विष्णुसहस्रनामावलिः

विश्वस्मै नमः
विष्णवे नमः
वषट्काराय नमः
भूतभव्यभवत्प्रभवे नमः
भूतकृते नमः
भूतभृते नमः
भावाय नमः
भूतात्मने नमः
भूतभावनाय नमः
पूतात्मने नमः१०
परमात्मने नमः
मुक्तानां परमायै गतये नमः
अव्ययाय नमः
पुरुषाय नमः
साक्षिणे नमः
क्षेत्रज्ञाय नमः
अक्षराय नमः
योगाय नमः
योगविदां नेत्रे नमः
प्रधानपुरुषेश्वराय नमः२०
नारसिंहवपुषे नमः
श्रीमते नमः
केशवाय नमः
पुरुषोत्तमाय नमः
सर्वस्मै नमः
शर्वाय नमः
शिवाय नमः
स्थाणवे नमः
भूतादये नमः
निधयेऽव्ययाय नमः३०
सम्भवाय नमः
भावनाय नमः
भर्त्रे नमः
प्रभवाय नमः
प्रभवे नमः
ईश्वराय नमः
स्वयम्भुवे नमः
शम्भवे नमः
आदित्याय नमः
पुष्कराक्षाय नमः४०
महास्वनाय नमः
अनादिनिधनाय नमः
धात्रे नमः
विधात्रे नमः
धातव उत्तमाय नमः
अप्रमेयाय नमः
हृषीकेशाय नमः
पद्मनाभाय नमः
अमरप्रभवे नमः
विश्वकर्मणे नमः५०
मनवे नमः
त्वष्ट्रे नमः
स्थविष्ठाय नमः
स्थविराय ध्रुवाय नमः
अग्राह्याय नमः
शाश्वताय नमः
कृष्णाय नमः
लोहिताक्षाय नमः
प्रतर्दनाय नमः
प्रभूताय नमः६०
त्रिककुब्धाम्ने नमः
पवित्राय नमः
मङ्गलाय परस्मै नमः
ईशानाय नमः
प्राणदाय नमः
प्राणाय नमः
ज्येष्ठाय नमः
श्रेष्ठाय नमः
प्रजापतये नमः
हिरण्यगर्भाय नमः७०
भूगर्भाय नमः
माधवाय नमः
मधुसूदनाय नमः
ईश्वराय नमः
विक्रमिणे नमः
धन्विने नमः
मेधाविने नमः
विक्रमाय नमः
क्रमाय नमः
अनुत्तमाय नमः८०
दुराधर्षाय नमः
कृतज्ञाय नमः
कृतये नमः
आत्मवते नमः
सुरेशाय नमः
शरणाय नमः
शर्मणे नमः
विश्वरेतसे नमः
प्रजाभवाय नमः
अह्ने नमः९०
संवत्सराय नमः
व्यालाय नमः
प्रत्ययाय नमः
सर्वदर्शनाय नमः
अजाय नमः
सर्वेश्वराय नमः
सिद्धाय नमः
सिद्धये नमः
सर्वादये नमः
अच्युताय नमः१००
वृषाकपये नमः
अमेयात्मने नमः
सर्वयोगविनिस्सृताय नमः
वसवे नमः
वसुमनसे नमः
सत्याय नमः
समात्मने नमः
असम्मिताय नमः
समाय नमः
अमोघाय नमः११०
पुण्डरीकाक्षाय नमः
वृषकर्मणे नमः
वृषाकृतये नमः
रुद्राय नमः
बहुशिरसे नमः
बभ्रवे नमः
विश्वयोनये नमः
शुचिश्रवसे नमः
अमृताय नमः
शाश्वतस्स्थाणवे नमः१२०
वरारोहाय नमः
महातपसे नमः
सर्वगाय नमः
सर्वविद्भानवे नमः
