भीष्म-तर्पणम्

Shri Bhishma Pitamaha whose very nature was dharma undertook a vow of Brahmacharya and lived as a Brahmachari throughout his life. Hence, he did not have any descendants. He had the boon of icchamrtyu (choosing when he could leave his body). So he waited until Uttarayanam and shed his mortal on Shukla Ashtami in Magha masa. Therefore, all of us should offer Tarpanam and Arghyadanam for the sake of Bhishma on Magha masa Shukla Ashtami. Laugakshi Smrti says that those who offer this Bhishma Tarpanam gets as much punya as feeding a thousand brahmanas.

अष्टमीदिवसे चैव भीष्मतर्पणमाचरेत्।
दद्यात् प्रदद्याद् भीष्माय तर्पणं प्रतिवत्सरम्॥
तेन तर्पणमात्रेण सहस्रद्विजभोजने।
यत्फलं कथितं सद्भिस्तदवाप्नोत्यसंशयः॥
शुक्लाष्टम्यां तु माघस्य दद्याद्भीष्माय यो जलम्।
संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥
ब्राह्मणाद्याश्च ये वर्णाः दद्युर्भीष्माय नो जलम्।
संवत्सरकृतं तेषां पुण्यं नश्यति सत्तम॥

Padma Puranam also warns that those who do not not offer this Tarpana to Bhishma on Bhishmashtami, lose the punya accumulated during the entire year. Hence we should all offer Tarpanam and Arghyadanam for the sake of Pitamaha Bhishma and strive to become those who perform their duties well.
After completion of the anushthanas of nityakarmas such as morning Snanam, Sandhyavandanam everyone should do Tarpanam and Arghyadanam for Bhishma.

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

प्राणान् आयम्य।
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः
द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे
जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां
प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये
( ) नाम संवत्सरे
उत्तरायणे
शिशिर-ऋतौ
मकर-माघ-मासे
शुक्लपक्षे
अष्टम्यां शुभतिथौ
(इन्दु / भौम / सौम्य / गुरु / भृगु / स्थिर / भानु)-वासरयुक्तायां
( )-नक्षत्र-
( )-योग-
भद्रा/बव-करण-युक्तायां
च एवं गुण-विशेषण-विशिष्टायाम् अस्याम्
अष्टम्यां शुभतिथौ
ममोपात्त-समस्त-दुरितक्षयद्वारा श्रीपरमेश्वर-प्रीत्यर्थं भीष्माष्टमी-पुण्यकाले भीष्मतर्पणम् अर्घ्यदानं च करिष्ये।
जीवत्पिताऽपि कुर्वीत तर्पणं यमभीष्मयोःThose whose father is living must also offer Tarpanam for Yama and Bhishma
According to this vachana, those whose father is alive should also offer Tarpanam to Bhishma. Those who do not have a father should wear the Yajnopavitam on the left and offer tarpanam via the Pitr Tirtha with water mixed with tila (sesame). Those whose father is alive should offer Tarpanam with just as in Pitr Tarpanam in Brahmayajna (with Yajnopavitam upto the left wrist and with only water) with Pitr Tirtha.
उदकदानमन्त्रः—

वैयाघ्रपादगोत्राय साङ्कृत्यप्रवराय च।
गङ्गापुत्राय भीष्माय प्रदास्येऽहं तिलोदकम्।
अपुत्राय ददाम्येतत् सलिलं भीष्मवर्मणे॥

भीष्मं तर्पयामि। भीष्मं तर्पयामि। भीष्मं तर्पयामि॥
With the following Shlokas, everyone should offer Arghyadanam with water three times similar to how Arghyadanam is done in Sandhyavandanam.

सत्यव्रताय शुचये गाङ्गेयाय महात्मने।
अर्घ्यं ददामि भीष्माय सोमवंशोद्भवाय च॥

भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्।

वसूनामवताराय शन्तनोरात्मजाय च।
अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे॥

भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्। भीष्माय नमः इदमर्घ्यम्।

प्रार्थना

भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः।
आभिरद्भिरवाप्नोतु पुत्रपौत्रोचिताः क्रियाः॥

With this shloka, offer Prarthana to Bhishma.

