शिवाष्टोत्तरशतनामावलिः

शिवाय नमः
महेश्वराय नमः
शम्भवे नमः
पिनाकिने नमः
शशिशेखराय नमः
वामदेवाय नमः
विरूपाक्षाय नमः
कपर्दिने नमः
नीललोहिताय नमः
शङ्कराय नमः१०
शूलपाणये नमः
खट्वाङ्गिने नमः
विष्णुवल्लभाय नमः
शिपिविष्टाय नमः
अम्बिकानाथाय नमः
श्रीकण्ठाय नमः
भक्तवत्सलाय नमः
भवाय नमः
शर्वाय नमः
त्रिलोकीशाय नमः२०
शितिकण्ठाय नमः
शिवाप्रियाय नमः
उग्राय नमः
कपालिने नमः
कामारये नमः
अन्धकासुरसूदनाय नमः
गङ्गाधराय नमः
ललाटाक्षाय नमः
कालकालाय नमः
कृपानिधये नमः३०
भीमाय नमः
परशुहस्ताय नमः
मृगपाणये नमः
जटाधराय नमः
कैलासवासिने नमः
कवचिने नमः
कठोराय नमः
त्रिपुरान्तकाय नमः
वृषाङ्काय नमः
वृषभारूढाय नमः४०
भस्मोद्धूलितविग्रहाय नमः
सामप्रियाय नमः
स्वरमयाय नमः
त्रयीमूर्तये नमः
अनीश्वराय नमः
सर्वज्ञाय नमः
परमात्मने नमः
सोमसूर्याग्निलोचनाय नमः
हविषे नमः
यज्ञमयाय नमः५०
सोमाय नमः
पञ्चवक्त्राय नमः
सदाशिवाय नमः
विश्वेश्वराय नमः
वीरभद्राय नमः
गणनाथाय नमः
प्रजापतये नमः
हिरण्यरेतसे नमः
दुर्धर्षाय नमः
गिरीशाय नमः६०
गिरिशाय नमः
अनघाय नमः
भुजङ्गभूषणाय नमः
भर्गाय नमः
गिरिधन्वने नमः
गिरिप्रियाय नमः
कृत्तिवाससे नमः
पुरारातये नमः
भगवते नमः
प्रमथाधिपाय नमः७०
मृत्युञ्जयाय नमः
सूक्ष्मतनवे नमः
जगद्व्यापिने नमः
जगद्गुरवे नमः
व्योमकेशाय नमः
महासेनजनकाय नमः
चारुविक्रमाय नमः
रुद्राय नमः
भूतपतये नमः
स्थाणवे नमः८०
अहये बुध्न्याय नमः
दिगम्बराय नमः
अष्टमूर्तये नमः
अनेकात्मने नमः
सात्त्विकाय नमः
शुद्धविग्रहाय नमः
शाश्वताय नमः
खण्डपरशवे नमः
अजाय नमः
पाशविमोचकाय नमः९०
मृडाय नमः
पशुपतये नमः
देवाय नमः
महादेवाय नमः
अव्ययाय नमः
हरये नमः
पूषदन्तभिदे नमः
अव्यग्राय नमः
दक्षाध्वरहराय नमः
हराय नमः१००
भगनेत्रभिदे नमः
अव्यक्ताय नमः
सहस्राक्षाय नमः
सहस्रपदे नमः
अपवर्गप्रदाय नमः
अनन्ताय नमः
तारकाय नमः
परमेश्वराय नमः

॥इति शाक्तप्रमोदे श्री-शिवाष्टोत्तरशतनामावलिः सम्पूर्णा॥