विष्वक्सेनाय नमः
जनार्दनाय नमः
वेदाय नमः
वेदविदे नमः
अव्यङ्गाय नमः
वेदाङ्गाय नमः१३०
वेदविदे नमः
कवये नमः
लोकाध्यक्षाय नमः
सुराध्यक्षाय नमः
धर्माध्यक्षाय नमः
कृताकृताय नमः
चतुरात्मने नमः
चतुर्व्यूहाय नमः
चतुर्दंष्ट्राय नमः
चतुर्भुजाय नमः१४०
भ्राजिष्णवे नमः
भोजनाय नमः
भोक्त्रे नमः
सहिष्णवे नमः
जगदादिजाय नमः
अनघाय नमः
विजयाय नमः
जेत्रे नमः
विश्वयोनये नमः
पुनर्वसवे नमः१५०
उपेन्द्राय नमः
वामनाय नमः
प्रांशवे नमः
अमोघाय नमः
शुचये नमः
ऊर्जिताय नमः
अतीन्द्राय नमः
सङ्ग्रहाय नमः
सर्गाय नमः
धृतात्मने नमः१६०
नियमाय नमः
यमाय नमः
वेद्याय नमः
वैद्याय नमः
सदायोगिने नमः
वीरघ्ने नमः
माधवाय नमः
मधवे नमः
अतीन्द्रियाय नमः
महामायाय नमः१७०
महोत्साहाय नमः
महाबलाय नमः
महाबुद्धये नमः
महावीर्याय नमः
महाशक्तये नमः
महाद्युतये नमः
अनिर्देश्यवपुषे नमः
श्रीमते नमः
अमेयात्मने नमः
महाद्रिधृषे नमः१८०
महेष्वासाय नमः
महीभर्त्रे नमः
श्रीनिवासाय नमः
सतां गतये नमः
अनिरुद्धाय नमः
सुरानन्दाय नमः
गोविन्दाय नमः
गोविदां पतये नमः
मरीचये नमः
दमनाय नमः१९०
हंसाय नमः
सुपर्णाय नमः
भुजगोत्तमाय नमः
हिरण्यनाभाय नमः
सुतपसे नमः
पद्मनाभाय नमः
प्रजापतये नमः
अमृत्यवे नमः
सर्वदृशे नमः
सिंहाय नमः२००
सन्धात्रे नमः
सन्धिमते नमः
स्थिराय नमः
अजाय नमः
दुर्मर्षणाय नमः
शास्त्रे नमः
विश्रुतात्मने नमः
सुरारिघ्ने नमः
गुरवे नमः
गुरुतमाय नमः२१०
धाम्ने नमः
सत्याय नमः
सत्यपराक्रमाय नमः
निमिषाय नमः
अनिमिषाय नमः
स्रग्विणे नमः
वाचस्पतये उदारधिये नमः
अग्रण्ये नमः
ग्रामण्ये नमः
श्रीमते नमः२२०
न्यायाय नमः
नेत्रे नमः
समीरणाय नमः
सहस्रमूर्ध्ने नमः
विश्वात्मने नमः
सहस्राक्षाय नमः
सहस्रपदे नमः
आवर्तनाय नमः
निवृत्तात्मने नमः
संवृताय नमः२३०
सम्प्रमर्दनाय नमः
अहःसंवर्तकाय नमः
वह्नये नमः
अनिलाय नमः
धरणीधराय नमः
सुप्रसादाय नमः
प्रसन्नात्मने नमः
विश्वधृषे नमः
विश्वभुजे नमः
विभवे नमः२४०
सत्कर्त्रे नमः
सत्कृताय नमः
साधवे नमः
जह्नवे नमः
नारायणाय नमः
नराय नमः
असङ्ख्येयाय नमः
अप्रमेयात्मने नमः
विशिष्टाय नमः
शिष्टकृते नमः२५०
