वापरं युगम्।
पूर्वापराह्णगा ग्राह्या क्रमाद्दानोपवासयोः॥१॥
अत्र कूष्माण्डको नाम हतो दैत्यस्तु विष्णुना।
तद्रोमभिः समुद्भूता वल्ल्यः कूष्माण्डसम्भवाः॥२॥
तस्मात्कूष्माण्डदानेन फलमाप्नोति निश्चितम्।
अस्यामेव नवम्यां तु कुर्यात्कृष्णोत्सवं नरः॥३॥
स्वशाखोक्तेन विधिना तुलस्याः करपीडनम्।
कन्यादानफलं तस्य जायते नात्र संशयः॥४॥
कार्तिके शुक्लनवमीमवाप्य विजितेन्द्रियः।
हरिं विधाय सौवर्णं तुलस्या सहितं शुभम्॥५॥
पूजयेद्विधिवद्भक्त्या व्रती तत्र दिनत्रयम्।
एवं यथोक्तविधिना कुर्याद्वैवाहिकं विधिम्॥६॥
ग्राह्यं त्रिरात्रमत्रैव नवम्याद्यनुरोधतः।
मध्याह्नव्यापिनी ग्राह्या नवमी पूर्ववेधिता॥७॥
धात्र्यश्वत्थौ य एकत्र पालयित्वा समुद्वहेत्।
न नश्यते तस्य पुण्यं कल्पकोटिशतैरपि॥८॥
कनकस्य सुता पूर्वमेकादश्यां किशोरिका।
चकार भक्तितः सायं तुलस्युद्वाहजं विधिम्॥९॥
तेन वैधव्यदोषेण निर्मुक्ताऽऽसीत्सुलोचना।
तस्मात्सायं प्रकर्तव्यस्तुलस्युद्वाहजो विधिः॥१०॥
अवश्यमेव कर्तव्यः प्रतिवर्षं तु वैष्णवैः।
विधिं तस्य प्रवक्ष्यामि यथा साङ्गा क्रिया भवेत॥११॥
विष्णोस्तु प्रतिमां कुर्यात्पलस्य स्वर्णजां शुभाम्।
तदर्धार्धं तदर्धार्धं यथाशक्त्या प्रकल्पयेत्॥१२॥
प्राणप्रतिष्ठां कृत्वैव तुलसीविष्णुरूपयोः।
तत उत्थापयेद् देवं पूर्वोक्तैश्च स्तवादिभिः॥१३॥
उपचारैः षोडशभिः पूजयेत्पुरुषोक्तिभिः।
देशकालौ ततः स्मृत्वा गणेशं तत्र पूजयेत्॥१४॥
पुण्याहं वाचयित्वाऽथ नान्दीश्राद्धं समाचरेत्।
वेदवाद्यादिनिर्घोषैर्विष्णुमूर्तिं समानयेत्॥१५॥
तुलसीनिकटे सा तु स्थाप्या चान्तर्हिता पटैः।
आगच्छ भगवन्देव अर्चयिष्यामि केशव॥१६॥
तुभ्यं दास्यामि तुलसीं सर्वकामप्रदो भव।
दद्यात् त्रिवारमर्घ्यं च पाद्यं विष्टरमेव च॥१७॥
तत आचमनीयं च त्रिरुक्त्वा च प्रदापयेत्।
ततो दधि घृतं क्षीरं कांस्यपात्रपुटीकृतम्॥१८॥
मधुपर्कं गृहाण त्वं वासुदेव नमोऽस्तु ते।
हरिद्रालेपानाभ्यङ्गकार्यं सर्वं विधाय च॥१९॥
गोधूलिसमये पूज्यौ तुलसीकेशवौ पुनः।
पृथक्पृथक्तथा कार्यौ सम्मुखौ मङ्गलं पठेत्॥२०॥
ईषद्दृश्ये भास्करे तु सङ्कल्पं तु समुच्चरेत्।
स्वगोत्रप्रवरानुक्त्वा तथा त्रिपुरुषादिकम्॥२१॥
अनादिमध्यनिधन त्रैलोक्यप्रतिपालक।
इमां गृहाण तुलसीं विवाहविधिनेश्वर॥२२॥
