कावेर्यष्टोत्तरशतनामावलिः
अनन्त-गुण-गम्भीरायै नमः
अर्कपुष्कर-सेवितायै नमः
अमृतस्वादु-सलिलायै नमः
अगस्त्यमुनि-नायिकायै नमः
आशान्त-कीर्ति-तिलकायै नमः
आशुगागम-वर्धिन्यै नमः
इतिहास-पुराणोक्तायै नमः
ईतिबाधा-निवारिण्यै नमः
उन्मत्तजन-दूरस्थायै नमः
ऊर्जितानन्द-दायिन्यै नमः१०
ऋषिसङ्घ-सुसंवीतायै नमः
ऋणत्रय-विमोचनायै नमः
लुप्त-धर्म-जनोद्धारायै नमः
लूनभाव-विवर्जितायै नमः
एधिताखिल-लोकश्रियै नमः
ऐहिकामुष्मिकप्रदायै नमः
ओङ्कारनाद-निनदायै नमः
ओषधीकृत-जीवनायै नमः
औदार्यगुण-निर्दिष्टायै नमः
औदासीन्य-निवारिण्यै नमः२०
अन्तःकरण-संसेव्यायै नमः
अच्छ-स्वच्छ-जलाश्रयायै नमः
कपिलाख्य-नदी-स्निग्धायै नमः
करुणा-पूर्ण-मानसायै नमः
कावेरी-नाम-विख्यातायै नमः
कामितार्थ-फल-प्रदायै नमः
कुम्भघोण-क्षेत्र-नाथायै नमः
कौतुकप्रथम-प्रभायै नमः
खगराज-रथोत्साह-रङ्गस्थल-सुशोभितायै नमः
खगावली-समाक्रान्तकल्लोलावलिमण्डितायै नमः३०
गजारण्य-सुविस्तीर्ण-प्रवाह-जनमोहिन्यै नमः
गायत्र्याख्य-शिला-मध्यायै नमः
गरुडासन-भक्तिदायै नमः
घन-गम्भीर-निनाद-निर्जरप्राप्ति-निर्झरायै नमः
चन्द्रपुष्कर-मध्यस्थायै नमः
चतुरानन-पुत्रिकायै नमः
चोलदेश-जनोद्धार-ग्रीष्मकाल-प्रवाहिन्यै नमः
चुञ्चुक्षेत्र-समानीतायै नमः
छद्मदोष-निवारिण्यै नमः
जम्बूद्वीप-सरिच्छ्रेष्ठ-नदी-नद-गरीयस्यै नमः४०
झङ्कारनाद-संमृष्ट-षट्पदालि-समाकुलायै नमः
ज्ञानैक-साधन-परायै नमः
ज्ञप्तिमात्रार्ति-हारिण्यै नमः
टिट्टिभारावस-व्याज-दिविज-स्तुति-पात्रिण्यै नमः
ठङ्कारनाद-सम्भेद-झर्झरीकृत-पर्वतायै नमः
डाकिनी-शाकिनी-सङ्घनिवारण-सरित्तटायै नमः
ढक्का-निनादपारीण-पार्वतीश-समाश्रितायै नमः
णान्तवाच्य-द्विजाष्टाङ्ग-योगसाधन-तत्परायै नमः
तरङ्गावलि-संविद्ध-मृदु-वालुक-शोभितायै नमः
तपस्विजन-सत्कार-निवेशित-शिलासनायै नमः५०
तापत्रय-तरून्मूल-गङ्गादिभिरभिष्टुतायै नमः
थान्त-प्रमथ-संसेव्य-साम्ब-सान्निध्य-कारिण्यै नमः
दया-दाक्षिण्य-सत्कारशील-लोक-सुभावितायै नमः
दाक्षिणात्य-जनोद्धार-निर्विचार-दयान्वितायै नमः
धन-मान-मदान्धादि-मर्त्य-निर्वर्तन-प्रियायै नमः
नमज्जनोद्धार-शीलायै नमः
निमज्जज्जन-पावनायै नमः
नागारिकेतु-निलयायै नमः
नाना-तीर्थाधि-देवतायै नमः
नारीजन-मनोल्लासायै नमः६०
नानारूप-फल-प्रदायै नमः
नारायण-कृपा-रूपायै नमः
नादब्रह्म-स्वरूपिण्यै नमः
पराभूत-समस्ताघायै नमः
पशु-पक्ष्यादि-जीवनायै नमः
पापतूलाग्नि-सदृशायै नमः
पापिष्ठजन-पावनायै नमः
फणीन्द्र-कीर्तित-कलायै नमः
फलदान-परायणायै नमः
बहुजन्म-तपो-योग-फलसम्प्राप्त-दर्शनायै नमः७०
बाहुरूप-द्विपार्श्वस्थ-स्वमातृक-जलार्थिनां-(कमल)(क्लौम)क्षेत्र-शाल्यन्न-दान-निर्जित-वित्तपायै नमः
भगवत्कृत-सन्तोषायै नमः
भास्करक्षेत्र-गामिन्यै नमः
भागीरथी-समाक्रन्त-तुलामास-जलाश्रयायै नमः
मज्जद्दुर्जन-प्राग्जन्म-दुर्जयांहःप्रमार्जन्यै नमः
माघ-वैशाखादि-मास-स्नान-स्मरण-सौख्यदायै नमः
यज्ञ-दान-तपः-कर्मकोटि-पुण्य-फल-प्रदायै नमः
यक्ष-गन्धर्व-सिद्धाद्यैरभिष्टुत-पदद्वयायै नमः
रघुनाथ-पदद्वन्द्व-विराजित-शिलातलायै नमः
रामनाथपुरक्षेत्र-कामधेनु-समाश्रितायै नमः८०
लवोदक-स्पर्शमात्र-निर्वाण-पद-दायिन्यै नमः
लक्ष्मी-निवास-सदनायै नमः
ललना-रत्न-रूपिण्यै नमः
लघूकृत-स्वर्ग-भोगायै नमः
लावण्य-गुण-सागरायै नमः
वह्निपुष्कर-सान्निद्ध्यायै नमः
वन्दिताखिल-लोकपायै नमः
व्याघ्रपाद-क्षेत्र-परायै नमः
व्योमयान-समावृतायै नमः
षट्काल-वन्द्य-चरणायै नमः९०
षट्कर्म-निरत-प्रियायै नमः
षडास्य-मातृ-संसेव्यायै नमः
षडूर्मि-जित-सोर्मिकायै नमः
सकृत्स्मरण-संशुद्ध-तापत्रय-जनाश्रितायै नमः
सज्जनोद्धार-सन्धानसमर्थ-स्वप्रवाहिन्यै नमः
सरस्वत्यादि-देवीभिरभिवन्दित-निर्झरायै नमः
सह्यशैल-समुद्भूतायै नमः
सह्यासह्य-जन-प्रियायै नमः
सङ्गमक्षेत्र-सामीप्यायै नमः
स्ववशार्थ-चतुष्टयायै नमः१००
सौभरिक्षेत्र-निलयायै नमः
सौभाग्य-फल-दायिन्यै नमः
संशयाविष्ट-दूरस्थायै नमः
साङ्गोपाङ्ग-फलोदयायै नमः
हरि-ब्रह्मेश-लोकेश-सिद्धवृन्दार-वन्दितायै नमः
क्षेत्र-तीर्थादि-सीमान्तायै नमः
क्षपानाथ-सुशीतलायै नमः
क्षमातलाखिलानन्द-क्षेम-श्री-विजयावहायै नमः१०८
॥इति श्रीकावेर्यष्टोत्तरशतनामावलिः सम्पूर्णा॥