शुचये नमः
सिद्धार्थाय नमः
सिद्धसङ्कल्पाय नमः
सिद्धिदाय नमः
सिद्धिसाधनाय नमः
वृषाहिणे नमः
वृषभाय नमः
विष्णवे नमः
वृषपर्वणे नमः
वृषोदराय नमः२६०
वर्धनाय नमः
वर्धमानाय नमः
विविक्ताय नमः
श्रुतिसागराय नमः
सुभुजाय नमः
दुर्धराय नमः
वाग्मिने नमः
महेन्द्राय नमः
वसुदाय नमः
वसवे नमः२७०
नैकरूपाय नमः
बृहद्रूपाय नमः
शिपिविष्टाय नमः
प्रकाशनाय नमः
ओजस्तेजोद्युतिधराय नमः
प्रकाशात्मने नमः
प्रतापनाय नमः
ऋद्धाय नमः
स्पष्टाक्षराय नमः
मन्त्राय नमः२८०
चन्द्रांशवे नमः
भास्करद्युतये नमः
अमृतांशूद्भवाय नमः
भानवे नमः
शशबिन्दवे नमः
सुरेश्वराय नमः
औषधाय नमः
जगतस्सेतवे नमः
सत्यधर्मपराक्रमाय नमः
भूतभव्यभवन्नाथाय नमः२९०
पवनाय नमः
पावनाय नमः
अनलाय नमः
कामघ्ने नमः
कामकृते नमः
कान्ताय नमः
कामाय नमः
कामप्रदाय नमः
प्रभवे नमः
युगादिकृते नमः३००
युगावर्ताय नमः
नैकमायाय नमः
महाशनाय नमः
अदृश्याय नमः
व्यक्तरूपाय नमः
सहस्रजिते नमः
अनन्तजिते नमः
इष्टाय नमः
अविशिष्टाय नमः
शिष्टेष्टाय नमः३१०
शिखण्डिने नमः
नहुषाय नमः
वृषाय नमः
क्रोधघ्ने नमः
क्रोधकृत्कर्त्रे नमः
विश्वबाहवे नमः
महीधराय नमः
अच्युताय नमः
प्रथिताय नमः
प्राणाय नमः३२०
प्राणदाय नमः
वासवानुजाय नमः
अपान्निधये नमः
अधिष्ठानाय नमः
अप्रमत्ताय नमः
प्रतिष्ठिताय नमः
स्कन्दाय नमः
स्कन्दधराय नमः
धुर्याय नमः
वरदाय नमः३३०
वायुवाहनाय नमः
वासुदेवाय नमः
बृहद्भानवे नमः
आदिदेवाय नमः
पुरन्दराय नमः
अशोकाय नमः
तारणाय नमः
ताराय नमः
शूराय नमः
शौरये नमः३४०
जनेश्वराय नमः
अनुकूलाय नमः
शतावर्ताय नमः
पद्मिने नमः
पद्मनिभेक्षणाय नमः
पद्मनाभाय नमः
अरविन्दाक्षाय नमः
पद्मगर्भाय नमः
शरीरभृते नमः
महर्द्धये नमः३५०
ऋद्धाय नमः
वृद्धात्मने नमः
महाक्षाय नमः
गरुडध्वजाय नमः
अतुलाय नमः
शरभाय नमः
भीमाय नमः
समयज्ञाय नमः
हविर्हरये नमः
सर्वलक्षणलक्षण्याय नमः३६०
लक्ष्मीवते नमः
समितिञ्जयाय नमः
विक्षराय नमः
रोहिताय नमः
मार्गाय नमः
हेतवे नमः
दामोदराय नमः
सहाय नमः
महीधराय नमः
महाभागाय नमः३७०
वेगवते नमः
अमिताशनाय नमः
उद्भवाय नमः
क्षोभणाय नमः
देवाय नमः
श्रीगर्भाय नमः
