श्री-लक्ष्मी-नृसिंहाष्टोत्तरशतनामावलिः

श्रीनृसिंहाय नमः
महासिंहाय नमः
दिव्यसिंहाय नमः
महाबलाय नमः
उग्रसिंहाय नमः
महादेवाय नमः
उपेन्द्राय नमः
अग्निलोचनाय नमः
रौद्राय नमः
शौरये नमः१०
महावीराय नमः
सुविक्रमपराक्रमाय नमः
हरिकोलाहलाय नमः
चक्रिणे नमः
विजयाय नमः
अजयाय नमः
अव्ययाय नमः
दैत्यान्तकाय नमः
परब्रह्मणे नमः
अघोराय नमः२०
घोरविक्रमाय नमः
ज्वालामुखाय नमः
ज्वालामालिने नमः
महाज्वालाय नमः
महाप्रभवे नमः
निटिलाक्षाय नमः
सहस्राक्षाय नमः
दुर्निरीक्ष्याय नमः
प्रतापनाय नमः
महादंष्ट्राय नमः३०
प्राज्ञाय नमः
हिरण्यक-निषूदनाय नमः
चण्डकोपिने नमः
सुरारिघ्नाय नमः
सदार्तिघ्नाय नमः
सदाशिवाय नमः
गुणभद्राय नमः
महाभद्राय नमः
बलभद्राय नमः
सुभद्रकाय नमः४०
करालाय नमः
विकरालाय नमः
गतायुषे नमः
सर्वकर्तृकाय नमः
भैरवाडम्बराय नमः
दिव्याय नमः
अगम्याय नमः
सर्वशत्रुजिते नमः
अमोघास्त्राय नमः
शस्त्रधराय नमः५०
सव्यजूटाय नमः
सुरेश्वराय नमः
सहस्रबाहवे नमः
वज्रनखाय नमः
सर्वसिद्धये नमः
जनार्दनाय नमः
अनन्ताय नमः
भगवते नमः
स्थूलाय नमः
अगम्याय नमः६०
परावराय नमः
सर्वमन्त्रैकरूपाय नमः
सर्वयन्त्रविदारणाय नमः
अव्ययाय नमः
परमानन्दाय नमः
कालजिते नमः
खगवाहनाय नमः
भक्तातिवत्सलाय नमः
अव्यक्ताय नमः
सुव्यक्ताय नमः७०
सुलभाय नमः
शुचये नमः
लोकैकनायकाय नमः
सर्वाय नमः
शरणागतवत्सलाय नमः
धीराय नमः
धराय नमः
सर्वज्ञाय नमः
भीमाय नमः
भीमपराक्रमाय नमः८०
देवप्रियाय नमः
नुताय नमः
पूज्याय नमः
भवहृते नमः
परमेश्वराय नमः
श्रीवत्सवक्षसे नमः
श्रीवासाय नमः
विभवे नमः
सङ्कर्षणाय नमः
प्रभवे नमः९०
त्रिविक्रमाय नमः
त्रिलोकात्मने नमः
कालाय नमः
सर्वेश्वराय नमः
विश्वम्भराय नमः
स्थिराभाय नमः
अच्युताय नमः
पुरुषोत्तमाय नमः
अधोक्षजाय नमः
अक्षयाय नमः१००
सेव्याय नमः
वनमालिने नमः
प्रकम्पनाय नमः
गुरवे नमः
लोकगुरवे नमः
स्रष्ट्रे नमः
परस्मै ज्योतिषे नमः
परायणाय नमः१०८

॥इति श्री-लक्ष्मी-नृसिंहाष्टोत्तरशतनामावलिः सम्पूर्णा॥