पार्वतीबीजसम्भूतां वृन्दाभस्मनि संस्थिताम्।
अनादिमध्यनिधनां वल्लभां ते ददाम्यहम्॥२३॥
पयोघटैश्च सेवाभिः कन्यावद् वर्धिता मया।
त्वत्प्रियां तुलसीं तुभ्यं ददामि त्वं गृहाण भोः॥२४॥
एवं दत्त्वा च तुलसीं पश्चात्तौ पूजयेत्ततः।
रात्रौ जागरणं कुर्याद्विवाहोत्सवपूर्वकम्॥२५॥
ततः प्रभातसमये तुलसीं विष्णुमर्चयेत्।
वह्निसंस्थापनं कृत्वा द्वादशाक्षरविद्यया॥२६॥
पायसाज्यक्षौद्रतिलैर्जुह्यादष्टोत्तरं शतम्।
ततः स्विष्टकृतं हुत्वा दद्यात्पूर्णाहुतिं ततः।
आचार्यं च समभ्यर्च्य होमशेषं समापयेत्॥२७॥
चतुरो वार्षिकान्मासान्नियमो येन यः कृतः।
कथयित्वा द्विजेभ्यस्तत्तथाऽन्यत्परिपूरयेत्॥२८॥
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो।
न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्दन॥२९॥
रेवतीतुर्यचरणे द्वादशीसंयुते नरः।
न कुर्यात्पारणं कुर्वन्व्रतं निष्फलतां नयेत्॥३०॥
ततो येषां पदार्थानां वर्जनं तु कृतं भवेत्।
चातुर्मास्येऽथवा चोर्जे ब्राह्मणेभ्यः समर्पयेत्।
ततः सर्वं समश्नीयाद्यद्यत्त्यक्तं व्रते स्थितम्॥३१॥
दम्पतिभ्यां सहैवात्र भोक्तव्यं च द्विजैः सह॥३२॥
ततो भुक्त्युत्तरं यानि गलितानि दलानि च।
तानि भुक्त्वा तुलस्याश्च स्वयं पापैः प्रमुच्यते॥३३॥
इक्षुदण्डं तथा धात्रीफलं कोलिफलं तथा।
भुक्त्वा तु भोजनस्यान्ते तस्योच्छिष्टं विनश्यति॥३४॥
एषु त्रिषु न भुक्तं चेदेकैकमपि येन तु।
ज्ञेय उच्छिष्ट आवर्षं नरोऽसौ नात्र संशयः॥३५॥
ततः सायं पुनः पूज्याविक्षुदण्डैश्च शोभितैः।
तुलसीवासुदेवौ च कृतकृत्यो भवेत्ततः॥३६॥
ततो विसर्जनं कृत्वा दत्त्वा दायादिकं हरेः।
वैकुण्ठं गच्छ भगवँस्तुलसीसहितः प्रभो।
मत्कृतं पूजनं गृह्य सन्तुष्टो भव सर्वदा॥३७॥
गच्छगच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर।
यत्र ब्रह्मादयो देवास्तत्र गच्छ जनार्दन॥३८॥
एवं विसृज्य देवेशमाचार्याय प्रदापयेत्।
मूर्त्यादिकं सर्वमेव कृतकृत्यो भवेन्नरः॥३९॥
प्रतिवर्षं तु यः कुर्यात्तुलसीकरपीडनम्।
भक्तिमान्धनधान्यैः स युक्तो भवति निश्चितम्।
इहलोके परत्रापि विपुलं च यशो लभेत्॥४०॥
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां
द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये
कूष्माण्डनवमीतुलसीविवाहविधिवर्णनं नाम त्रयोविंशोऽध्यायः॥३१॥