परमेश्वराय नमः
करणाय नमः
कारणाय नमः
कर्त्रे नमः३८०
विकर्त्रे नमः
गहनाय नमः
गुहाय नमः
व्यवसायाय नमः
व्यवस्थानाय नमः
संस्थानाय नमः
स्थानदाय नमः
ध्रुवाय नमः
परर्द्धये नमः
परमस्पष्टाय नमः३९०
तुष्टाय नमः
पुष्टाय नमः
शुभेक्षणाय नमः
रामाय नमः
विरामाय नमः
विरताय नमः
मार्गाय नमः
नेयाय नमः
नयाय नमः
अनयाय नमः४००
वीराय नमः
शक्तिमतां श्रेष्ठाय नमः
धर्माय नमः
धर्मविदुत्तमाय नमः
वैकुण्ठाय नमः
पुरुषाय नमः
प्राणाय नमः
प्राणदाय नमः
प्रणवाय नमः
पृथवे नमः४१०
हिरण्यगर्भाय नमः
शत्रुघ्नाय नमः
व्याप्ताय नमः
वायवे नमः
अधोक्षजाय नमः
ऋतवे नमः
सुदर्शनाय नमः
कालाय नमः
परमेष्ठिने नमः
परिग्रहाय नमः४२०
उग्राय नमः
संवत्सराय नमः
दक्षाय नमः
विश्रामाय नमः
विश्वदक्षिणाय नमः
विस्ताराय नमः
स्थावरस्थाणवे नमः
प्रमाणाय नमः
बीजायाव्ययाय नमः
अर्थाय नमः४३०
अनर्थाय नमः
महाकोशाय नमः
महाभोगाय नमः
महाधनाय नमः
अनिर्विण्णाय नमः
स्थविष्ठाय नमः
अभुवे नमः
धर्मयूपाय नमः
महामखाय नमः
नक्षत्रनेमये नमः४४०
नक्षत्रिणे नमः
क्षमाय नमः
क्षामाय नमः
समीहनाय नमः
यज्ञाय नमः
इज्याय नमः
महेज्याय नमः
क्रतवे नमः
सत्राय नमः
सताङ्गतये नमः४५०
सर्वदर्शिने नमः
विमुक्तात्मने नमः
सर्वज्ञाय नमः
ज्ञानाय उत्तमाय नमः
सुव्रताय नमः
सुमुखाय नमः
सूक्ष्माय नमः
सुघोषाय नमः
सुखदाय नमः
सुहृदे नमः४६०
मनोहराय नमः
जितक्रोधाय नमः
वीरबाहवे नमः
विदारणाय नमः
स्वापनाय नमः
स्ववशाय नमः
व्यापिने नमः
नैकात्मने नमः
नैककर्मकृते नमः
वत्सराय नमः४७०
वत्सलाय नमः
वत्सिने नमः
रत्नगर्भाय नमः
धनेश्वराय नमः
धर्मगुपे नमः
धर्मकृते नमः
धर्मिणे नमः
सते नमः
असते नमः
क्षराय नमः४८०
अक्षराय नमः
अविज्ञात्रे नमः
सहस्रांशवे नमः
विधात्रे नमः
कृतलक्षणाय नमः
गभस्तिनेमये नमः
सत्त्वस्थाय नमः
सिंहाय नमः
भूतमहेश्वराय नमः
आदिदेवाय नमः४९०
महादेवाय नमः
देवेशाय नमः
देवभृद्गुरवे नमः
उत्तराय नमः
गोपतये नमः
गोप्त्रे नमः
ज्ञानगम्याय नमः
पुरातनाय नमः
शरीरभूतभृते नमः
भोक्त्रे नमः५००
कपीन्द्राय नमः
भूरिदक्षिणाय नमः
सोमपाय नमः
अमृतपाय नमः
सोमाय नमः
पुरुजिते नमः
