विष्णोरष्टोत्तरशतदिव्यस्थानीयनामावलिः
श्रीवैकुण्ठे वासुदेवाय नमः
आमोदे कर्षणाय नमः
प्रमोदे प्रद्युम्नाय नमः
सम्मोदे ऐरुद्धाय नमः
सत्यलोके विष्णवे नमः
सूर्यमण्डले पद्माक्षाय नमः
क्षीराब्धौ शेषशयनाय नमः
श्वेतद्वीपेतु तारकाय नमः
बदर्यां नारायणाय नमः
नैमिषे हरये नमः१०
हरिक्षेत्रे शालग्रामाय नमः
अयोध्यायां रघूत्तमाय नमः
मथुरायां बालकृष्णाय नमः
मायायां मधुसूदनाय नमः
काश्यां भोगशयनाय नमः
अमवन्त्यां अवनीपतये नमः
द्वारवत्यां यादवेन्द्राय नमः
व्रजे गोपीजनप्रियाय नमः
वृन्दावने नन्दसूनवे नमः
कालियह्रदे गोविन्दाय नमः२०
गोवर्धने गोपवेषाय नमः
गोमन्तपर्वते शौरये नमः
हरिद्वारे जगत्पतये नमः
प्रयागे माधवाय नमः
गयायां गदाधराय नमः
गङ्गासागरगे विष्णवे नमः
चित्रकूटे राघवाय नमः
नन्दिग्रामे राक्षसघ्नाय नमः
प्रभासे विश्वरूपाय नमः
श्रीकूर्मे कूर्ममचलाय नमः३०
नीलाद्रौ पुरुषोत्तमाय नमः
सिंहाचले महासिंहाय नमः
तुलसीवने गदिनां नमः
घृतशैले पापहराय नमः
श्वेताद्रौ सिंहरूपाय नमः
धर्मपुर्यां योगानन्दाय नमः
काकुले आन्ध्रनायकाय नमः
गारुडाद्रौ अहोबिले हिरण्यासुरमर्दनाय नमः
पाण्डुरङ्गे विट्ठलाय नमः
वेङ्कटाद्रौ रमासखाय नमः४०
यादवाद्रौ नारायणाय नमः
घटिकाचले नृसिंहाय नमः
काञ्च्यां वारणगिरौ कमललोचनवरदाय नमः
काञ्च्यां परमेशपुरे यथोक्तकारिणे नमः
काञ्च्यां पाण्डवदूताय नमः
काञ्च्यां त्रिविक्रमाय नमः
काञ्च्यां कामासिक्यां नृसिंहाय नमः
काञ्च्यां कामासिक्यां अष्टभुजाय नमः
काञ्च्यां मेघाकाराय नमः
काञ्च्यां शुभाकाराय नमः५०
काञ्च्यां शेषाकाराय नमः
काञ्च्यां शोभनाय नमः
काञ्च्यां कामकोट्यां शुभप्रदाय नमः
काञ्च्यां कालमेघाय नमः
काञ्च्यां खगारूढाय नमः
काञ्च्यां कोटिसूर्यसमप्रभाय नमः
काञ्च्यां दिव्याय नमः
काञ्च्यां दीपप्रकाशाय नमः
काञ्च्यां प्रवालवर्णाय नमः
काञ्च्यां दीपाभाय नमः६०
श्रीगृध्रसरसस्तीरे विजयराघवाय नमः
महापुण्ये वीक्षारण्ये वीरराघवाय नमः
तोताद्रौ तुङ्गशयनाय नमः
गजस्थले गजार्तिघ्नाय नमः
बलिपुरे महाबलाय नमः
भक्तिसारे जगत्पतये नमः
श्रीमुष्णे महावराहाय नमः
महीन्द्रे पद्मलोचनाय नमः
श्रीरङ्गे जगन्नाथाय नमः
श्रीधामे जानकीप्रियाय नमः७०
सारक्षेत्रे सारनाथाय नमः
खण्डने हरचापहाय नमः
श्रीनिवासस्थले पूर्णाय नमः
स्वर्णमन्दिरे सुवर्णाय नमः
व्याघ्रपुर्यां महाविष्णवे नमः
भक्तिस्थाने भक्तिदाय नमः
श्वेतह्रदे शान्तमूर्तये नमः
अग्निपुर्यां सुरप्रियाय नमः
भार्गवस्थाने भर्गाय नमः
वैकुण्ठे माधवाय नमः८०
पुरुषोत्तमे भक्तसखाय नमः
चक्रतीर्थे सुदर्शनाय नमः
कुम्भकोणे चक्रपाणये नमः
भूतस्थाने शार्ङ्गिणाय नमः
कपिस्थले गजार्तिघ्नाय नमः
चित्रकूटके गोविन्दाय नमः
उत्तमायां अनुत्तमाय नमः
श्वेताद्रौ पद्मलोचनाय नमः
पार्थस्थले परब्रह्मणे नमः
कृष्णाकोट्यां मधुद्विषे नमः९०
नन्दपुर्यां महानन्दाय नमः
वृद्धपुर्यां वृषाश्रयाय नमः
सङ्गमग्रामे असङ्गाय नमः
शरण्ये शरणाय नमः
दक्षिणद्वारकायां गोपालाय नमः
सिंहक्षेत्रे महासिंहाय नमः
मणिमण्डपे मल्लारये नमः
निबिडे निबिडाकाराय नमः
धानुष्के जगदीश्वराय नमः
मौहूरे कालमेघाय नमः१००
मधुरायां सुन्दराय नमः
वृषभाद्रौ परमस्वामिने नमः
श्रीमद्वरगुणे नाथाय नमः
कुरुकायां रमासखये नमः
गोष्ठीपुरे गोष्ठपतये नमः
दर्भसंस्तरे शयानाय नमः
धन्विमङ्गलके शौरये नमः
भ्रमरस्थले बलाढ्याय नमः
कुरङ्गे पूर्णाय नमः
वटस्थले कृष्णाय नमः११०
क्षुद्रनद्यां अच्युताय नमः
अनन्तके पद्मनाभाय नमः
॥इति श्री-विष्णोरष्टोत्तरशतदिव्यस्थानीयनामावलिः सम्पूर्णा॥