वल्ल्यष्टोत्तरशतनामावलिः
महावल्ल्यै नमः
वन्द्यायै नमः
वनवासायै नमः
वरलक्ष्म्यै नमः
वरप्रदायै नमः
वाणीस्तुतायै नमः
वीतमोहायै नमः
वामदेवसुतप्रियायै नमः
वैकुण्ठतनयायै नमः
वर्यायै नमः१०
वनेचरसमादृतायै नमः
दयापूर्णायै नमः
दिव्यरूपायै नमः
दारिद्र्यभयनाशिन्यै नमः
देवस्तुतायै नमः
दैत्यहन्त्र्यै नमः
दोषहीनायै नमः
दयाम्बुधये नमः
दुःखहन्त्र्यै नमः
दुष्टदूरायै नमः२०
दुरितघ्न्यै नमः
दुरासदायै नमः
नाशहीनायै नमः
नागनुतायै नमः
नारदस्तुतवैभवायै नमः
लवलीकुञ्जसम्भूतायै नमः
ललितायै नमः
ललनोत्तमायै नमः
शान्तदोषायै नमः
शर्मदात्र्यै नमः३०
शरजन्मकुटुम्बिन्यै नमः
पद्मिन्यै नमः
पद्मवदनायै नमः
पद्मनाभसुतायै नमः
परायै नमः
पूर्णरूपायै नमः
पुण्यशीलायै नमः
प्रियङ्गुवनपालिन्यै नमः
सुन्दर्यै नमः
सुरसंस्तुतायै नमः४०
सुब्रह्मण्यकुटुम्बिन्यै नमः
मान्यायै नमः
मनोहरायै नमः
मायायै नमः
महेश्वरसुतप्रियायै नमः
कुमार्यै नमः
करुणापूर्णायै नमः
कार्त्तिकेयमनोहरायै नमः
पद्मनेत्रायै नमः
परानन्दायै नमः५०
पार्वतीसुतवल्लभायै नमः
महादेव्यै नमः
महामायायै नमः
मल्लिकाकुसुमप्रियायै नमः
चन्द्रवक्त्रायै नमः
चारुरूपायै नमः
चाम्पेयकुसुमप्रियायै नमः
गिरिवासायै नमः
गुणनिधये नमः
गतावन्यायै नमः६०
गुहप्रियायै नमः
कलिहीनायै नमः
कलारूपायै नमः
कृत्तिकासुतकामिन्यै नमः
गतदोषायै नमः
गीतगुणायै नमः
गङ्गाधरसुतप्रियायै नमः
भद्ररूपायै नमः
भगवत्यै नमः
भाग्यदायै नमः७०
भवहारिण्यै नमः
भवहीनायै नमः
भव्यदेहायै नमः
भवात्मजमनोहरायै नमः
सौम्यायै नमः
सर्वेश्वर्यै नमः
सत्यायै नमः
साध्व्यै नमः
सिद्धसमर्चितायै नमः
हानिहीनायै नमः८०
हरिसुतायै नमः
हरसूनुमनःप्रियायै नमः
कल्याण्यै नमः
कमलायै नमः
कल्यायै नमः
कुमारसुमनोहरायै नमः
जन्महीनायै नमः
जन्महन्त्र्यै नमः
जनार्दनसुतायै नमः
जयायै नमः९०
रमायै नमः
रामायै नमः
रम्यरूपायै नमः
राज्ञ्यै नमः
राजवरादृतायै नमः
नीतिज्ञायै नमः
निर्मलायै नमः
नित्यायै नमः
नीलकण्ठसुतप्रियायै नमः
शिवरूपायै नमः१००
सुधाकारायै नमः
शिखिवाहनवल्लभायै नमः
व्याधात्मजायै नमः
व्याधिहन्त्र्यै नमः
विविधागमसंस्तुतायै नमः
हर्षदात्र्यै नमः
हरिभवायै नमः
हरसूनुप्रियङ्गनायै नमः
॥इति श्री-वल्ल्यष्टोत्तरशतनामावलिः सम्पूर्णा॥