पुरुसत्तमाय नमः
विनयाय नमः
जयाय नमः
सत्यसन्धाय नमः५१०
दाशार्हाय नमः
सात्त्वतां पतये नमः
जीवाय नमः
विनयितासाक्षिणे नमः
मुकुन्दाय नमः
अमितविक्रमाय नमः
अम्भोनिधये नमः
अनन्तात्मने नमः
महोदधिशयाय नमः
अन्तकाय नमः५२०
अजाय नमः
महार्हाय नमः
स्वाभाव्याय नमः
जितामित्राय नमः
प्रमोदनाय नमः
आनन्दाय नमः
नन्दनाय नमः
नन्दाय नमः
सत्यधर्मणे नमः
त्रिविक्रमाय नमः५३०
महर्षये कपिलाचार्याय नमः
कृतज्ञाय नमः
मेदिनीपतये नमः
त्रिपदाय नमः
त्रिदशाध्यक्षाय नमः
महाशृङ्गाय नमः
कृतान्तकृते नमः
महावराहाय नमः
गोविन्दाय नमः
सुषेणाय नमः५४०
कनकाङ्गदिने नमः
गुह्याय नमः
गभीराय नमः
गहनाय नमः
गुप्ताय नमः
चक्रगदाधराय नमः
वेधसे नमः
स्वाङ्गाय नमः
अजिताय नमः
कृष्णाय नमः५५०
दृढाय नमः
सङ्कर्षणायाच्युताय नमः
वरुणाय नमः
वारुणाय नमः
वृक्षाय नमः
पुष्कराक्षाय नमः
महामनसे नमः
भगवते नमः
भगघ्ने नमः
आनन्दिने नमः५६०
वनमालिने नमः
हलायुधाय नमः
आदित्याय नमः
ज्योतिरादित्याय नमः
सहिष्णवे नमः
गतिसत्तमाय नमः
सुधन्वने नमः
खण्डपरशवे नमः
दारुणाय नमः
द्रविणप्रदाय नमः५७०
दिवस्पृशे नमः
सर्वदृग्व्यासाय नमः
वाचस्पतयेऽयोनिजाय नमः
त्रिसाम्ने नमः
सामगाय नमः
साम्ने नमः
निर्वाणाय नमः
भेषजाय नमः
भिषजे नमः
सन्न्यासकृते नमः५८०
शमाय नमः
शान्ताय नमः
निष्टायै नमः
शान्त्यै नमः
परायणाय नमः
शुभाङ्गाय नमः
शान्तिदाय नमः
स्रष्ट्रे नमः
कुमुदाय नमः
कुवलेशयाय नमः५९०
गोहिताय नमः
गोपतये नमः
गोप्त्रे नमः
वृषभाक्षाय नमः
वृषप्रियाय नमः
अनिवर्तिने नमः
निवृत्तात्मने नमः
सङ्क्षेप्त्रे नमः
क्षेमकृते नमः
शिवाय नमः६००
श्रीवत्सवक्षसे नमः
श्रीवासाय नमः
श्रीपतये नमः
श्रीमतां वराय नमः
श्रीदाय नमः
श्रीशाय नमः
श्रीनिवासाय नमः
श्रीनिधये नमः
श्रीविभावनाय नमः
श्रीधराय नमः६१०
श्रीकराय नमः
श्रेयसे नमः
श्रीमते नमः
लोकत्रयाश्रयाय नमः
स्वक्षाय नमः
स्वङ्गाय नमः
शतानन्दाय नमः
नन्दये नमः
ज्योतिर्गणेश्वराय नमः
विजितात्मने नमः६२०
अविधेयात्मने नमः
सत्कीर्तये नमः
छिन्नसंशयाय नमः
उदीर्णाय नमः
सर्वतश्चक्षुषे नमः
अनीशाय नमः
शाश्वतस्स्थिराय नमः
भूशयाय नमः
