ललितात्रिशतीनामावलिः
ककाररूपायै नमः
कल्याण्यै नमः
कल्याणगुणशालिन्यै नमः
कल्याणशैलनिलयायै नमः
कमनीयायै नमः
कलावत्यै नमः
कमलाक्ष्यै नमः
कल्मषघ्न्यै नमः
करुणामृतसागरायै नमः
कदम्बकाननावासायै नमः१०
कदम्बकुसुमप्रियायै नमः
कन्दर्पविद्यायै नमः
कन्दर्प-जनकापाङ्ग-वीक्षणायै नमः
कर्पूरवीटि-सौरभ्य-कल्लोलित-ककुप्तटायै नमः
कलिदोषहरायै नमः
कञ्जलोचनायै नमः
कम्रविग्रहायै नमः
कर्मादिसाक्षिण्यै नमः
कारयित्र्यै नमः
कर्मफलप्रदायै नमः२०
एकाररूपायै नमः
एकाक्षर्यै नमः
एकानेकाक्षराकृत्यै नमः
एतत्तदित्यनिर्देश्यायै नमः
एकानन्द-चिदाकृत्यै नमः
एवमित्यागमाबोध्यायै नमः
एकभक्ति-मदर्चितायै नमः
एकाग्रचित्त-निर्ध्यातायै नमः
एषणा-रहितादृतायै नमः
एलासुगन्धिचिकुरायै नमः३०
एनःकूटविनाशिन्यै नमः
एकभोगायै नमः
एकरसायै नमः
एकैश्वर्य-प्रदायिन्यै नमः
एकातपत्र-साम्राज्य-प्रदायै नमः
एकान्तपूजितायै नमः
एधमानप्रभायै नमः
एजदनेकजगदीश्वर्यै नमः
एकवीरादि-संसेव्यायै नमः
एकप्राभव-शालिन्यै नमः४०
ईकाररूपायै नमः
ईशित्र्यै नमः
ईप्सितार्थ-प्रदायिन्यै नमः
ईदृगित्य-विनिर्देश्यायै नमः
ईश्वरत्व-विधायिन्यै नमः
ईशानादि-ब्रह्ममय्यै नमः
ईशित्वाद्यष्टसिद्धिदायै नमः
ईक्षित्र्यै नमः
ईक्षण-सृष्टाण्ड-कोट्यै नमः
ईश्वर-वल्लभायै नमः५०
ईडितायै नमः
ईश्वरार्धाङ्ग-शरीरायै नमः
ईशाधि-देवतायै नमः
ईश्वर-प्रेरणकर्यै नमः
ईशताण्डव-साक्षिण्यै नमः
ईश्वरोत्सङ्ग-निलयायै नमः
ईतिबाधा-विनाशिन्यै नमः
ईहाविरहितायै नमः
ईशशक्त्यै नमः
ईषत्-स्मिताननायै नमः६०
लकाररूपायै नमः
ललितायै नमः
लक्ष्मी-वाणी-निषेवितायै नमः
लाकिन्यै नमः
ललनारूपायै नमः
लसद्दाडिम-पाटलायै नमः
ललन्तिकालसत्फालायै नमः
ललाट-नयनार्चितायै नमः
लक्षणोज्ज्वल-दिव्याङ्ग्यै नमः
लक्षकोट्यण्ड-नायिकायै नमः७०
लक्ष्यार्थायै नमः
लक्षणागम्यायै नमः
लब्धकामायै नमः
लतातनवे नमः
ललामराजदलिकायै नमः
लम्बिमुक्तालताञ्चितायै नमः
लम्बोदर-प्रसुवे नमः
लभ्यायै नमः
लज्जाढ्यायै नमः
लयवर्जितायै नमः८०
ह्रीङ्काररूपायै नमः
ह्रीङ्कारनिलयायै नमः
ह्रीम्पदप्रियायै नमः
ह्रीङ्कारबीजायै नमः
ह्रीङ्कारमन्त्रायै नमः
ह्रीङ्कारलक्षणायै नमः
ह्रीङ्कारजपसुप्रीतायै नमः
ह्रीम्मत्यै नमः
ह्रींविभूषणायै नमः
ह्रींशीलायै नमः९०
ह्रीम्पदाराध्यायै नमः
ह्रीङ्गर्भायै नमः
ह्रीम्पदाभिधायै नमः
ह्रीङ्कारवाच्यायै नमः
ह्रीङ्कारपूज्यायै नमः
ह्रीङ्कारपीठिकायै नमः
ह्रीङ्कारवेद्यायै नमः
ह्रीङ्कारचिन्त्यायै नमः
ह्रीं नमः
ह्रीं-शरीरिण्यै नमः१००
हकाररूपायै नमः
हलधृक्पूजितायै नमः
हरिणेक्षणायै नमः
हरप्रियायै नमः
हराराध्यायै नमः
