रामाष्टोत्तरशतनामावलिः

श्रीरामाय नमः
रामचन्द्राय नमः
रामभद्राय नमः
शाश्वताय नमः
राजीवलोचनाय नमः
श्रीमते नमः
राजेन्द्राय नमः
रघुपुङ्गवाय नमः
जानकीवल्लभाय नमः
जैत्राय नमः१०
जितामित्राय नमः
जनार्दनाय नमः
विश्वामित्रप्रियाय नमः
दान्ताय नमः
शरण्यत्राणतत्पराय नमः
वालिप्रमथनाय नमः
वाग्मिने नमः
सत्यवाचे नमः
सत्यविक्रमाय नमः
सत्यव्रताय नमः२०
व्रतधराय नमः
सदा हनुमदाश्रयाय नमः
कौसलेयाय नमः
खरध्वंसिने नमः
विराधवधपण्डिताय नमः
विभीषणपरित्रात्रे नमः
हरकोदण्डखण्डनाय नमः
सप्ततालप्रभेत्त्रे नमः
दशग्रीवशिरोहराय नमः
जामदग्न्यमहादर्पदलनाय नमः३०
ताडकान्तकृते नमः
वेदान्तपाराय नमः
वेदात्मने नमः
भवबन्धैकभेषजाय नमः
दूषणत्रिशिरोरये नमः
त्रिमूर्तये नमः
त्रिगुणाय नमः
त्रयिणे नमः
त्रिविक्रमाय नमः
त्रिलोकात्मने नमः नमः४०
पुण्यचारित्रकीर्तनाय नमः
त्रिलोकरक्षकाय नमः
धन्विने नमः
दण्डकारण्यवासकृते नमः
अहल्यापावनाय नमः
पितृभक्ताय नमः
वरप्रदाय नमः
जितेन्द्रियाय नमः
जितक्रोधाय नमः
जितलोभो नमः५०
जगद्गुरवे नमः
ऋक्षवानरसङ्घातिने नमः
चित्रकूटसमाश्रयाय नमः
जयन्तत्राणवरदाय नमः
सुमित्रापुत्रसेविताय नमः
सर्वदेवाधिदेवाय नमः
मृतवानरजीवनाय नमः
मायामारीचहन्त्रे नमः
महाभोगाय नमः
महाभुजाय नमः नमः६०
सर्वदेवस्तुताय नमः
सौम्याय नमः
ब्रह्मण्याय नमः
मुनिसत्तमाय नमः
महायोगाय नमः
महोदाराय नमः
सुग्रीवस्थिरराज्यदाय नमः
सर्वपुण्याधिकफलाय नमः
स्मृताय नमः
सर्वाघनाशनाय नमः७०
अनादये नमः
आदिपुरुषाय नमः
महापुरुषाय नमः
परमाय नमः
पुरुषाय नमः
पुण्योदयाय नमः
दयासाराय नमः
पुराणाय पुरुषोत्तमाय नमः
स्मितवक्त्राय नमः
मितभाषिणे नमः८०
पूर्वभाषिणे नमः
राघवाय नमः
अनन्तगुणगम्भीराय नमः
धीराय नमः
दान्तगुणोत्तमाय नमः
मायामानुषचारित्राय नमः
महादेवाभिपूजिताय नमः
सेतुकृते नमः
जितवारीशाय नमः
सर्वतीर्थमयाय नमः९०
हरये नमः
श्यामाङ्गाय नमः
सुन्दराय नमः
शूराय नमः
पीतवाससे नमः
धनुर्धराय नमः
सर्वयज्ञाधिपाय नमः
यज्ञाय नमः
जरामरणवर्जिताय नमः
शिवलिङ्गप्रतिष्ठात्रे नमः१००
सर्वाघगणवर्जिताय नमः
परमात्मने नमः
परस्मै ब्रह्मणे नमः
सच्चिदानन्दविग्रहाय नमः
परस्मै ज्योतिषे नमः
परस्मै धाम्ने नमः
पराकाशाय नमः
परात्पराय नमः
परेशाय नमः
पारगाय नमः
पाराय नमः
सर्वभूतात्मकाय नमः
शिवाय नमः

॥इति श्री-पद्मपुराणे उत्तरखण्डे श्री-रामाष्टोत्तरशतनामावलिः सम्पूर्णा॥