भूषणाय नमः
भूतये नमः६३०
विशोकाय नमः
शोकनाशनाय नमः
अर्चिष्मते नमः
अर्चिताय नमः
कुम्भाय नमः
विशुद्धात्मने नमः
विशोधनाय नमः
अनिरुद्धाय नमः
अप्रतिरथाय नमः
प्रद्युम्नाय नमः६४०
अमितविक्रमाय नमः
कालनेमिनिघ्ने नमः
वीराय नमः
शौरये नमः
शूरजनेश्वराय नमः
त्रिलोकात्मने नमः
त्रिलोकेशाय नमः
केशवाय नमः
केशिघ्ने नमः
हरये नमः६५०
कामदेवाय नमः
कामपालाय नमः
कामिने नमः
कान्ताय नमः
कृतागमाय नमः
अनिर्देश्यवपुषे नमः
विष्णवे नमः
वीराय नमः
अनन्ताय नमः
धनञ्जयाय नमः६६०
ब्रह्मण्याय नमः
ब्रह्मकृते नमः
ब्रह्मणे नमः
ब्रह्मणे नमः
ब्रह्मविवर्धनाय नमः
ब्रह्मविदे नमः
ब्राह्मणाय नमः
ब्रह्मिणे नमः
ब्रह्मज्ञाय नमः
ब्राह्मणप्रियाय नमः६७०
महाक्रमाय नमः
महाकर्मणे नमः
महातेजसे नमः
महोरगाय नमः
महाक्रतवे नमः
महायज्वने नमः
महायज्ञाय नमः
महाहविषे नमः
स्तव्याय नमः
स्तवप्रियाय नमः६८०
स्तोत्राय नमः
स्तुतये नमः
स्तोत्रे नमः
रणप्रियाय नमः
पूर्णाय नमः
पूरयित्रे नमः
पुण्याय नमः
पुण्यकीर्तये नमः
अनामयाय नमः
मनोजवाय नमः६९०
तीर्थकराय नमः
वसुरेतसे नमः
वसुप्रदाय नमः
वसुप्रदाय नमः
वासुदेवाय नमः
वसुवे नमः
वसुमनसे नमः
हविषे नमः
सद्गतये नमः
सत्कृतये नमः७००
सत्तायै नमः
सद्भूतये नमः
सत्परायणाय नमः
शूरसेनाय नमः
यदुश्रेष्ठाय नमः
सन्निवासाय नमः
सुयामुनाय नमः
भूतावासाय नमः
वासुदेवाय नमः
सर्वासुनिलयाय नमः७१०
अनलाय नमः
दर्पघ्ने नमः
दर्पदाय नमः
दृप्ताय नमः
दुर्धराय नमः
अपराजिताय नमः
विश्वमूर्तये नमः
महामूर्तये नमः
दीप्तमूर्तये नमः
अमूर्तिमते नमः७२०
अनेकमूर्तये नमः
अव्यक्ताय नमः
शतमूर्तये नमः
शताननाय नमः
एकस्मै नमः
नैकस्मै नमः
सवाय नमः
काय नमः
कस्मै नमः
यस्मै नमः७३०
तस्मै नमः
पदायानुत्तमाय नमः
लोकबन्धवे नमः
लोकनाथाय नमः
माधवाय नमः
भक्तवत्सलाय नमः
सुवर्णवर्णाय नमः
हेमाङ्गाय नमः
वराङ्गाय नमः
चन्दनाङ्गदिने नमः७४०
वीरघ्ने नमः
विषमाय नमः
शून्याय नमः
घृताशिषे नमः
अचलाय नमः
चलाय नमः
अमानिने नमः
मानदाय नमः
मान्याय नमः
लोकस्वामिने नमः७५०
त्रिलोकधृषे नमः
सुमेधसे नमः
मेधजाय नमः
धन्याय नमः
सत्यमेधसे नमः
