गणपत्यष्टोत्तरशतनामावलिः
गजाननाय नमः
गणाध्यक्षाय नमः
विघ्नराजाय नमः
विनायकाय नमः
द्वैमातुराय नमः
सुमुखाय नमः
प्रमुखाय नमः
सन्मुखाय नमः
कृतिने नमः
ज्ञानदीपाय नमः१०
सुखनिधये नमः
सुराध्यक्षाय नमः
सुरारिभिदे नमः
महागणपतये नमः
मान्याय नमः
महन्मान्याय नमः
मृडात्मजाय नमः
पुराणाय नमः
पुरुषाय नमः
पूष्णे नमः२०
पुष्करिणे नमः
पुण्यकृते नमः
अग्रगण्याय नमः
अग्रपूज्याय नमः
अग्रगामिने नमः
मन्त्रकृते नमः
चामीकरप्रभाय नमः
सर्वस्मै नमः
सर्वोपास्याय नमः
सर्वकर्त्रे नमः३०
सर्वनेत्रे नमः
सर्वसिद्धिप्रदाय नमः
सर्वसिद्धाय नमः
सर्ववन्द्याय नमः
महाकालाय नमः
महाबलाय नमः
हेरम्बाय नमः
लम्बजठराय नमः
ह्रस्वग्रीवाय नमः
महोदराय नमः४०
मदोत्कटाय नमः
महावीराय नमः
मन्त्रिणे नमः
मङ्गलदाय नमः
प्रथमाचार्याय नमः
प्राज्ञाय नमः
प्रमोदाय नमः
मोदकप्रियाय नमः
धृतिमते नमः
मतिमते नमः५०
कामिने नमः
कपित्थपनसप्रियाय नमः
ब्रह्मचारिणे नमः
ब्रह्मरूपिणे नमः
ब्रह्मविदे नमः
ब्रह्मवन्दिताय नमः
जिष्णवे नमः
विष्णुप्रियाय नमः
भक्तजीविताय नमः
जितमन्मथाय नमः६०
ऐश्वर्यदाय नमः
गुहज्यायसे नमः
सिद्धसेविताय नमः
विघ्नकर्त्रे नमः
विघ्नहर्त्रे नमः
विश्वनेत्रे नमः
विराजे नमः
स्वराजे नमः
श्रीपतये नमः
वाक्पतये नमः७०
श्रीमते नमः
शृङ्गारिणे नमः
श्रितवत्सलाय नमः
शिवप्रियाय नमः
शीघ्रकारिणे नमः
शाश्वताय नमः
शिवनन्दनाय नमः
बलोद्धताय नमः
भक्तनिधये नमः
भावगम्याय नमः८०
भवात्मजाय नमः
महते नमः
मङ्गलदायिने नमः
महेशाय नमः
महिताय नमः
सत्यधर्मिणे नमः
सदाधाराय नमः
सत्याय नमः
सत्यपराक्रमाय नमः
शुभाङ्गाय नमः९०
शुभ्रदन्ताय नमः
शुभदाय नमः
शुभविग्रहाय नमः
पञ्चपातकनाशिने नमः
पार्वतीप्रियनन्दनाय नमः
विश्वेशाय नमः
विबुधाराध्यपदाय नमः
वीरवराग्रगाय नमः
कुमारगुरुवन्द्याय नमः
कुञ्जरासुरभञ्जनाय नमः१००
वल्लभावल्लभाय नमः
वराभयकराम्बुजाय नमः
सुधाकलशहस्ताय नमः
सुधाकरकलाधराय नमः
पञ्चहस्ताय नमः
प्रधानेशाय नमः
पुरातनाय नमः
वरसिद्धिविनायकाय नमः
॥इति श्री-गणेशाष्टोत्तरशतनामावलिः सम्पूर्णा॥