तुलस्यष्टोत्तरशतनामावलिः

तुलस्यै नमः
पावन्यै नमः
पूज्यायै नमः
वृन्दावननिवासिन्यै नमः
ज्ञानदात्र्यै नमः
ज्ञानमय्यै नमः
निर्मलायै नमः
सर्वपूजितायै नमः
सत्यै नमः
पतिव्रतायै नमः१०‌
वृन्दायै नमः
क्षीराब्धिमथनोद्भवायै नमः
कृष्णवर्णायै नमः
रोगहन्त्र्यै नमः
त्रिवर्णायै नमः
सर्वकामदायै नमः
लक्ष्मीसख्यै नमः
नित्यशुद्धायै नमः
सुदत्यै नमः
भूमिपावन्यै नमः२०‌
हरिद्रान्नैकनिरतायै नमः
हरिपादकृतालयायै नमः
पवित्ररूपिण्यै नमः
धन्यायै नमः
सुगन्धिन्यै नमः
अमृतोद्भवायै नमः
सुरूपायै आरोग्यदायै नमः
तुष्टायै नमः
शक्तित्रितयरूपिण्यै नमः
देव्यै नमः३०‌
देवर्षिसंस्तुत्यायै नमः
कान्तायै नमः
विष्णुमनःप्रियायै नमः
भूतवेतालभीतिघ्न्यै नमः
महापातकनाशिन्यै नमः
मनोरथप्रदायै नमः
मेधायै नमः
कान्त्यै नमः
विजयदायिन्यै नमः
शङ्खचक्रगदापद्मधारिण्यै नमः४०‌
कामरूपिण्यै नमः
अपवर्गप्रदायै नमः
श्यामायै नमः
कृशमध्यायै नमः
सुकेशिन्यै नमः
वैकुण्ठवासिन्यै नमः
नन्दायै नमः
बिम्बोष्ठ्यै नमः
कोकिलस्वरायै नमः
कपिलायै नमः५०‌
निम्नगाजन्मभूम्यै नमः
आयुष्यदायिन्यै नमः
वनरूपायै नमः
दुःखनाशिन्यै नमः
अविकारायै नमः
चतुर्भुजायै नमः
गरुत्मद्वाहनायै नमः
शान्तायै नमः
दान्तायै नमः
विघ्ननिवारिण्यै नमः६०‌
श्रीविष्णुमूलिकायै नमः
पुष्ट्यै नमः
त्रिवर्गफलदायिन्यै नमः
महाशक्त्यै नमः
महामायायै नमः
लक्ष्मीवाणीसुपूजितायै नमः
सुमङ्गल्यर्चनप्रीतायै नमः
सौमङ्गल्यविवर्धिन्यै नमः
चातुर्मास्योत्सवाराध्यायै नमः
विष्णुसान्निध्यदायिन्यै नमः७०‌
उत्थानद्वादशीपूज्यायै नमः
सर्वदेवप्रपूजितायै नमः
गोपीरतिप्रदायै नमः
नित्यायै नमः
निर्गुणायै नमः
पार्वतीप्रियायै नमः
अपमृत्युहरायै नमः
राधाप्रियायै नमः
मृगविलोचनायै नमः
अम्लानायै नमः८०‌
हंसगमनायै नमः
कमलासनवन्दितायै नमः
भूलोकवासिन्यै नमः
शुद्धायै नमः
रामकृष्णादिपूजितायै नमः
सीतापूज्यायै नमः
राममनःप्रियायै नमः
नन्दनसंस्थितायै नमः
सर्वतीर्थमय्यै नमः
मुक्तायै नमः९०‌
लोकसृष्टिविधायिन्यै नमः
प्रातर्दृश्यायै नमः
ग्लानिहन्त्र्यै नमः
वैष्णव्यै नमः
सर्वसिद्धिदायै नमः
नारायण्यै नमः
सन्ततिदायै नमः
मूलमृद्धारिपावन्यै नमः
अशोकवनिकासंस्थायै नमः
सीताध्यातायै नमः१००‌
निराश्रयायै नमः
गोमतीसरयूतीररोपितायै नमः
कुटिलालकायै नमः
अपात्रभक्ष्यपापघ्न्यै नमः
दानतोयविशुद्धिदायै नमः
श्रुतिधारणसुप्रीतायै नमः
शुभायै नमः
सर्वेष्टदायिन्यै नमः१०८

॥इति श्री-तुलस्यष्टोत्तरशतनामावलिः सम्पूर्णा॥