धराधराय नमः
तेजोवृषाय नमः
द्युतिधराय नमः
सर्वशस्त्रभृतां वराय नमः
प्रग्रहाय नमः७६०
निग्रहाय नमः
व्यग्राय नमः
नैकशृङ्गाय नमः
गदाग्रजाय नमः
चतुर्मूर्तये नमः
चतुर्बाहवे नमः
चतुर्व्यूहाय नमः
चतुर्गतये नमः
चतुरात्मने नमः
चतुर्भावाय नमः७७०
चतुर्वेदविदे नमः
एकपदे नमः
समावर्ताय नमः
अनिवृत्तात्मने नमः
दुर्जयाय नमः
दुरतिक्रमाय नमः
दुर्लभाय नमः
दुर्गमाय नमः
दुर्गाय नमः
दुरावासाय नमः७८०
दुरारिघ्ने नमः
शुभाङ्गाय नमः
लोकसारङ्गाय नमः
सुतन्तवे नमः
तन्तुवर्धनाय नमः
इन्द्रकर्मणे नमः
महाकर्मणे नमः
कृतकर्मणे नमः
कृतागमाय नमः
उद्भवाय नमः७९०
सुन्दराय नमः
सुन्दाय नमः
रत्ननाभाय नमः
सुलोचनाय नमः
अर्काय नमः
वाजसनाय नमः
शृङ्गिणे नमः
जयन्ताय नमः
सर्वविज्जयिने नमः
सुवर्णबिन्दवे नमः८००
अक्षोभ्याय नमः
सर्ववागीश्वरेश्वराय नमः
महाह्रदाय नमः
महागर्ताय नमः
महाभूताय नमः
महानिधये नमः
कुमुदाय नमः
कुन्दराय नमः
कुन्दाय नमः
पर्जन्याय नमः८१०
पावनाय नमः
अनिलाय नमः
अमृताशाय नमः
अमृतवपुषे नमः
सर्वज्ञाय नमः
सर्वतोमुखाय नमः
सुलभाय नमः
सुव्रताय नमः
सिद्धाय नमः
शत्रुजिते नमः८२०
शत्रुतापनाय नमः
न्यग्रोधाय नमः
उदुम्बराय नमः
अश्वत्थाय नमः
चाणूरान्ध्रनिषूदनाय नमः
सहस्रार्चिषे नमः
सप्तजिह्वाय नमः
सप्तैधसे नमः
सप्तवाहनाय नमः
अमूर्तये नमः८३०
अनघाय नमः
अचिन्त्याय नमः
भयकृते नमः
भयनाशनाय नमः
अणवे नमः
बृहते नमः
कृशाय नमः
स्थूलाय नमः
गुणभृते नमः
निर्गुणाय नमः८४०
महते नमः
अधृताय नमः
स्वधृताय नमः
स्वास्याय नमः
प्राग्वंशाय नमः
वंशवर्धनाय नमः
भारभृते नमः
कथिताय नमः
योगिने नमः
योगीशाय नमः८५०
सर्वकामदाय नमः
आश्रमाय नमः
श्रमणाय नमः
क्षामाय नमः
सुपर्णाय नमः
वायुवाहनाय नमः
धनुर्धराय नमः
धनुर्वेदाय नमः
दण्डाय नमः
दमयित्रे नमः८६०
दमाय नमः
अपराजिताय नमः
सर्वसहाय नमः
नियन्त्रे नमः
अनियमाय नमः
अयमाय नमः
सत्त्ववते नमः
सात्त्विकाय नमः
सत्याय नमः
सत्यधर्मपरायणाय नमः८७०
अभिप्रायाय नमः
प्रियार्हाय नमः
अर्हाय नमः
प्रियकृते नमः
प्रीतिवर्धनाय नमः
विहायसगतये नमः
ज्योतिषे नमः
सुरुचये नमः
हुतभुजे नमः
