वेङ्कटेशाष्टोत्तरशतनामावलिः (वराहपुराणान्तर्गता)

वेङ्कटेशाय नमः
शेषाद्रिनिलयाय नमः
वृषदृग्गोचराया नमः
विष्णवे नमः
सदञ्जनगिरीशाय नमः
वृषाद्रिपतये नमः
मेरुपुत्रगिरीशाय नमः
सरस्स्वामितटीजुषे नमः
कुमारकल्पसेव्याय नमः
वज्रदृग्विषयाय नमः१०
सुवर्चलासुतन्यस्तसेनापत्यभराय नमः
रामाय नमः
पद्मनाभाय नमः
वायुस्तुताय नमः
त्यक्तवैकुण्ठलोकाय नमः
गिरिकुञ्जविहारिणे नमः
हरिचन्दनगोत्रेन्द्रस्वामिने नमः
शङ्खराजन्यनेत्राब्जविषयाय नमः
वसूपरिचरत्रात्रे नमः
कृष्णाय नमः२०
अब्धिकन्यापरिष्वक्तवक्षसे नमः
वेङ्कटाय नमः
सनकादिमहायोगिपूजिताय नमः
देवजित्प्रमुखानन्तदैत्यसङ्घप्रणाशिने नमः
श्वेतद्वीपवसन्मुक्तपूजिताङ्घ्रियुगाय नमः
शेषपर्वतरूपत्वप्रकाशन-
पराय नमः
सानुस्थापिततार्क्ष्याय नमः
तार्क्ष्याचलनिवासिने नमः
मायागूढविमानाय नमः
गरुडस्कन्धवासिने नमः३०
अनन्तशिरसे नमः
अनन्ताक्षाय नमः
अनन्तचरणाया नमः
श्रीशैलनिलयाय नमः
दामोदरय नमः
नीलमेघनिभाय नमः
ब्रह्मादिदेवदुर्दर्शविश्वरूपाय नमः
वैकुण्ठगतसद्धेमविमानान्तर्गताय नमः
अगस्त्याभ्यर्थिताशेषजनदृग्गोचराय नमः
वासुदेवाय नमः४०
हरये नमः
तीर्थपञ्चकवासिने नमः
वामदेवप्रियाय नमः
जनकेष्टप्रदाय नमः
मार्कण्डेयमहातीर्थजातुपुण्यप्रदाय नमः
वाक्पतिब्रह्मधात्रे नमः
चन्द्रलावण्यदायिने नमः
नारायणनगेशाय नमः
ब्रह्मकॄप्तोत्सवाय नमः
शङ्खचक्रवरानम्रलसत्करतलाय
द्रवन्मृगमदासक्तविग्रहाय नमः
केशवाय नमः
नित्ययौवनमूर्तये नमः
अर्थितार्थप्रदात्रे नमः
विश्वतीर्थाघहारिणे नमः
तीर्थस्वामिसरःस्नातजनाभीष्टप्रदायिने नमः
कुमारधारिकावासस्कन्दाभीष्टप्रदाय नमः
जानुदघ्नसमुद्भूतपोत्रिणे नमः
कूर्ममूर्तये नमः
किन्नरद्वन्द्वशापान्तप्रदात्रे नमः६०
विभवे नमः
वैखानसमुनिश्रेष्ठपूजिताय नमः
सिंहाचलनिवासाय नमः
श्रीमन्नारायणाय नमः
सद्भक्तनीलकण्ठार्च्यनृसिंहाय नमः
कुमुदाक्षगणश्रेष्ठसेनापत्यप्रदाय नमः
दुर्मेधः प्राणहर्त्रे नमः
श्रीधराय नमः
क्षत्रियान्तकरामाय नमः
मत्स्यरूपाय नमः७०
पाण्डवारिप्रहर्त्रे नमः
श्रीकराय नमः
उपत्यकाप्रदेशस्थशङ्करध्यानमूर्तये नमः
रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने नमः
लसल्लक्ष्मीकराम्भोजदत्तकल्हारकस्रजे नमः
शालग्रामनिवासाय नमः
शुकदृग्गोचराय नमः
नारायणार्थिताशेषजनदृग्विषयाय नमः
मृगयारसिकाय नमः
ऋषभासुरहारिणे नमः८०
अञ्जनागोत्रपतये नमः
वृषभाचलवासिने नमः
अञ्जनासुतदात्रे नमः
माधवीयाघहारिणे नमः
प्रियाङ्गुप्रियभ्क्षाय नमः
श्वेतकोलवराय नमः
नीलधेनुपयोधारासेकदेहोद्भवाय नमः
शङ्करप्रियमित्राय नमः
चोलपुत्रप्रियाय नमः
सुधर्मिणे नमः९०
सुचैतन्यप्रदात्रे नमः
मधुघातिने नमः
कृष्णाख्यविप्रवेदान्तदेशिकत्वप्रदाय नमः
वराहाचलनाथाय नमः
बलभद्राय नमः
त्रिविक्रमाय नमः
महते नमः
हृषीकेशाय नमः
अच्युताय नमः
नीलाद्रिनिलयाय नमः१००
क्षीराब्धिनाथाय नमः
वैकुण्ठाचलवासिने नमः
मुकुन्दाय नमः
अनन्ताय नमः
विरिञ्चाभ्यर्तितानीतसौम्यरूपाय नमः
सुवर्णमुखरीस्नातमनुजाभीष्टदायिने नमः
हलायुधजगत्तीर्थसमस्तफलदायिने नमः
गोविन्दाय नमः
श्रीनिवासाय नमः

॥इति श्री-वराहपुराणे श्री-वेङ्कटेशाष्टोत्तरशतनामावलिः सम्पूर्णा॥