सूर्याष्टोत्तरशतनामावलिः (महाभारतान्तर्गता)
सूर्याय नमः
अर्यमणे नमः
भगाय नमः
त्वष्ट्रे नमः
पूषणे नमः
अर्काय नमः
सवित्रे नमः
रवये नमः
गभस्तिमते नमः
अजाय नमः१०
कालाय नमः
मृत्यवे नमः
धात्रे नमः
प्रभाकराय नमः
पृथिव्यै नमः
अद्भ्यो नमः
तेजसे नमः
खाय नमः
वायवे नमः
परायणाय नमः२०
सोमाय नमः
बृहस्पतये नमः
शुक्राय नमः
बुधाय नमः
अङ्गारकाय नमः
इन्द्राय नमः
विवस्वते नमः
दीप्तांशवे नमः
शुचये नमः
शौरये नमः३०
शनैश्चराय नमः
ब्रह्मणे नमः
विष्णवे नमः
रुद्राय नमः
स्कन्दाय नमः
वरुणाय नमः
यमाय नमः
वैद्युताग्नये नमः
जाठरश्चाग्नये नमः
ऐन्धनग्नये नमः४०
तेजसां पतये नमः
धर्मध्वजाय नमः
वेदकर्त्रे नमः
वेदाङ्गाय नमः
वेदवाहनाय नमः
कृताय नमः
त्रेतायै नमः
द्वापराय नमः
सर्वमलाश्रयाय कलये नमः
कलाकाष्ठामुहूर्तेभ्यो नमः५०
क्षपायै नमः
यामाय नमः
क्षणाय नमः
संवत्सरकराय नमः
अश्वत्थाय नमः
कालचक्राय विभावसवे नमः
शाश्वताय पुरुषाय नमः
योगिने नमः
व्यक्ताव्यक्ताय नमः
सनातनाय नमः६०
कालाध्यक्षाय नमः
प्रजाध्यक्षाय नमः
विश्वकर्मणे नमः
तमोनुदाय नमः
वरुणाय नमः
सागराय नमः
अम्शवे नमः
जीमूताय नमः
जीवनाय नमः
अरिघ्ने नमः७०
भूताश्रयाय नमः
भूतपतये नमः
सर्वलोकनमस्कृताय नमः
स्रष्ट्रे नमः
संवर्तकाय नमः
वह्नये नमः
सर्वस्यादये नमः
अलोलुपाय नमः
अनन्ताय नमः
कपिलाय नमः८०
भानवे नमः
कामदाय नमः
सर्वतोमुखाय नमः
जयाय नमः
विशालाय नमः
वरदाय नमः
सर्वधातुनिषेचित्रे नमः
मनः सुपर्णाय नमः
भूतादये नमः
शीघ्रगाय नमः९०
प्राणधारकाय नमः
धन्वतरये नमः
धूमकेतवे नमः
आदिदेवाय नमः
अदितेः सुताय नमः
द्वादशात्मने नमः
अरविन्दाक्षाय नमः
पितृमातृपितामहेभ्यो नमः
स्वर्गद्वाराय नमः
प्रजाद्वाराय नमः१००
मोक्षद्वाराय नमः
त्रिविष्टपाय नमः
देहकर्त्रे नमः
प्रशान्तात्मने नमः
विश्वात्मने नमः
विश्वतोमुखाय नमः
चराचरात्मने नमः
सूक्ष्मात्मने नमः
मैत्रेयाय नमः
करुणान्विताय नमः११०
॥इति श्रीमन्महाभारते वनपर्वणि धौम्ययुधिष्ठिरसंवादे
श्री-सूर्याष्टोत्तरशतनामावलिः सम्पूर्णा॥