शक्त्यष्टोत्तरशतदिव्यस्थानीयनामावलिः

वाराणस्यां विशालाक्ष्यै नमः
नैमिषे लिङ्गधारिण्यै नमः
प्रयागे ललितादेव्यै नमः
गन्धमादने कामाक्ष्यै नमः
मानसे कुमुदायै नमः
अम्बरे विश्वकायायै नमः
गोमन्ते गोमत्यै नमः
मन्दरे कामचारिण्यै नमः
चैत्ररथे मदोत्कटायै नमः
हस्तिनापुरे जयन्त्यै नमः१०
कान्यकुब्जे गौर्यै नमः
मलयपर्वते रम्भायै नमः
एकाम्रके कीर्तिमत्यै नमः
विश्वे विश्वेश्वर्यै नमः
पुष्करे पुरुहूतायै नमः
केदारे मार्गदायिन्यै नमः
हिमवतःपृष्ठे नन्दायै नमः
गोकर्णे भद्रकर्णिकायै नमः
स्थानेश्वरे भवान्यै नमः
बिल्वके बिल्वपत्रिकायै नमः२०
श्रीशैले माधव्यै नमः
भद्रेश्वरे भद्रायै नमः
वराहशैले जयायै नमः
कमलालये कमलायै नमः
रुद्रकोट्यां रुद्राण्यै नमः
कालञ्जरे गिरौ काल्यै नमः
महालिङ्गे कपिलायै नमः
मर्कोटे मुकुटेश्वर्यै नमः
शालग्रामे महादेव्यै नमः
शिवलिङ्गे जलप्रियायै नमः३०
मायापुर्यां कुमार्यै नमः
सन्ताने ललितायै नमः
सहस्राक्षे उत्पलाक्ष्यै नमः
कमलाक्षे महोत्पलायै नमः
गङ्गायां मङ्गलायै नमः
पुरुषोत्तमे विमलायै नमः
विपाशायां अमोघाक्ष्यै नमः
पुण्ड्रवर्धने पाटलायै नमः
सुपार्श्वे नारायण्यै नमः
विकूटे भद्रसुन्दर्यै नमः४०
विपुले विपुलायै नमः
मलयाचले कल्याण्यै नमः
कोटितीर्थे कोटव्यै नमः
माधवे वने सुगन्धायै नमः
कुब्जाम्रके त्रिसन्ध्यायै नमः
गङ्गाद्वारे रतिप्रियायै नमः
शिवकुण्डे सुनन्दायै नमः
देविकातटे नन्दिन्यै नमः
द्वारवत्यां रुक्मिण्यै नमः
वृन्दावने वने राधायै नमः५०
मथूरायां देविकायै नमः
पाताले परमेश्वर्यै नमः
चित्रकूटे सीतायै नमः
विन्ध्ये विन्ध्याधिवासिन्यै नमः
सह्याद्रौ एकवीरायै नमः
हरिश्चन्द्रे चन्द्रिकायै नमः
रामतीर्थे रमणायै नमः
यमुनायां मृगावत्यै नमः
करवीरे महालक्ष्म्यै नमः
विनायके उमादेव्यै नमः६०
वैद्यनाथे अरोगायै नमः
महाकाले महेश्वर्यै नमः
उष्णतीर्थेषु अभयायै नमः
विन्ध्यकन्दरे अमृतायै नमः
माण्डव्ये माण्डव्यै नमः
महेश्वरे पुरे स्वाहायै नमः
छागलाण्डे प्रचण्डायै नमः
मकरन्दके चण्डिकायै नमः
सोमेश्वरे वरारोहायै नमः
प्रभासे पुष्करावत्यै नमः७०
सरस्वत्यां पारावारतटे देवमात्रे नमः
महालये महाभागायै नमः
पयोष्ण्यां पिङ्गलेश्वर्यै नमः
कृतशौचे सिंहिकायै नमः
कार्त्तिकेये यशस्कर्यै नमः
उत्पलावर्तके लोलायै नमः
शोणसङ्गमे सुभद्रायै नमः
सिद्धपुरे मात्रे लक्ष्म्यै नमः
भरताश्रमे अङ्गनायै नमः
जालन्धरे विश्वमुख्यै नमः८०
किष्किन्धपर्वते तारायै नमः
देवदारुवने पुष्ट्यै नमः
काश्मीर मण्डले मेधायै नमः
हिमाद्रौ भीमादेव्यै नमः
विश्वेश्वरे पुष्ट्यै नमः
कपालमोचने शुद्ध्यै नमः
कायावरोहणे मात्रे नमः
शङ्खोद्धारे ध्वन्यै नमः
पिण्डारके धृत्यै नमः
चद्रभागायां कालायै नमः९०
अच्चोदे शिवकारिण्यै नमः
वेणायां अमृतायै नमः
बदर्याम् उर्वश्यै नमः
उत्तरकुरौ औषध्यै नमः
कृशद्वीपे कुशोदकायै नमः
हेमकूटे मन्मथायै नमः
मुकुटे सत्यवादिन्यै नमः
अश्वत्थे वन्दनीयायै नमः
वैश्रवणालये निधये नमः
वेदवदने गायत्र्यै नमः१००
शिवसन्निधौ पार्वत्यै नमः
देवलोके इन्द्राण्यै नमः
ब्रह्मास्येषु सरस्वत्यै नमः
सूर्यबिम्बे प्रभायै नमः
मातॄणां वैष्णव्यै नमः
सतीनां अरुन्धत्यै नमः
रामासु तिलोत्तमायै नमः
सर्वशरीरिणां चित्ते ब्रह्मकलानामशक्त्यै नमः

॥इति श्री-मत्स्यमहापुराणे श्री-शक्त्यष्टोत्तरशतदिव्यस्थानीयनामावलिः सम्पूर्णा॥