कुबेराष्टोत्तरशतनामावलिः
कुबेराय नमः
धनदाय नमः
श्रीमते नमः
यक्षेशाय नमः
गुह्यकेश्वराय नमः
निधीशाय नमः
शङ्करसखाय नमः
महालक्ष्मीनिवासभुवे नमः
महापद्मनिधीशाय नमः
पूर्णाय नमः१०
पद्मनिधीश्वराय नमः
शङ्खाख्यनिधिनाथाय नमः
मकराख्यनिधिप्रियाय नमः
सुकच्छपाख्यनिधीशाय नमः
मुकुन्दनिधिनायकाय नमः
कुन्दाख्यनिधिनाथाय नमः
नीलनित्याधिपाय नमः
महते नमः
वरनिधिदीपाय नमः
पूज्याय नमः२०
लक्ष्मीसाम्राज्यदायकाय नमः
इलपिलापत्याय नमः
कोशाधीशाय नमः
कुलोचिताय नमः
अश्वारूढाय नमः
विश्ववन्द्याय नमः
विशेषज्ञाय नमः
विशारदाय नमः
नलकूबरनाथाय नमः
मणिग्रीवपित्रे नमः३०
गूढमन्त्राय नमः
वैश्रवणाय नमः
चित्रलेखामनःप्रियाय नमः
एकपिनाकाय नमः
अलकाधीशाय नमः
पौलस्त्याय नमः
नरवाहनाय नमः
कैलासशैलनिलयाय नमः
राज्यदाय नमः
रावणाग्रजाय नमः४०
चित्रचैत्ररथाय नमः
उद्यानविहाराय नमः
विहारसुकुतूहलाय नमः
महोत्सहाय नमः
महाप्राज्ञाय नमः
सदापुष्पकवाहनाय नमः
सार्वभौमाय नमः
अङ्गनाथाय नमः
सोमाय नमः
सौम्यादिकेश्वराय नमः५०
पुण्यात्मने नमः
पुरुहूतश्रियै नमः
सर्वपुण्यजनेश्वराय नमः
नित्यकीर्तये नमः
निधिवेत्रे नमः
लङ्काप्राक्तननायकाय नमः
यक्षिणीवृताय नमः
यक्षाय नमः
परमशान्तात्मने नमः
यक्षराजे नमः६०
यक्षिणीहृदयाय नमः
किन्नरेश्वराय नमः
किम्पुरुषनाथाय नमः
खड्गायुधाय नमः
वशिने नमः
ईशानदक्षपार्श्वस्थाय नमः
वायुवामसमाश्रयाय नमः
धर्ममार्गनिरताय नमः
धर्मसम्मुखसंस्थिताय नमः
नित्येश्वराय नमः७०
धनाध्यक्षाय नमः
अष्टलक्ष्म्याश्रितालयाय नमः
मनुष्यधर्मिणे नमः
सुकृतिने नमः
कोषलक्ष्मीसमाश्रिताय नमः
धनलक्ष्मीनित्यवासाय नमः
धान्यलक्ष्मीनिवासभुवे नमः
अष्टलक्ष्मीसदावासाय नमः
गजलक्ष्मीस्थिरालयाय नमः
राज्यलक्ष्मीजन्मगेहाय नमः८०
धैर्यलक्ष्मीकृपाश्रयाय नमः
अखण्डैश्वर्यसंयुक्ताय नमः
नित्यानन्दाय नमः
सुखाश्रयाय नमः
नित्यतृप्ताय नमः
निराशाय नमः
निरुपद्रवाय नमः
नित्यकामाय नमः
निराकाङ्क्षाय नमः
निरूपाधिकवासभुवे नमः९०
शान्ताय नमः
सर्वगुणोपेताय नमः
सर्वज्ञाय नमः
सर्वसम्मताय नमः
शर्वाणीकरुणापात्राय नमः
सदानन्दकृपालयाय नमः
गन्धर्वकुलसंसेव्याय नमः
सौगन्धिकुसुमप्रियाय नमः
सुवर्णनगरीवासाय नमः
निधिपीठसमाश्रयाय नमः१००
महामेरूत्तरस्थाय नमः
महर्षिगणसंस्तुताय नमः
तुष्टाय नमः
शूर्पणखाज्येष्ठाय नमः
शिवपूजारताय नमः
अनघाय नमः
राजयोगसमायुक्ताय नमः
राजशेखरपूज्याय नमः
राजराजाय नमः
॥इति श्री-कुबेराष्टोत्तरशतनामावलिः सम्पूर्णा॥