सुब्रह्मण्यस्य हस्तस्थितस्य अस्त्रायुध अष्टोत्तरशतनामावलिः
सुब्रह्मण्य-हस्ताम्बुजास्त्राय नमः
गुहास्त्राय नमः
ब्रह्मास्त्राय नमः
विष्ण्वास्त्राय नमः
एकादशरुद्रास्त्राय नमः
शिवास्त्राय नमः
क्षूरिकास्त्राय नमः
प्रत्यङ्करास्त्राय नमः
महापाशुपतास्त्राय नमः
महासुदर्शनास्त्राय नमः१०
वृषभास्त्राय नमः
सूर्यास्त्राय नमः
ओङ्कारप्रणवास्त्राय नमः
सर्वशत्रुनाशकास्त्राय नमः
पिनाकपाशादिवरुणास्त्राय नमः
नाराचास्त्राय नमः
सर्वशत्रुध्वंसन-हेतुभूतास्त्राय नमः
शरभास्त्राय नमः
कालानलास्त्राय नमः
बडबानलास्त्राय नमः २०
कालकालाग्न्यस्त्राय नमः
प्रचण्डमारुतवेगास्त्राय नमः
वायव्यास्त्राय नमः
शतसहस्रकोटिप्रकाशास्त्राय नमः
सहस्रज्वालास्त्राय नमः
महाशत्रुभयङ्करास्त्राय नमः
आग्नेयास्त्राय नमः
पराशक्त्यात्मकास्त्राय नमः
वज्रास्त्राय नमः
शक्त्यस्त्राय नमः३०
दण्डास्त्राय नमः
खड्गास्त्राय नमः
पाशास्त्राय नमः
ध्वजास्त्राय नमः
गदास्त्राय नमः
त्रिशूलास्त्राय नमः
पद्मास्त्राय नमः
चक्रास्त्राय नमः
अस्यास्त्राय नमः
चर्मास्त्राय नमः४०
कपालास्त्राय नमः
गुडारास्त्राय नमः
कुन्दाल्यस्त्राय नमः
परश्वास्त्राय नमः
शङ्खास्त्राय नमः
घण्टास्त्राय नमः
चापास्त्राय नमः
शरास्त्राय नमः
बाणास्त्राय नमः
पुष्पबाणास्त्राय नमः५०
अङ्कुशास्त्राय नमः
डमरुकास्त्राय नमः
सर्वशक्त्यस्त्राय नमः
मुसलास्त्राय नमः
हलास्त्राय नमः
तारकासुरसंहारास्त्राय नमः
सिंहवक्त्रसंहारास्त्राय नमः
गजमुखासुरसंहारास्त्राय नमः
अजमुखासुरसंहारास्त्राय नमः
भानुगोपासुरसंहारास्त्राय नमः ६०
उग्रगोपासुरसंहारास्त्राय नमः
महापद्मासुरध्वंसकास्त्राय नमः
कृत्तिकासुरभञ्जनास्त्राय नमः
असुरकुलान्तकास्त्राय नमः
नववीरपूजितास्त्राय नमः
वीरबाहूवन्दितास्त्राय नमः
षड्चक्रास्त्राय नमः
फट्कारास्त्राय नमः
हूम्फट् कारास्त्राय नमः
सर्वव्याधिविनाशकास्त्राय नमः७०
सर्वमृत्युप्रशमनास्त्राय नमः
सर्वरोगहरास्त्राय नमः
सर्वजनाकर्षणास्त्राय नमः
सर्वधनाकर्षणास्त्राय नमः
सर्वशापपरिपूर्णास्त्राय नमः
सर्वशब्दाकर्षणास्त्राय नमः
सर्वरसाकर्षणास्त्राय नमः
सर्वबुद्ध्याकर्षणास्त्राय नमः
सर्वकामाकर्षणास्त्राय नमः
सर्वबीजाकर्षणास्त्राय नमः८०
सर्वभोगाकर्षणास्त्राय नमः
सर्वविघ्नप्रशमनास्त्राय नमः
सर्वधैर्याकर्षणा स्त्राय नमः
सर्वसिद्धिप्रदायकास्त्राय नमः
सर्वरक्षाकरास्त्राय नमः
सर्वसम्पत्-प्रदायकास्त्राय नमः
सर्वदुःखविमोचनास्त्राय नमः
सर्वमङ्गलप्रदायकास्त्राय नमः
कलिदोषहरास्त्राय नमः
कलिपापहरास्त्राय नमः९०
करुणापूरितास्त्राय नमः
कामितार्थप्रदास्त्राय नमः
सर्वभूतोच्छाटनास्त्राय नमः
सर्ववैद्योन्मादमोचनास्त्राय नमः
परमन्त्रतन्त्रयन्त्राभिचारोच्छाडनास्त्राय नमः
सत्सन्तानप्रदास्त्राय नमः
स्कन्दास्त्राय नमः
षण्मुखास्त्राय नमः
शरवणास्त्राय नमः
कार्त्तिकेयास्त्राय नमः१००
कुमारास्त्राय नमः
शिखिवाहनास्त्राय नमः
द्विषड्भुजास्त्राय नमः
द्विषण्णेत्रास्त्राय नमः
विशाखास्त्राय नमः
बाहुलेयास्त्राय नमः
पार्वतीप्रियनन्दनास्त्राय नमः
षाण्मातुरास्त्राय नमः
॥इति श्री-सुब्रह्मण्यस्य हस्तस्तिथस्य अस्त्रायुधाष्टोत्तरशतनामावलिः सम्पूर्णा॥