तुलसी-माहात्म्यम्
ब्रह्मोवाच
श्रीमत्तुलसिमाहात्म्यं यथावद्वर्णय प्रभो।
यस्याः सन्निधिमात्रेण प्रीतिर्भवति तेऽधिका॥१॥
श्रीभगवानुवाच
मणिकांचनपुष्पाणि तथा मुक्तामयानि च।
तुलसीपत्रदानस्य कलां नार्हंति षोडशीम्॥२॥
तुलसीमंजरीभिर्यः कुर्याद्वै मम पूजनम्।
न स गर्भगृहं यायान्मुक्तिभागी भवेन्नरः॥३॥
आरोप्य तुलसीं वत्स पूजयेत्तद्दलैश्च माम्।
दिवि संमोदमानः स श्वेतद्वीपे च मे गृहे॥४॥
श्रीमत्तुलस्यार्चयते सकृद्धि मां
पत्रैः सुगन्धैर्विमलैरखंडितैः।
यस्तस्य पापं पटसंस्थितं तदा
निरीक्षयित्वा परिमार्जयेद्यमः॥५॥
तुलसी न येषां मम पूजनार्थं
संपादितैकादशिपुण्यवासरे।
धिग्यौवनं जीवितमर्थसन्ततिस्-
तेषां सुखं नेह च दृश्यते परे॥६॥
लिंगमभ्यर्चितं दृष्ट्वा सहोमासे च मामकम्।
तुलसीपत्रनिकरैर्मुच्यते ब्रह्महत्यया॥७॥
नित्यमभ्यर्चयेद्यो वै तुलस्या मां रमेश्वरम् ॥
महापापानि नश्यंति किं पुनश्चोपपातकम् ॥८॥
वर्ज्यं पर्युषितं पुष्पं वर्ज्यं पर्युषितं जलम्।
न वर्ज्यं तुलसीपत्रं न वर्ज्यं जाह्नवीजलम्॥८॥
तावद्गर्जंति पुष्पाणि मालत्यादीनि भोः सुत।
यावन्न प्राप्यते पुण्या तुलसी मम वल्लभा॥९॥
सकृदभ्यर्चयेद्यो मां बिल्वपत्रेण मानवः।
मुक्तिभागी निरातंको मम पार्श्वगतो भवेत्॥१०॥
बिल्वपत्राच्छमीपत्राज्जातीपत्रात्सरोरुहात्।
वल्लभं तुलसीपत्रं कौस्तुभादधिकं मम॥११॥
अभिन्नपत्रा तुलसी हृद्या मंजरिसंयुता।
क्षीरोदार्णवसंभूता पद्मेवेयं सदा मम॥१२॥
अकृष्णाऽप्यथवा कृष्णा तुलसी मम वल्लभा।
सिता वाऽप्यसिता वापि द्वादशी वल्लभा यथा॥१३॥
गृहीत्वा तुलसीपत्रं भक्त्या यो मां समर्चयेत्।
अर्चितं तेन सकलं सदेवासुरमानुषम्॥१४॥
तावद्गर्जंति रत्नानि कौस्तुभादीन्यनन्तशः।
यावन्न प्राप्यते कृष्ण तुलसीकृष्णमंजरी॥१५॥
कृष्णं कृष्णतुलस्या हि यो भक्त्या पूजयेन्नरः।
स याति भुवनं शुभ्रं यत्र विष्णुः श्रिया सह॥१६॥
ममाऽर्चनार्थं भिक्षूणां यच्छंति तुलसीदलम्।
अन्येषामपि भक्तानां यांति ते पदमव्ययम्॥१७॥
तुलसी कृष्णगौरा या तया यो मां समर्चयेत्।
नरो याति तनुं त्यक्त्वा वैष्णवीं शाश्वतीं गतिम्॥१८॥
[इतः पश्चात् दीपमाहात्म्यवर्णनम्]
॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये दीपमाहात्म्यवर्णनं नाम अष्टमोऽध्यायः॥८॥
❀ ❀ ❀