कायेन वाचा मनसेन्द्रियैर्वा
बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि॥

अनेन मया कृतेन भीष्माष्टमी-पुण्यकाले भीष्मतर्पणेन परमात्मा सुप्रीतः सुप्रसन्नो वरदो भवतु॥
ॐ तत्सद्ब्रह्मार्पणमस्तु॥

❀

भीष्मस्तुतिः

श्री-भीष्म उवाच

इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि।
स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद् भवप्रवाहः॥१॥
त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने।
वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या॥२॥
युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यलङ्कृतास्ये।
मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा॥३॥
सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य।
स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु॥४॥
व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या।
कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु॥५॥
स्वनिगममपहाय मत्प्रतिज्ञामृतमधिकर्तुमवप्लुतो रथस्थः।
धृतरथचरणोऽभ्ययाच्चलद्गुर्हरिरिव हन्तुमिभं गतोत्तरीयः॥६॥
शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे।
प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः॥७॥
विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये।
भगवति रतिरस्तु मे मुमूर्षोर्यमिह निरीक्ष्य हता गताः स्वरूपम्॥८॥
ललितगतिविलासवल्गुहास प्रणयनिरीक्षणकल्पितोरुमानाः।
कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन्किल यस्य गोपवध्वः॥९॥
मुनिगणनृपवर्यसङ्कुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम्।
अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा॥१०॥
तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम्।
प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोहः॥११॥

सूत उवाच

कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः।
आत्मन्यात्मानमावेश्य सोऽन्तःश्वास उपारमत्॥

॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमे स्कन्धे नवमेऽध्याये श्री-भीष्मस्तुतिः सम्पूर्णा॥

भीष्म-स्तवराजः

जनमेजय उवाच

शरतल्पे शयानस्तु भरतानां पितामहः।
कथमुत्सृष्टवान् देहं कं च योगमधारयत्॥१॥

वैशम्पायन उवाच

शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः।
भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः॥२॥
प्रवृत्तमात्रे त्वयनमुत्तरेण दिवाकरे।
शुक्लपक्षस्य चाष्टम्यां माघमासस्य पार्थिव॥३॥
प्राजापत्ये च नक्षत्रे मध्यं प्राप्ते दिवाकरे।
समावेशयदात्मानमात्मन्येव समाहितः॥४॥
विकीर्णांशुरिवादित्यो भीष्मः शरशतैश्चितः।
शुशुभे परया लक्ष्म्या वृतो ब्राह्मणसत्तमैः॥५॥
व्यासेन देवश्रवसा नारदेन सुरर्षिणा।
देवस्थानेन वात्स्येन तथाऽश्मकसुमन्तुना॥६॥
तथा जैमिनिना चैव पैलेन च महात्मना।
शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता॥७॥
असितेन वसिष्ठेन कौशिकेन महात्मना।
हारीतलोमशाभ्यां च तथाऽऽत्रेयेण धीमता॥८॥
बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः।
सनत्कुमारः कपिलो वामीकिस्तुम्बुरुः कुरुः॥९॥
मौद्गल्यो भार्गवो रामस्तृणबिन्दुर्महामुनिः।
पिप्पलादोऽथ वायुश्च सवर्तः पुलहः कचः॥१०॥
काश्यपश्च पुलस्त्यश्च क्रतुर्दक्षः पराशरः।
मरीचिरङ्गिराः काश्यो गौतमो गालवो मुनिः॥११॥
धौम्यो विभाण्डो माण्डव्योधौम्रः कृष्णानुभौतिकः।
उलूकः परमो विप्रो मार्कण्डेयो महामुनिः।
भास्करिः पूरणः कृष्णः सूतः परमधार्मिकः॥१२॥
एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः।
श्रद्धादमशमोपेतैर्वृतश्चन्द्र इव ग्रहैः॥१३॥
भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा।
शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः शुचिः॥१४॥
स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम्।
योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम्।
अनादिनिधनं विष्णुमात्मयोनिं सनातनम्॥१५॥
कृताञ्जलिपुटो भूत्वा वाग्विदां प्रवरः प्रभुः।
भीष्मः परमधर्मात्मा वासुदेवमथास्तुवत्॥१६॥