हरिब्रह्मेन्द्रवन्दितायै नमः
हयारूढा-सेविताङ्घ्र्यै नमः
हयमेध-समर्चितायै नमः
हर्यक्षवाहनायै नमः
हंसवाहनायै नमः११०
हतदानवायै नमः
हत्यादिपापशमन्यै नमः
हरिदश्वादि-सेवितायै नमः
हस्तिकुम्भोत्तुङ्गकुचायै नमः
हस्तिकृत्ति-प्रियाङ्गनायै नमः
हरिद्राकुङ्कुमादिग्धायै नमः
हर्यश्वाद्यमरार्चितायै नमः
हरिकेशसख्यै नमः
हादिविद्यायै नमः
हालामदालसायै नमः१२०
सकाररूपायै नमः
सर्वज्ञायै नमः
सर्वेश्यै नमः
सर्वमङ्गलायै नमः
सर्वकर्त्र्यै नमः
सर्वभर्त्र्यै नमः
सर्वहन्त्र्यै नमः
सनातनायै नमः
सर्वानवद्यायै नमः
सर्वाङ्गसुन्दर्यै नमः१३०
सर्वसाक्षिण्यै नमः
सर्वात्मिकायै नमः
सर्वसौख्यदात्र्यै नमः
सर्वविमोहिन्यै नमः
सर्वाधारायै नमः
सर्वगतायै नमः
सर्वावगुणवर्जितायै नमः
सर्वारुणायै नमः
सर्वमात्रे नमः
सर्वभूषण-भूषितायै नमः१४०
ककारार्थायै नमः
कालहन्त्र्यै नमः
कामेश्यै नमः
कामितार्थदायै नमः
कामसञ्जीवन्यै नमः
कल्यायै नमः
कठिनस्तन-मण्डलायै नमः
करभोरवे नमः
कलानाथ-मुख्यै नमः
कचजिताम्बुदायै नमः१५०
कटाक्षस्यन्दि-करुणायै नमः
कपालि-प्राणनायिकायै नमः
कारुण्य-विग्रहायै नमः
कान्तायै नमः
कान्तिधूत-जपावल्यै नमः
कलालापायै नमः
कम्बुकण्ठ्यै नमः
करनिर्जित-पल्लवायै नमः
कल्पवल्ली-समभुजायै नमः
कस्तूरी-तिलकाञ्चितायै नमः१६०
हकारार्थायै नमः
हंसगत्यै नमः
हाटकाभरणोज्ज्वलायै नमः
हारहारि-कुचाभोगायै नमः
हाकिन्यै नमः
हल्यवर्जितायै नमः
हरित्पति-समाराध्यायै नमः
हठात्कार-हतासुरायै नमः
हर्षप्रदायै नमः
हविर्भोक्त्र्यै नमः१७०
हार्दसन्तमसापहायै नमः
हल्लीसलास्य-सन्तुष्टायै नमः
हंसमन्त्रार्थ-रूपिण्यै नमः
हानोपादान-निर्मुक्तायै नमः
हर्षिण्यै नमः
हरिसोदर्यै नमः
हाहाहूहू-मुख-स्तुत्यायै नमः
हानि-वृद्धि-विवर्जितायै नमः
हय्यङ्गवीन-हृदयायै नमः
हरिगोपारुणांशुकायै नमः१८०
लकाराख्यायै नमः
लतापूज्यायै नमः
लयस्थित्युद्भवेश्वर्यै नमः
लास्य-दर्शन-सन्तुष्टायै नमः
लाभालाभ-विवर्जितायै नमः
लङ्घ्येतराज्ञायै नमः
लावण्य-शालिन्यै नमः
लघु-सिद्धिदायै नमः
लाक्षारस-सवर्णाभायै नमः
लक्ष्मणाग्रज-पूजितायै नमः१९०
लभ्येतरायै नमः
लब्धभक्ति-सुलभायै नमः
लाङ्गलायुधायै नमः
लग्न-चामर-हस्त-श्री-शारदा-परिवीजितायै नमः
लज्जापद-समाराध्यायै नमः
लम्पटायै नमः
लकुलेश्वर्यै नमः
लब्धमानायै नमः
लब्धरसायै नमः
लब्धसम्पत्समुन्नत्यै नमः२००
ह्रीङ्कारिण्यै नमः
ह्रीङ्काराद्यायै नमः
ह्रीम्मध्यायै नमः
ह्रींशिखामण्यै नमः
ह्रीङ्कार-कुण्डाग्नि-शिखायै नमः
ह्रीङ्कार-शशिचन्द्रिकायै नमः
ह्रीङ्कार-भास्कररुच्यै नमः
ह्रीङ्काराम्भोद-चञ्चलायै नमः
ह्रीङ्कार-कन्दाङ्कुरिकायै नमः
ह्रीङ्कारैक-परायणायै नमः२१०