विभवे नमः८८०
रवये नमः
विरोचनाय नमः
सूर्याय नमः
सवित्रे नमः
रविलोचनाय नमः
अनन्ताय नमः
हुतभुजे नमः
भोक्त्रे नमः
सुखदाय नमः
नैकजाय नमः८९०
अग्रजाय नमः
अनिर्विण्णाय नमः
सदामर्षिणे नमः
लोकाधिष्ठानाय नमः
अद्भुताय नमः
सनाते नमः
सनातनतमाय नमः
कपिलाय नमः
कपये नमः
अव्ययाय नमः९००
स्वस्तिदाय नमः
स्वस्तिकृते नमः
स्वस्तये नमः
स्वस्तिभुजे नमः
स्वस्तिदक्षिणाय नमः
अरौद्राय नमः
कुण्डलिने नमः
चक्रिणे नमः
विक्रमिणे नमः
ऊर्जितशासनाय नमः९१०
शब्दातिगाय नमः
शब्दसहाय नमः
शिशिराय नमः
शर्वरीकराय नमः
अक्रूराय नमः
पेशलाय नमः
दक्षाय नमः
दक्षिणाय नमः
क्षमिणां वराय नमः
विद्वत्तमाय नमः९२०
वीतभयाय नमः
पुण्यश्रवणकीर्तनाय नमः
उत्तारणाय नमः
दुष्कृतिघ्ने नमः
पुण्याय नमः
दुस्स्वप्ननाशनाय नमः
वीरघ्ने नमः
रक्षणाय नमः
सद्भ्यो नमः
जीवनाय नमः९३०
पर्यवस्थिताय नमः
अनन्तरूपाय नमः
अनन्तश्रिये नमः
जितमन्यवे नमः
भयापहाय नमः
चतुरश्राय नमः
गभीरात्मने नमः
विदिशाय नमः
व्यादिशाय नमः
दिशाय नमः९४०
अनादये नमः
भुवो भुवे नमः
लक्ष्म्यै नमः
सुवीराय नमः
रुचिराङ्गदाय नमः
जननाय नमः
जनजन्मादये नमः
भीमाय नमः
भीमपराक्रमाय नमः
आधारनिलयाय नमः९५०
अधात्रे नमः
पुष्पहासाय नमः
प्रजागराय नमः
ऊर्ध्वगाय नमः
सत्पथाचाराय नमः
प्राणदाय नमः
प्रणवाय नमः
पणाय नमः
प्रमाणाय नमः
प्राणनिलयाय नमः९६०
प्राणभृते नमः
प्राणजीवनाय नमः
तत्त्वाय नमः
तत्त्वविदे नमः
एकात्मने नमः
जन्ममृत्युजरातिगाय नमः
भूर्भुवस्स्वस्तरवे नमः
ताराय नमः
सवित्रे नमः
प्रपितामहाय नमः९७०
यज्ञाय नमः
यज्ञपतये नमः
यज्वने नमः
यज्ञाङ्गाय नमः
यज्ञवाहनाय नमः
यज्ञभृते नमः
यज्ञकृते नमः
यज्ञिने नमः
यज्ञभुजे नमः
यज्ञसाधनाय नमः९८०
यज्ञान्तकृते नमः
यज्ञगुह्याय नमः
अन्नाय नमः
अन्नादाय नमः
आत्मयोनये नमः
स्वयञ्जाताय नमः
वैखानाय नमः
सामगायनाय नमः
देवकीनन्दनाय नमः
स्रष्ट्रे नमः९९०
क्षितीशाय नमः
पापनाशनाय नमः
शङ्खभृते नमः
नन्दकिने नमः
चक्रिणे नमः
शार्ङ्गधन्वने नमः
गदाधराय नमः
रथाङ्गपाणये नमः
अक्षोभ्याय नमः
सर्वप्रहरणायुधाय नमः१०००

॥इति श्रीविष्णुसहस्रनामावलिः सम्पूर्णा॥