सीताष्टोत्तरशतनामावलिः
सीतायै नमः
सीर-ध्वज-सुतायै नमः
सीमातीत-गुणोज्ज्वलायै नमः
सौन्दर्य-सार-सर्वस्व-भूतायै नमः
सौभाग्य-दायिन्यै नमः
देव्यै नमः
देवार्चित-पदायै नमः
दिव्यायै नमः
दशरथ-स्नुषायै नमः
रामायै नमः १०
राम-प्रियायै नमः
रम्यायै नमः
राकेन्दु-वदनोज्ज्वलायै नमः
वीर्य-शुल्कायै नमः
वीर-पत्न्यै नमः
वियन्मध्यायै नमः
वर-प्रदायै नमः
पति-व्रतायै नमः
पङ्क्ति-कण्ठ-नाशिन्यै नमः
पावन-स्मृतये नमः २०
वन्दारु-वत्सलायै नमः
वीर-मात्रे नमः
वृत-रघूत्तमायै नमः
सम्पत्-कर्यै नमः
सदा-तुष्टायै नमः
साक्षिण्यै नमः
साधु-सम्मतायै नमः
नित्यायै नमः
नियत-संस्थानायै नमः
नित्यानन्दायै नमः ३०
नुति-प्रियायै नमः
पृथ्व्यै नमः
पृथ्वी-सुतायै नमः
पुत्र-दायिन्यै नमः
प्रकृत्यै परस्यै नमः
हनूमत्-स्वामिन्यै नमः
हृद्यायै नमः
हृदय-स्थायै नमः
हताशुभायै नमः
हंस-युक्तायै नमः ४०
हंस-गतये नमः
हर्ष-युक्तायै नमः
हताशरायै नमः
सार-रूपायै नमः
सार-वचसे नमः
साध्व्यै नमः
सरमा-प्रियायै नमः
त्रिलोक-वन्द्यायै नमः
त्रिजटा-सेव्यायै नमः
त्रिपथ-गार्चिन्यै नमः ५०
त्राण-प्रदायै नमः
त्रात-काकायै नमः
तृणी-कृत-दशाननायै नमः
अनसूया-अङ्गरागाङ्कायै नमः
अनसूयायै नमः
सूरि-वन्दितायै नमः
अशोक-वनिका-स्थानायै नमः
अशोकायै नमः
शोक-विनाशिन्यै नमः
सूर्य-वंश-स्नुषायै नमः ६०
सूर्य-मण्डलान्तस्स्थ-वल्लभायै नमः
श्रुत-मात्राघ-हरणायै नमः
श्रुति-सन्निहितेक्षणायै नमः
पुष्प-प्रियायै नमः
पुष्पक-स्थायै नमः
पुण्य-लभ्यायै नमः
पुरातन्यै नमः
पुरुषार्थ-प्रदायै नमः
पूज्यायै नमः
पूत-नाम्ने नमः ७०
परन्तपायै नमः
पद्म-प्रियायै नमः
पद्म-हस्तायै नमः
पद्मायै नमः
पद्म-मुख्यै नमः
शुभायै नमः
जन-शोक-हरायै नमः
जन्म-मृत्यु-शोक-विनाशिन्यै नमः
जगद्-रूपायै नमः
जगद्-वन्द्यायै नमः ८०
जय-दायै नमः
जनकात्मजायै नमः
नाथनीय-कटाक्षायै नमः
नाथायै नमः
नाथैक-तत्परायै नमः
नक्षत्र-नाथ-वदनायै नमः
नष्ट-दोषायै नमः
नयावहायै नमः
वह्नि-पाप-हरायै नमः
वह्नि-शैत्य-कृते नमः ९०
वृद्धि-दायिन्यै नमः
वाल्मीकि-गीत-विभवायै नमः
वचोतीतायै नमः
वराङ्गनायै नमः
भक्ति-गम्यायै नमः
भव्य-गुणायै नमः
भात्र्यै नमः
भरत-वन्दितायै नमः
सुवर्णाङ्ग्यै नमः
सुखकर्यै नमः १००
सुग्रीवाङ्गद-सेवितायै नमः
वैदेह्यै नमः
विनताघौघ-नाशिन्यै नमः
विधि-वन्दितायै नमः
लोक-मात्रे नमः
लोचनान्त-स्थित-कारुण्य-सागरायै नमः
कृताकृत-जगद्धेतवे नमः
कृत-राज्याभिषेककायै नमः १०८
॥इति ब्रह्मयामले रामरहस्ये प्रोक्ता श्री-सीता-अष्टोत्तरशत-नामावलिः सम्पूर्णा॥