ह्रीङ्कार-दीर्घिकाहंस्यै नमः
ह्रीङ्कारोद्यान-केकिन्यै नमः
ह्रीङ्कारारण्य-हरिण्यै नमः
ह्रीङ्कारावाल-वल्लर्यै नमः
ह्रीङ्कार-पञ्जरशुक्यै नमः
ह्रीङ्काराङ्गण-दीपिकायै नमः
ह्रीङ्कार-कन्दरा-सिंह्यै नमः
ह्रीङ्काराम्भोज-भृङ्गिकायै नमः
ह्रीङ्कार-सुमनो-माध्व्यै नमः
ह्रीङ्कार-तरुमञ्जर्यै नमः२२०
सकाराख्यायै नमः
समरसायै नमः
सकलागम-संस्तुतायै नमः
सर्ववेदान्त-तात्पर्यभूम्यै नमः
सदसदाश्रयायै नमः
सकलायै नमः
सच्चिदानन्दायै नमः
साध्यायै नमः
सद्गतिदायिन्यै नमः
सनकादिमुनिध्येयायै नमः२३०
सदाशिव-कुटुम्बिन्यै नमः
सकलाधिष्ठान-रूपायै नमः
सत्यरूपायै नमः
समाकृत्यै नमः
सर्वप्रपञ्च-निर्मात्र्यै नमः
समानाधिक-वर्जितायै नमः
सर्वोत्तुङ्गायै नमः
सङ्गहीनायै नमः
सगुणायै नमः
सकलेष्टदायै नमः२४०
ककारिण्यै नमः
काव्यलोलायै नमः
कामेश्वरमनोहरायै नमः
कामेश्वर-प्राणनाड्यै नमः
कामेशोत्सङ्गवासिन्यै नमः
कामेश्वरालिङ्गिताङ्ग्यै नमः
कामेश्वर-सुखप्रदायै नमः
कामेश्वर-प्रणयिन्यै नमः
कामेश्वर-विलासिन्यै नमः
कामेश्वर-तपःसिद्ध्यै नमः२५०
कामेश्वर-मनःप्रियायै नमः
कामेश्वर-प्राणनाथायै नमः
कामेश्वर-विमोहिन्यै नमः
कामेश्वर-ब्रह्मविद्यायै नमः
कामेश्वर-गृहेश्वर्यै नमः
कामेश्वराह्लादकर्यै नमः
कामेश्वर-महेश्वर्यै नमः
कामेश्वर्यै नमः
कामकोटिनिलयायै नमः
काङ्क्षितार्थदायै नमः२६०
लकारिण्यै नमः
लब्धरूपायै नमः
लब्धधियै नमः
लब्ध-वाञ्चितायै नमः
लब्धपाप-मनोदूरायै नमः
लब्धाहङ्कार-दुर्गमायै नमः
लब्धशक्त्यै नमः
लब्धदेहायै नमः
लब्धैश्वर्यसमुन्नत्यै नमः
लब्धवृद्ध्यै नमः२७०
लब्धलीलायै नमः
लब्धयौवनशालिन्यै नमः
लब्धातिशय-सर्वाङ्ग-सौन्दर्यायै नमः
लब्धविभ्रमायै नमः
लब्धरागायै नमः
लब्धपत्यै नमः
लब्ध-नानागमस्थित्यै नमः
लब्धभोगायै नमः
लब्धसुखायै नमः
लब्धहर्षाभिपूरितायै नमः२८०
ह्रीङ्कार-मूर्त्यै नमः
ह्रीङ्कार-सौधशृङ्गकपोतिकायै नमः
ह्रीङ्कार-दुग्धाब्धि-सुधायै नमः
ह्रीङ्कार-कमलेन्दिरायै नमः
ह्रीङ्कार-मणिदीपार्च्यै नमः
ह्रीङ्कार-तरुशारिकायै नमः
ह्रीङ्कार-पेटक-मण्यै नमः
ह्रीङ्कारादर्श-बिम्बितायै नमः
ह्रीङ्कार-कोशासिलतायै नमः
ह्रीङ्कारास्थान-नर्तक्यै नमः२९०
ह्रीङ्कार-शुक्तिका-मुक्तामण्यै नमः
ह्रीङ्कार-बोधितायै नमः
ह्रीङ्कारमय-सौवर्णस्तम्भ-विद्रुम-पुत्रिकायै नमः
ह्रीङ्कार-वेदोपनिषदे नमः
ह्रीङ्काराध्वर-दक्षिणायै नमः
ह्रीङ्कार-नन्दनाराम-नवकल्पक-वल्लर्यै नमः
ह्रीङ्कार-हिमवद्गङ्गायै नमः
ह्रीङ्कारार्णव-कौस्तुभायै नमः
ह्रीङ्कार-मन्त्र-सर्वस्वायै नमः
ह्रीङ्कार-परसौख्यदायै नमः३००
॥इति श्री-ललितात्रिशतीनामावलिः सम्पूर्णा॥