श्री-लक्ष्मी-नृसिंहाष्टोत्तरशतनामावलिः

श्री-नृसिंहाय नमः
पुष्कराक्षाय नमः
करालाय नमः
विकृताननाय नमः
हिरण्यकशिपोर्वक्षोविदारणनखाङ्कुशाय नमः
प्रह्लादवरदाय नमः
श्रीमते नमः
अप्रमेयपराक्रमाय नमः
सटाच्छटाच्छिन्नघटाय नमः
भक्तानामभयप्रदाय नमः१०
ज्वालामुखाय नमः
तीक्ष्णकेशाय नमः
तीक्ष्णदंष्ट्राय नमः
भयङ्कराय नमः
उत्तप्तहेमसङ्काशाय नमः
साधूनां बलवर्धनाय नमः
त्रिनेत्राय नमः
कपिलाय नमः
प्रांशवे नमः
सोमसूर्याग्निलोचनाय नमः२०
स्थूलग्रीवाय नमः
प्रसन्नात्मने नमः
जाम्बूनदपरिष्कृताय नमः
व्योमकेशप्रभृतिभिस्त्रिदशैरभिसंस्तुताय नमः
उपसंहृतसप्तार्चिषे नमः
कबलीकृतमारुताय नमः
दिग्दन्तावलदर्पघ्राय नमः
कद्रुजोल्बणनाशनाय नमः
अभिचारिक्रियाहन्त्रे नमः
ब्रह्मण्याय नमः३०
भक्तवत्सलाय नमः
समुद्रसलिलोद्भूत-हालाहल-विशीर्णकृते नमः
ओजःप्रपूरिताशेष-चराचरजगत्त्रयाय नमः
हृषीकेशाय नमः
जगत्त्राणाय नमः
सर्वगाय नमः
सर्वरक्षकाय नमः
नास्तिक्य-प्रत्यवायार्थदर्शितात्म-प्रभाववते नमः
हिरण्यकशिपोरग्रे सभास्तम्भसमुद्भवाय नमः
उग्राय नमः४०
अग्निज्वालामालिने नमः
सुतीक्ष्णाय नमः
भीमदर्शनाय नमः
मुग्धाखिलजगज्जीवाय नमः
जगतां कान्ताय नमः
सर्वभूतसमाधानाय नमः
ईश्वराय नमः
सर्वधारकाय नमः
विष्णवे नमः
जिष्णवे नमः५०
जगद्धाम्ने नमः
बहिरन्तः प्रकाशकृते नमः
योगिहृत्पद्ममध्यस्थाय नमः
योगिने नमः
योगविदुत्तमाय नमः
स्रष्ट्रे नमः
हर्त्रे नमः
अखिलत्रात्रे नमः
व्योमरूपाय नमः
जनार्दनाय नमः६०
चिन्मयाय नमः
प्रकृतये नमः
साक्षिणे नमः
गुणातीताय नमः
गुणात्मकाय नमः
पापविच्छेदकृते नमः
कर्त्रे नमः
सर्वपापविमोचकाय नमः
व्यक्ताव्यक्तस्वरूपाय नमः
सूक्ष्माय नमः७०
सदसदात्मकाय नमः
अव्ययाय नमः
शाश्वताय नमः
अनन्ताय नमः
वीरजिते नमः
परमेश्वराय नमः
मायाविने नमः
जगदाधाराय नमः
अनिमिषाय नमः
अक्षराय नमः८०
अनादिनिधनाय नमः
नित्याय नमः
परब्रह्माभिधायकाय नमः
शङ्खचक्रगदाशार्ङ्ग-विराजितचतुर्भुजाय नमः
पीताम्बरधराय नमः
स्रग्विणे नमः
कौस्तुभाभरणोज्ज्वलाय नमः
श्रियाध्यासितवक्षसे नमः
श्रीवत्सेन विराजिताय नमः
प्रसन्नवदनाय नमः९०
शान्ताय नमः

नमः

लक्ष्मीप्रियपरिग्रहाय नमः
वासुदेवाय नमः
शतपुष्पैः सुपूजिताय नमः
उद्यत्कलहहाकार-भीषिताखिलदिङ्मुखाय नमः
गर्जद्वीरासनासीनाय नमः
कठोरकुटिलेक्षणाय नमः
दैतेयवक्षोदलनसान्द्रीकृतनखायुधाय नमः
अशेषप्राणिभयदप्रचण्डोद्दण्डताण्डवाय नमः१००
निटिलस्रुतघर्माम्बुबिन्दुसञ्ज्वलिताननाय नमः
वज्रजिह्वाय नमः
महामूर्तये नमः
भीमाय नमः
भीमपराक्रमाय नमः
स्वभक्तार्पितकारुण्याय नमः
बहुदाय नमः
बहु-पराक्रमाय नमः१०८

॥इति श्री-लक्ष्मी-नृसिंहाष्टोत्तरशतनामावलिः सम्पूर्णा॥