भीष्म उवाच

आरिराधयिषुः कृष्णं वाचं जिगदिषामि याम्।
तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः॥१७॥
शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम्।
युक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम्॥१८॥
अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः।
एकोऽयं वेद भगवान् धाता नारायणो हरिः॥१९॥
नारायणादृषिगणास्तथा सिद्धमहोरगाः।
देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम्॥२०॥
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः।
यं न जानन्ति को ह्येष कुतो वा भगवानिति॥२१॥
यमाहुर्जगतः कोशं यस्मिंश्च निहिताः प्रजाः।
यस्मिँल्लोकाः स्फुरन्त्येते जाले शकुनयो यथा॥२२॥
यस्मिन् विश्वानि भूतानि तिष्ठन्ति च विशन्ति च।
गुणभूतानि भूतेशे सूत्रे मणिगणा इव॥२३॥
यं च विश्वस्य कर्तारं जगतस्तस्थुषां पतिम्।
वदन्ति जगतोऽध्यक्षमध्यात्मपरिचिन्तकाः॥२४॥
यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति।
सदसद् ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि॥२५॥
हरिं सहस्रशिरसं सहस्रचरणेक्षणम्।
सहस्रबाहुमकुटं सहस्रवदनोज्ज्वलम्॥२६॥
प्राहुर्नारायणं देवं यं विश्वस्य परायणम्।
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम्।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि॥२७॥
यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च।
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु॥२८॥
चतुर्भिश्चतुरात्मानं सत्वस्थं सात्वतां पतिम्।
यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः॥२९॥
यस्मिन्नित्यं तपस्तप्तं यदङ्गेष्वनुतिष्ठति।
सर्वात्मा सर्ववित् सर्वः सर्वज्ञः सर्वभावनः॥३०॥
यं देवं देवकी देवी वसुदेवादजीजनत्।
भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः॥३१॥
यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम्।
इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मानमात्मनि॥३२॥
अप्रतर्क्यमविज्ञेयं हरिं नारायणं विभुम्।
अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम्।
अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम्॥३३॥
पुराणे पुरुषं प्रोक्तं ब्रह्मप्रोक्तं युगादिषु।
क्षये सङ्कर्षणं प्रोक्तं तमुपास्यमुपास्महे॥३४॥
यमेकं बहुधात्मानं प्रादुर्भूतमधोक्षजम्।
नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम्॥३५॥
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम्।
अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः॥३६॥
यं सुरासुरगन्धर्वाः सिद्धा ऋषिमहोरगाः।
प्रयता नित्यमर्चन्ति परमं सुखभेषजम्॥३७॥
अनादिनिधनं देवमात्मयोनिं सनातनम्।
अप्रेक्ष्यमनभिज्ञेयं हरिं नारायणं प्रभुम्॥३८॥

