वेङ्कटेशाष्टोत्तरशतनामावलिः
ओङ्कारपरमार्थाय नमः
नरनारायणात्मकाय नमः
मोक्षलक्ष्मीप्राणकान्ताय नमः
वेङ्कटाचलनायकाय नमः
करुणापूर्णहृदयाय नमः
टेङ्कारजपसुप्रीताय नमः
शास्त्रप्रमाणगम्याय नमः
यमाद्यष्टाङ्गगोचराय नमः
भक्तलोकैकवरदाय नमः
वरेण्याय नमः१०
भयनाशनाय नमः
यजमानस्वरूपाय नमः
हस्तन्यस्तसुदर्शनाय नमः
रमावतारमङ्गेशाय नमः
णाकारजपसुप्रीताय नमः
यज्ञेशाय नमः
गतिदात्रे नमः
जगतीवल्लभाय नमः
वराय नमः
रक्षःसन्दोहसंहर्त्रे नमः२०
वर्चस्विने नमः
रघुपुङ्गवाय नमः
दानधर्मपराय नमः
याजिने नमः
घनश्यामलविग्रहाय नमः
हरादिसर्वदेवेड्याय नमः
रामाय नमः
यदुकुलाग्रण्ये नमः
श्रीनिवासाय नमः
महात्मने नमः३०
तेजस्विने नमः
तत्त्वसन्निधये नमः
त्वमर्थलक्ष्यरूपाय नमः
रूपवते नमः
पावनाय नमः
यशसे नमः
सर्वेशाय नमः
कमलाकान्ताय नमः
लक्ष्मीसल्लापसम्मुखाय नमः
चतुर्मुखप्रतिष्ठात्रे नमः४०
राजराजवरप्रदाय नमः
चतुर्वेदशिरोरत्नाय नमः
रमणाय नमः
नित्यवैभवाय नमः
दासवर्गपरित्रात्रे नमः
नारदादिमुनिस्तुताय नमः
यादवाचलवासिने नमः
खिद्यद्भक्तार्तिभञ्जनाय नमः
लक्ष्मीप्रसादकाय नमः
विष्णवे नमः५०
देवेशाय नमः
रम्यविग्रहाय नमः
माधवाय नमः
लोकनाथाय नमः
लालिताखिलसेवकाय नमः
यक्षगन्धर्ववरदाय नमः
कुमाराय नमः
मातृकार्चिताय नमः
रटद्बालकपोषिणे नमः
शेषशैलकृतस्थलाय नमः६०
षाड्गुण्यपरिपूर्णाय नमः
द्वैतदोषनिवारणाय नमः
तिर्यग्जन्त्वर्चिताङ्घ्रये नमः
नेत्रानन्दकरोत्सवाय नमः
द्वादशोत्तमलीलाय नमः
दरिद्रजनरक्षकाय नमः
शत्रुकृत्यादिभीतिघ्नाय नमः
भुजङ्गशयनप्रियाय नमः
जाग्रद्रहस्यावासाय नमः
यस्मै नमः७०
शिष्टपरिपालकाय नमः
वरेण्याय नमः
पूर्णबोधाय नमः
जन्मसंसारभेषजाय नमः
कार्त्तिकेयवपुर्धारिणे नमः
यतिशेखरभाविताय नमः
नरकादिभयध्वंसिने नमः
रथोत्सवकलाधराय नमः
लोकार्चामुख्यमूर्तये नमः
केशवाद्यवतारवते नमः८०
शास्त्रश्रुतानन्तलीलाय नमः
यमशिक्षानिबर्हणाय नमः
मानसंरक्षणपराय नमः
इरिणाङ्कुरधान्यदाय नमः
नेत्रहीनाक्षिदायिने नमः
मतिहीनमतिप्रदाय नमः
हिरण्यदानग्राहिणे नमः
मोहजालनिकृन्तनाय नमः
दधिलाजाक्षतार्च्याय नमः
यातुधानविनाशनाय नमः९०
यजुर्वेदशिखागम्याय नमः
वेङ्कटाय नमः
दक्षिणास्थिताय नमः
सारपुष्करिणीतीराय नमः
रात्रौ देवगणार्चिताय नमः
यत्नवत्फलसन्धात्रे नमः
श्रीञ्जपाद्धनवृद्धिकृते नमः
क्लीङ्कारजपकाम्यार्थ-प्रदानसदयान्तराय नमः
सौं सर्वसिद्धिसन्धात्रे नमः
नमस्कर्तुरभीष्टदाय नमः१००
मोहितखिललोकाय नमः
नानारूपव्यवस्थिताय नमः
राजीवलोचनाय नमः
यज्ञवराहाय नमः
णगवेङ्कटाय नमः
तेजोराशीक्षणाय नमः
स्वामिने नमः
हार्दाविद्यानिवारणाय नमः१०८
श्रीवेङ्कटेश्वराय नमः
नामावल्याः प्रत्येकनाम्नः प्रथमाक्षर-संयोजनेन---ओं नमो वेङ्कटेशाय
भवभयहरणाय
गजवरवरदायाघहराय
श्रीमते तत्वरूपाय
सकलचराचरनिदानायाखिलविदे
रमालोलाय
कुमारशेषाद्वैतिने
द्वादशभुजाय
शिवपूजकाय
नरलोकेशाय
मायिने
महिमोदयाय
वेदसाराय
श्रीं क्लीं सौं
नमो नारायण ते स्वाहा---इति मन्त्रम् उपलभ्यते।
॥इति श्री-वेङ्कटेशाष्टोत्तरशतनामावलिः सम्पूर्णा॥