कृष्णाष्टोत्तरशतनामावलिः
श्रीकृष्णाय नमः
कमलानाथाय नमः
वासुदेवाय नमः
सनातनाय नमः
वसुदेवात्मजाय नमः
पुण्याय नमः
लीलामानुषविग्रहाय नमः
श्रीवत्सकौस्तुभधराय नमः
यशोदावत्सलाय नमः
हरये नमः१०
चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधाय नमः
देवकीनन्दनाय नमः
श्रीशाय नमः
नन्दगोपप्रियात्मजाय नमः
यमुनावेगसंहारिणे नमः
बलभद्रप्रियानुजाय नमः
पूतनाजीवितहराय नमः
शकटासुरभञ्जनाय नमः
नन्दव्रजजनानन्दिने नमः
सच्चिदानन्दविग्रहाय नमः२०
नवनीतविलिप्ताङ्गाय नमः
नवनीतनटाय नमः
अनघाय नमः
नवनीतनवाहाराय नमः
मुचुकुन्दप्रसादकाय नमः
षोडशस्त्रीसहस्रेशाय नमः
त्रिभङ्गीमधुराकृतये नमः
शुकवागमृताब्धीन्दवे नमः
गोविन्दाय नमः
योगिनां पतये नमः३०
वत्सवाटचराय नमः
अनन्ताय नमः
धेनुकासुरमर्दनाय नमः
तृणीकृततृणावर्ताय नमः
यमलार्जुनभञ्जनाय नमः
उत्तालतालभेत्रे नमः
तमालश्यामलाकृतये नमः
गोपगोपीश्वराय नमः
योगिने नमः
कोटिसूर्यसमप्रभाय नमः४०
इलापतये नमः
परस्मै ज्योतिषे नमः
यादवेन्द्राय नमः
यदूद्वहाय नमः
वनमालिने नमः
पीतवाससे नमः
पारिजातापहारकाय नमः
गोवर्धनाचलोद्धर्त्रे नमः
गोपालाय नमः
सर्वपालकाय नमः५०
अजाय नमः
निरञ्जनाय नमः
कामजनकाय नमः
कञ्जलोचनाय नमः
मधुघ्ने नमः
मथुरानाथाय नमः
द्वारकानायकाय नमः
बलिने नमः
बृन्दावनान्तसञ्चारिणे नमः
तुलसीदामभूषणाय नमः६०
स्यमन्तकमणेर्हर्त्रे नमः
नरनारायणात्मकाय नमः
कुब्जाकृष्णाम्बरधराय नमः
मायिने नमः
परमपूरुषाय नमः
मुष्टिकासुरचाणूरमल्लयुद्धविशारदाय नमः
संसारवैरिणे नमः
कंसारये नमः
मुरारये नमः
नरकान्तकाय नमः७०
अनादिब्रह्मचारिणे नमः
कृष्णाव्यसनकर्षकाय नमः
शिशुपालशिरश्छेत्रे नमः
दुर्योधनकुलान्तकाय नमः
विदुराक्रूरवरदाय नमः
विश्वरूपप्रदर्शकाय नमः
सत्यवाचे नमः
सत्यसङ्कल्पाय नमः
सत्यभामारताय नमः
जयिने नमः८०
सुभद्रापूर्वजाय नमः
विष्णवे नमः
भीष्ममुक्तिप्रदायकाय नमः
जगद्गुरवे नमः
जगन्नाथाय नमः
वेणुनादविशारदाय नमः
वृषभासुरविध्वंसिने नमः
बाणासुरकरान्तकाय नमः
युधिष्ठिरप्रतिष्ठात्रे नमः
बर्हिबर्हावतंसकाय नमः९०
पार्थसारथये नमः
अव्यक्ताय नमः
गीतामृतमहोदधये नमः
कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजाय नमः
दामोदराय नमः
यज्ञभोक्त्रे नमः
दानवेन्द्रविनाशकाय नमः
नारायणाय नमः
परब्रह्मणे नमः
पन्नगाशनवाहनाय नमः१००
जलक्रीडासमासक्तगोपीवस्त्रापहारकाय नमः
पुण्यश्लोकाय नमः
तीर्थपादाय नमः
वेदवेद्याय नमः
दयानिधये नमः
सर्वतीर्थात्मकाय नमः
सर्वग्रहरूपिणे नमः
परात्पराय नमः
॥इति श्री-ब्रह्माण्डमहापुराणे वायुप्रोक्ते
श्री-कृष्णाष्टोत्तरशतनामावलिः सम्पूर्णा॥