अथ भीष्मस्तवराजः

हिरण्यवर्णं यं गर्भमदितिर्दैत्यनाशनम्।
एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः॥३९॥
शुक्ले देवान् पितॄन् कृष्णे तर्पयत्यमृतेन यः।
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः॥४०॥
हुताशनमुखैर्देवैर्धार्यते सकलं जगत्।
हविः प्रथमभोक्ता यस्तस्मै होत्रात्मने नमः॥४१॥
महतस्तमसः पारे पुरुषं ह्यतितेजसम्।
यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः॥४२॥
यं बृहन्तं बृहत्युक्थे यमग्नौ यं महाध्वरे।
यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः॥४३॥
पादाङ्गं सन्धिपर्वाणं स्वरव्यञ्जनभूषितम्।
यमाहुरक्षरं विप्रास्तस्मै वागात्मने नमः॥४४॥
यज्ञाङ्गो यो वराहो वै भूत्वा गामुज्जहार ह।
लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः॥४५॥
ऋग्यजुःसामधामानं दशार्धहविराकृतिम्।
यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः॥४६॥
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च।
हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः॥४७॥
यः सुपर्णो यजुर्नाम च्छन्दोगात्रस्त्रिवृच्छिराः।
रथन्तरबृहत्पक्षस्तस्मै स्तोत्रात्मने नमः॥४८॥
यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः।
हिरण्यपक्षः शकुनिस्तस्मै तार्क्ष्यात्मने नमः॥४९॥
यश्चिनोति सतां सेतुमृतेनामृतयोनिना।
धर्मार्थव्यवहाराङ्गैस्तस्मै सत्यात्मने नमः॥५०॥
यं पृथग्धर्मचरणाः पृथग्धर्मफलैषिणः।
पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः॥५१॥
यतः सर्वे प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः।
उन्मादः सर्वभूतानां तस्मै कामात्मने नमः॥५२॥
यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः।
क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः॥५३॥
यं दृगात्मानमात्मस्थं वृतं षोडशभिर्गुणैः।
प्राहुः सप्तदशंसाङ्ख्यास्तस्मै साङ्ख्यात्मने नमः॥५४॥
यं विनिद्रा जितश्वासाः सन्तुष्टाः संयतेन्द्रियाः।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मेन नमः॥५५॥
अपुण्यपुण्योपरमे यं पुनर्भवनिर्भयाः।
शान्ताः सन्न्यासिनो यान्ति तस्मै मोक्षात्मने नमः॥५६॥
यस्याग्रिरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः।
सूर्यश्चक्षुर्दिशः श्रोत्रं तस्मै लोकात्मने नमः॥५७॥
युगेष्वावर्तते योंऽशैर्मासर्त्वयनहायनैः।
सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः॥५८॥
योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः।
सम्भक्षयति भूतानि तस्मै घोरात्मने नमः॥५९॥
सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत्।
बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः॥६०॥
सहस्रशिरसे तस्मै पुरुषायामितात्मने।
चतुःसमुद्रपयसि योगनिद्रात्मने नमः॥६१॥
अजस्य नाभावध्येकं यस्मिन् विश्वं प्रतिष्ठितम्।
पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः॥६२॥
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः॥६३॥
यस्मात् सर्गाः प्रवर्तन्ते सर्गप्रलयविक्रियाः।
यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः॥६४॥
यो निषण्णो भवेद्रात्रौ दिवा भवति विष्ठितः।
इष्टानिष्टस्य च द्रष्टा तस्मै द्रष्ट्रात्मने नमः॥६५॥
अकार्यः सर्वकार्येषु धर्मकार्यार्थमुद्यतः।
वैकुण्ठस्य हि तद्रूपं तस्मै कार्यात्मने नमः॥६६॥
ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः।
पादौ यस्याऽऽश्रिताः शूद्रास्तस्मै वर्णात्मने नमः॥६७॥
अन्नपानेन्धनमयो रसप्राणविवर्धनः।
यो धारयति भूतानि तस्मै प्राणात्मने नमः॥६८॥
प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम्।
अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः॥६९॥
विषये वर्तमानानां यं तं वैषयिकैर्गुणैः।
प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः॥७०॥
अप्रमेयशरीराय सर्वतो बुद्धिचक्षुषे।
अपारपरिमाणाय तस्मै दिव्यात्मने नमः॥७१॥
परः कालात् परो यज्ञात् परः सदसतश्च यः।
अनादिरादिर्विश्वस्य तस्मै विश्वात्मने नमः॥७२॥
वैद्युतो जाठरश्चैव पावकः शुचिरेव च।
दहनः सर्वभक्षाणां तस्मै वह्न्यात्मने नमः॥७३॥
रसातलगतः श्रीमाननन्तो भगवान् प्रभुः।
जगद् धारयते योऽसौ तस्मै शेषात्मने नमः॥७४॥
ज्वलनार्केन्दुताराणां ज्योतिषां दिव्यमूर्तिनाम्।
यस्तेजयति तेजांसि तस्मै तेजात्मने नमः॥७५॥
आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितम्।
यं ज्ञानेनाधिगच्छन्ति तस्मै ज्ञानात्मने नमः॥७६॥
साङ्ख्यैर्योगैर्विनिश्चित्य साध्यैश्च परमर्षिभिः।
यस्य तु ज्ञायते तत्त्वं तस्मै गुह्यात्मने नमः॥७७॥
जटिने दण्डिने नित्यं लम्बोदरशरीरिणे।
कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः॥७८॥
शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने।
भस्मदिग्धोर्ध्वलिङ्गाय तस्मा रुद्रात्मने नमः॥७९॥
चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने।
पिनाकशूलहस्ताय तस्मै उग्रात्मने नमः॥८०॥
यो जातो वसुदेवेन देवक्यां यदुनन्दनः।
शङ्खचक्रगदापाणिर्वासुदेवात्मने नमः॥८१॥
शिरःकपालमालाय व्याघ्रचर्मनिवासिने।
भस्मदिग्धशरीराय तस्मै रुद्रात्मने नमः॥८२॥
यो मोहयति भूतानि सर्वपाशानुबन्धनैः।
सर्वस्य रक्षणार्थाय तस्मै मोहात्मने नमः॥८३॥
चैतन्यं सर्वतो नित्यं सर्वप्राणिहृदि स्थितम्।
सर्वातीततरं सूक्ष्मं तस्मै सूक्ष्मात्मने नमः॥८४॥
पञ्चभूतात्मभूताय भूतादिनिधनाय च।
अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः॥८५॥
यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः।
यश्च सर्वमयो देवस्तस्मै सर्वात्मने नमः॥८६॥
यः शेते क्षीरपर्यङ्के दिव्यनागविभूषिते।
फणासहस्ररचिते तस्मै निद्रात्मने नमः॥८७॥
विश्वे च मरुतश्चैव रुद्रादित्याश्विनावपि।
वसवः सिद्धसाध्याश्च तस्मै देवात्मने नमः॥८८॥
अव्यक्तं बुद्ध्यहङ्कारो मनोबुद्धीन्द्रियाणि च।
तन्मात्राणि विशेषाश्च तस्मै तत्त्वात्मने नमः॥८९॥
भूतं भव्यं भविष्यच्च भूतादिप्रभवाव्ययः।
योऽग्रजः सर्वभूतानां तस्मै भूतात्मने नमः॥९०॥
यं हि सूक्ष्मं विचिन्वन्ति परं सूक्ष्मविदो जनाः।
सूक्ष्मात् सूक्ष्मं च यद् ब्रह्म तस्मै सूक्ष्मात्मने नमः॥९१॥
मत्स्यो भूत्वा विरिञ्चाय येन वेदाः समाहृताः।
रसातलगतः शीघ्रं तस्मै मत्स्यात्मने नमः॥९२॥
मन्दराद्रिर्धृतो येन प्राप्ते ह्यमृतमन्थने।
अतिकर्कशदेहाय तस्मै कूर्मात्मने नमः॥९३॥
वाराहं रूपमास्थाय महीं सवनपर्वताम्।
उद्धरत्येकदंष्ट्रेण तस्मै क्रोडात्मने नमः॥९४॥
नारसिंहवपुः कृत्वा सर्वलोकभयङ्करम्।
हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः॥९५॥
पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखैर्युतम्।
दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः॥९६॥
यं न देवा न गन्धर्वा न दैत्या न च दानवाः।
तत्त्वतो हि विजानन्ति तस्मै सूक्ष्मात्मने नमः॥९७॥
वामनं रूपमास्थाय बलिं संयम्य मायया।
त्रैलोक्यं क्रान्तवान् यस्तु तस्मै क्रान्तात्मने नमः॥९८॥
जमदग्निसुतो भूत्वा रामः शस्त्रभृतां वरः।
महीं निःक्षत्रियां चक्रे तस्मै रामात्मने नमः॥९९॥
त्रिःसप्तकृत्वो यश्चैको धर्मे व्युत्क्रान्तिगौरवात्।
जघान क्षत्रियान् सङ्ख्ये तस्मै क्रोधात्मने नमः॥१००॥
विभज्य पञ्चधाऽऽत्मानं वायुर्भूत्वा शरीरगः।
यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः॥१०१॥
रामो दशिरथिर्भूत्वा पुलस्त्यकुलनन्दनम्।
जघान रावणं सङ्ख्ये तस्मै क्षत्रात्मने नमः॥१०२॥
यो हली मुसली श्रीमान्नीलाम्बरधरः स्थितः।
रामाय रौहिणेयाय तस्मै भोगात्मने नमः॥१०३॥
शङ्खिने चक्रिणे नित्यं शार्ङ्गिणे पीतवाससे।
वनमालाधरायैव तस्मै कृष्णात्मने नमः॥१०४॥
वसुदेवसुतः श्रीमान् क्रीडितो नन्दगोकुले।
कंसस्य निधनार्थाय तस्मै क्रीडात्मने नमः॥१०५॥
वासुदेवत्वमागम्य यदोर्वंशसमुद्भवः।
भूभारहरणं चक्रे तस्मै कृष्णात्मने नमः॥१०६॥
सारथ्यमर्जुनस्याऽऽजौ कुर्वन् गीतामृतं ददौ।
लोकत्रयोपकाराय तस्मै ब्रह्मात्मने नमः॥१०७॥
दानवांस्तु वशे कृत्वा पुनर्बुद्धत्वमागतः।
सर्गस्य रक्षणार्थाय तस्मै बुद्धात्मने नमः॥१०८॥
हनिष्यति कलौ प्राप्ते म्लेच्छांस्तुरगवाहनः।
धर्मसंस्थापको यस्तु तस्मै कल्क्यात्मने नमः॥१०९॥
तारान्वये कालनेमिं हत्वा दानवपुङ्गवम्।
ददौ राज्यं महेन्द्राय तस्मै साङ्ख्यात्मने नमः॥११०॥
यः सर्वप्राणिनां देहे साक्षिभूतो ह्यवस्थितः।
अक्षरः क्षरमाणानां तस्मै साक्ष्यात्मने नमः॥१११॥
नमोऽस्तु ते महादेव नमस्ते भक्तवत्सल।
सुब्रह्मण्य नमस्तेऽस्तु प्रसीद परमेश्वर॥११२॥
अव्यक्तव्यक्तरूपेण व्याप्तं सर्वं त्वया विभो।
नारायणं सहस्राक्षं सर्वलोकमहेश्वरम्॥११३॥
हिरण्यनाभं यज्ञाङ्गममृतं विश्वतोमुखम्।
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम्॥११४॥
येषां हृदिस्थो देवेशो मङ्गलायतनं हरिः।
मङ्गल भगवान् विष्णुर्मङ्गलं मधुसूदनः॥११५॥
मङ्गलं पुण्डरीकाक्षो मङ्गलं गरुडध्वजः।
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन् विश्वसम्भव॥११६॥
अपवर्गस्थभूतानां पञ्चानां परमास्थित।
नमस्ते त्रिषु लोकेषु वमस्ते परतस्त्रिषु॥११७॥
नमस्ते दिक्षु सर्वासु त्वं हि सर्वपरायणम्।
नमस्ते भगवन् विष्णो लोकानां प्रभवाव्यय॥११८॥
त्वं हि कर्ता हृषीकेशः संहर्ता चापराजितः।
तेन पश्यामि ते दिव्यान् भावान् हि त्रिषु वर्त्मसु॥११९॥
तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम्।
दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा।
विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः॥१२०॥
दिशो भुजा रविश्चक्षुर्वीर्ये शुक्रः प्रतिष्ठितः।
सप्तमार्गा निरुद्धास्ते वायोरमिततेजसः॥१२१॥
व्यक्ताव्यक्तस्वरूपेण व्याप्तं सर्वं त्वया विभो।
अव्यक्तं ब्राह्मणं रूपं व्यक्तमेतच्चराचरम्॥१२२॥
अतसीपुष्पसङ्काशं पीतवाससमच्युतम्।
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम्॥१२३॥
एकोऽपि कृष्णस्य कृतः प्रणामो
दशाश्वमेधावभृथेन तुल्यः।
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय॥१२४॥
कृष्णव्रताः कृष्णमनुस्मरन्तो।
रात्रौ च कृष्णं पुनरुत्थिता ये॥१२५॥

