सुब्रह्मण्याष्टोत्तरशतनामावलिः
स्कन्दाय नमः
गुहाय नमः
षण्मुखाय नमः
फालनेत्रसुताय नमः
प्रभवे नमः
पिङ्गलाय नमः
कृत्तिकासूनवे नमः
शिखिवाहाय नमः
द्विषड्भुजाय नमः
द्विषण्णेत्राय नमः१०
शक्तिधराय नमः
पिशिताशप्रभञ्जनाय नमः
तारकासुरसंहारिणे नमः
रक्षोबलविमर्दनाय नमः
मत्ताय नमः
प्रमत्ताय नमः
उन्मत्ताय नमः
सुरसैन्यसुरक्षकाय नमः
देवसेनापतये नमः
प्राज्ञाय नमः२०
कृपालवे नमः
भक्तवत्सलाय नमः
उमासुताय नमः
शक्तिधराय नमः
कुमाराय नमः
क्रौञ्चदारणाय नमः
सेनानिने नमः
अग्निजन्मने नमः
विशाखाय नमः
शङ्करात्मजाय नमः३०
शिवस्वामिने नमः
गणस्वामिने नमः
सर्वस्वामिने नमः
सनातनाय नमः
अनन्तमूर्तये नमः
अक्षोभ्याय नमः
पार्वतीप्रियनन्दनाय नमः
गङ्गासुताय नमः
शरोद्भूताय नमः
आहूताय नमः४०
पावकात्मजाय नमः
जृम्भाय नमः
प्रजृम्भाय नमः
उज्जृम्भाय नमः
कमलासनसंस्तुताय नमः
एकवर्णाय नमः
द्विवर्णाय नमः
त्रिवर्णाय नमः
सुमनोहराय नमः
चतुर्वर्णाय नमः५०
पञ्चवर्णाय नमः
प्रजापतये नमः
अहस्पतये नमः
अग्निगर्भाय नमः
शमीगर्भाय नमः
विश्वरेतसे नमः
सुरारिघ्ने नमः
हरिद्वर्णाय नमः
शुभकराय नमः
वटवे नमः६०
पटुवेषभृते नमः
पूष्णे नमः
गभस्तये नमः
गहनाय नमः
चन्द्रवर्णाय नमः
कलाधराय नमः
मायाधराय नमः
महामायिने नमः
कैवल्याय नमः
शङ्करात्मजाय नमः७०
विश्वयोनये नमः
अमेयात्मने नमः
तेजोयोनये नमः
अनामयाय नमः
परमेष्ठिने नमः
परब्रह्मणे नमः
वेदगर्भाय नमः
विराट्सुताय नमः
पुलिन्दकन्याभर्त्रे नमः
महासारस्वतावृताय नमः८०
आश्रिताखिलदात्रे नमः
चोरघ्नाय नमः
रोगनाशनाय नमः
अनन्तमूर्तये नमः
आनन्दाय नमः
शिखण्डिने नमः
कृतकेतनाय नमः
डम्भाय नमः
परमडम्भाय नमः
महाडम्भाय नमः९०
वृषाकपये नमः
कारणोत्पत्ति-देहाय नमः
कारणातीत-विग्रहाय नमः
अनीश्वराय नमः
अमृताय नमः
प्राणाय नमः
प्राणायामपरायणाय नमः
विरुद्धहन्त्रे नमः
वीरघ्नाय नमः
रक्तश्यामगलाय नमः१००
सुब्रह्मण्याय नमः
गुहाय नमः
प्रीताय नमः
ब्रह्मण्याय नमः
ब्राह्मणप्रियाय नमः
वंशवृद्धिकराय नमः
वेदवेद्याय नमः
अक्षयफलप्रदाय नमः
॥इति श्री-सुब्रह्मण्याष्टोत्तरशतनामावलिः सम्पूर्णा॥