रामाष्टोत्तरशतनामावलिः

रामाय नमः
रावण-संहार-कृत-मानुष-विग्रहाय नमः
कौसल्या-सुकृत-व्रात-फलाय नमः
दशरथात्मजाय नमः
लक्ष्मणार्चित-पादाब्जाय नमः
सर्व-लोक-प्रियङ्कराय नमः
साकेत-वासि-नेत्राब्ज-सम्प्रीणन-दिवाकराय नमः
विश्वामित्र-प्रियाय नमः
शान्ताय नमः
ताटका-ध्वान्त-भास्कराय नमः १०
सुबाहु-राक्षस-रिपवे नमः
कौशिकाध्वर-पालकाय नमः
अहल्या-पाप-संहर्त्रे नमः
जनकेन्द्र-प्रियातिथये नमः
पुरारि-चाप-दलनाय नमः
वीर-लक्ष्मी-समाश्रयाय नमः
सीता-वरण-माल्याढ्याय नमः
जामदग्न्य-मदापहाय नमः
वैदेही-कृत-शृङ्गाराय नमः
पितृ-प्रीति-विवर्धनाय नमः २०
ताताज्ञोत्सृष्ट-हस्त-स्थ-राज्याय नमः
सत्य-प्रतिश्रवाय नमः
तमसा-तीर-संवासिने नमः
गुहानुग्रह-तत्पराय नमः
सुमन्त्र-सेवित-पदाय नमः
भरद्वाज-प्रियातिथये नमः
चित्रकूट-प्रिय-स्थानाय नमः
पादुका-न्यस्त-भू-भराय नमः
अनसूया-अङ्गरागाङ्क-सीता-साहित्य-शोभिताय नमः
दण्डकारण्य-सञ्चारिणे नमः ३०
विराध-स्वर्ग-दायकाय नमः
रक्षः-कालान्तकाय नमः
सर्व-मुनि-सङ्घ-मुदावहाय नमः
प्रतिज्ञात-आशर-वधाय नमः
शरभङ्ग-गति-प्रदाय नमः
अगस्त्यार्पित-बाणास-खड्ग-तूणीर-मण्डिताय नमः
प्राप्त-पञ्चवटी-वासाय नमः
गृध्रराज-सहायवते नमः
कामि-शूर्पणखा-कर्ण-नास-च्छेद-नियामकाय नमः
खरादि-राक्षस-त्रातखण्डनावितसज्जनाय नमः ४०
सीता-संश्लिष्ट-कायाभा-जित-विद्युद्-युताम्बुदाय नमः
मारीच-हन्त्रे नमः
मायाढ्याय नमः
जटायुर्-मोक्ष-दायकाय नमः
कबन्ध-बाहु-लवनाय नमः
शबरी-प्रार्थितातिथये नमः
हनुमद्-वन्दित-पदाय नमः
सुग्रीव-सुहृदेऽव्ययाय नमः
दैत्य-कङ्काल-विक्षेपिणे नमः
सप्त-साल-प्रभेदकाय नमः ५०
एकेषु-हत-वालिने नमः
तारा-संस्तुत-सद्गुणाय नमः
कपीन्द्री-कृत-सुग्रीवाय नमः
सर्व-वानर-पूजिताय नमः
वायु-सूनु-समानीत-सीता-सन्देश-नन्दिताय नमः
जैत्र-यात्रोद्यताय नमः
जिष्णवे नमः
विष्णु-रूपाय नमः
निराकृतये नमः
कम्पिताम्भोनिधये नमः ६०
सम्पत्-प्रदाय नमः
सेतु-निबन्धनाय नमः
लङ्का-विभेदन-पटवे नमः
निशाचर-विनाशकाय नमः
कुम्भकर्णाख्य-कुम्भीन्द्र-मृगराज-पराक्रमाय नमः
मेघनाद-वधोद्युक्त-लक्ष्मणास्त्र-बलप्रदाय नमः
दशग्रीवान्धतामिस्र-प्रमापण-प्रभाकराय नमः
इन्द्रादि-देवता-स्तुत्याय नमः
चन्द्राभ-मुख-मण्डलाय नमः
विभीषणार्पित-निशाचर-राज्याय नमः ७०
वृष-प्रियाय नमः
वैश्वानर-स्तुत-गुणावनिपुत्री-समागताय नमः
पुष्पक-स्थान-सुभगाय नमः
पुण्यवत्-प्राप्य-दर्शनाय नमः
राज्याभिषिक्ताय नमः
राजेन्द्राय नमः
राजीव-सदृशेक्षणाय नमः
लोक-तापापहर्त्रे नमः
धर्म-संस्थापनोद्यताय नमः
शरण्याय नमः ८०
कीर्तिमते नमः
नित्याय वदान्याय नमः
करुणार्णवाय नमः
संसार-सिन्धु-सम्मग्न-तारकाख्या-महोज्ज्वलाय नमः
मधुराय नमः
मधुरोक्तये नमः
मधुरा-नायकाग्रजाय नमः
शम्बूक-दत्त-स्वर्लोकाय नमः
शम्बराराति-सुन्दराय नमः
अश्वमेध-महायाजिने नमः ९०
वाल्मीकि-प्रीतिमते नमः
वशिने नमः
स्वयं रामायण-श्रोत्रे नमः
पुत्र-प्राप्ति-प्रमोदिताय नमः
ब्रह्मादि-स्तुत-माहात्म्याय नमः
ब्रह्मर्षि-गण-पूजिताय नमः
वर्णाश्रम-रताय नमः
वर्णाश्रम-धर्म-नियामकाय नमः
रक्षा-पराय नमः
राज-वंश-प्रतिष्ठापन-तत्पराय नमः १००
गन्धर्व-हिंसा-संहारिणे नमः
धृतिमते नमः
दीन-वत्सलाय नमः
ज्ञानोपदेष्ट्रे नमः
वेदान्त-वेद्याय नमः
भक्त-प्रियङ्कराय नमः
वैकुण्ठ-वासिने नमः
चराचर-विमुक्ति-दाय नमः १०८

॥इति ब्रह्मयामले रामरहस्ये प्रोक्ता श्री-राम-अष्टोत्तरशत-नामावलिः सम्पूर्णा॥