गङ्गाष्टोत्तरशतनामावलिः
श्री-गङ्गायै नमः
विष्णु-पादाब्ज-सम्भूतायै नमः
हर-वल्लभायै नमः
हिमाचलेन्द्र-तनयायै नमः
गिरि-मण्डल-गामिन्यै नमः
तारकाराति-जनन्यै नमः
सगरात्मज-तारिकायै नमः
सरस्वती-समायुक्तायै नमः
सु-घोषायै नमः
सिन्धु-गामिन्यै नमः१०
भागीरथ्यै नमः
भाग्य-वत्यै नमः
भगीरथ-रथानुगायै नमः
त्रिविक्रम-पदोद्भूतायै नमः
त्रि-लोक-पथ-गामिन्यै नमः
क्षीर-शुभ्रायै नमः
बहु-क्षीरायै नमः
क्षीर-वृक्ष-समाकुलायै नमः
त्रि-लोचन-जटा-वासिन्यै नमः
ऋण-त्रय-विमोचिन्यै नमः२०
त्रिपुरारि-शिरश्चूडायै नमः
जाह्नव्यै नमः
नर-भीति-हृते नमः
अव्ययायै नमः
नयनानन्द-दायिन्यै नमः
नग-पुत्रिकायै नमः
निरञ्जनायै नमः
नित्य-शुद्धायै नमः
नीरजालि-परिष्कृतायै नमः
सावित्र्यै नमः३०
सलिलावासायै नमः
सागराम्बु-समेधिन्यै नमः
रम्यायै नमः
बिन्दु-सरोव्यक्तायै नमः
वृन्दारक-समाश्रितायै नमः
उमा-सपत्न्यै नमः
शुभ्राङ्गायै नमः
श्री-मत्यै नमः
धवलाम्बरायै नमः
आखण्डल-वनावासायै नमः४०
खण्डेन्दु-कृत-शेखरायै नमः
अमृताकार-सलिलायै नमः
लीला-लङ्घित-पर्वतायै नमः
विरिञ्चि-कलशावासायै नमः
त्रि-वेण्यै नमः
त्रि-गुणात्मिकायै नमः
सङ्गताघौघ-शमन्यै नमः
शङ्ख-दुन्दुभि-निःस्वनायै नमः
भीति-घ्न्यै नमः
भाग्य-जनन्यै नमः५०
भिन्न-ब्रह्माण्ड-दर्पिण्यै नमः
नन्दिन्यै नमः
शीघ्र-गायै नमः
सिद्धायै नमः
शरण्यायै नमः
शशि-शेखरायै नमः
शं-कर्यै नमः
शफरी-पूर्णायै नमः
भर्ग-मूर्ध-कृतालयायै नमः
भव-प्रियायै नमः६०
सत्य-सन्ध-प्रियायै नमः
हंस-स्वरूपिण्यै नमः
भगीरथ-सुतायै नमः
अनन्तायै नमः
शरच्चन्द्र-निभाननायै नमः
ओङ्कार-रूपिण्यै नमः
अतुलायै नमः
क्रीडा-कल्लोल-कारिण्यै नमः
स्वर्ग-सोपान-सरण्यै नमः
सर्व-देव-स्वरूपिण्यै नमः७०
अम्भः-प्रदायै नमः
दुःख-हन्त्र्यै नमः
शान्ति-सन्तान-कारिण्यै नमः
दारिद्र्य-हन्त्र्यै नमः
शिव-दायै नमः
संसार-विष-नाशिन्यै नमः
प्रयाग-निलयायै नमः
शीतायै नमः
ताप-त्रय-विमोचिन्यै नमः
शरणागत-दीनार्त-परित्राणायै नमः८०
सु-मुक्ति-दायै नमः
पाप-हन्त्र्यै नमः
पावनाङ्गायै नमः
पर-ब्रह्म-स्वरूपिण्यै नमः
पूर्णायै नमः
पुरातनायै नमः
पुण्यायै नमः
पुण्य-दायै नमः
पुण्य-वाहिन्यै नमः
पुलोमजार्चितायै नमः९०
पूतायै नमः
पूत-त्रि-भुवनायै नमः
जयायै नमः
जङ्गमायै नमः
जङ्गमाधारायै नमः
सिद्ध-योगि-निषेवितायै नमः
जल-रूपायै नमः
जगद्-धात्र्यै नमः
जगद्-भूतायै नमः
जनार्चितायै नमः१००
जह्नु-पुत्र्यै नमः
जगन्मात्रे नमः
जम्बू-द्वीप-विहारिण्यै नमः
भव-पत्न्यै नमः
भीष्म-मात्रे नमः
सिद्ध-रम्य-स्वरूप-धृते नमः
उमा-सहोदर्यै नमः
अज्ञान-तिमिरापहृते नमः१०८
॥इति श्री-गङ्गाष्टोत्तरशत-नामावलिः सम्पूर्णा॥