ते कृष्णदेहाः प्रविशन्ति कृष्णम्
आज्यं यथा मन्त्रहुतं हुताशे

नमो नरकसन्त्रासरक्षामण्डलकारिणे।
संसारनिम्नगावर्ततरिकाष्ठाय विष्णवे॥१२६॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः॥१२७॥
प्राणकान्तारपाथेयं संसारोच्छेदभेषजम्।
दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम्॥१२८॥
नारायणपरं ब्रह्म नारायणपरं तपः।
नारायणपरं सत्यं नारायणपरं परम्॥१२९॥
यथा विष्णुमयं सत्यं यथा विष्णुमयं हविः।
तथा विष्णुमयं सर्वं पाप्मा मे नश्यतां तथा॥१३०॥
तस्य यज्ञवराहस्य विष्णोरमिततेजसः।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः॥१३१॥
त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे।
यच्छ्रेयः पुण्डरीकाक्ष तद्ध्यायस्व सुरोत्तम॥१३२॥
इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः।
वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः॥१३३॥

वैशम्पायन उवाच

एतावदुक्त्वा वचनं भीष्मस्तद्रतमानसः।
नम इत्येव कृष्णाय प्रणाममकरोत् तदा॥१३४॥
तस्मिन्नुपरते वाक्ये ततस्ते ब्रह्मवादिनः।
भीष्मं वाग्भिर्बाष्पगलास्तमानर्चुर्महाद्युतिम्॥१३५॥
तेऽस्तुवन्तश्च विप्रेन्द्राः केशवं पुरुषोत्तमम्।
भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः॥१३६॥
अधिगम्य तु योगेन भक्तिं भीष्मस्य माधवः।
त्रैलोक्यदर्शनं ज्ञानं दिव्यं दत्त्वा ययौ हरिः॥१३७॥
विदित्वा भक्तियोगं तं भीष्मस्य पुरुषोत्तमः।
सहसोत्थाय तं हृष्टो यानमेवान्वपद्यत॥१३८॥
केशवः सात्यकिश्चैव रथेनकेन जग्मतुः।
अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ॥१३९॥
भीमसेनो यमौ चोभौ रथमेकं समास्थिताः।
कृपो युयुत्सुः सूतश्च सञ्जयश्चापरं रथम्॥१४०॥
ते रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः।
नेमिघोषेण महता कम्पयन्ते वसुन्धराम्॥१४१॥
ततो गिरः पुरुषवरस्तवेरितान्
द्विजेरिताः पथिषु मनाक् स शुश्रुवे।
कृताञ्जलिं प्रणतमथापरं जनं
स केशिहा मुदितमनास्थनन्दत॥१४२॥
इति स्मरन् पठति च शार्ङ्गधन्वनः
शृणोतु वा यदुकुलनन्दनस्तवम्।
स चक्रभृत् प्रतिहतसर्वकिल्बिषो
जनार्दनं प्रविशति देहसङ्क्षये॥१४३॥
यं योगिनः प्राणवियोगकाले
यत्नेन चित्ते विनिवेशयन्ति।
स तं पुरस्ताद्धरिमीक्षमाणः
प्राणाञ्जहौ प्राप्तफलो हि भीष्मः॥१४४॥
स्तवराजः समाप्तोऽयं विष्णोरद्भुतकर्मणः।
गाङ्गेयेन पुरा गीतो महापातकनाशनः॥१४५॥
इमं नरः स्तवराजं मुमुक्षुः
पठञ्शुचिः कलुषितकल्मषापहम्।
अतीत्य लोकान् मलिनः समागतान्
पदं स गच्छत्यमृतं महात्मनः॥१४६॥

॥इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट्चत्वारिंशोऽध्यायः॥

❀ ❀ ❀