गणपत्यष्टोत्तरशतनामावलिः
गणेश्वराय नमः
गणक्रीडाय नमः
महागणपतये नमः
विश्वकर्त्रे नमः
विश्वमुखाय नमः
दुर्जयाय नमः
धूर्जयाय नमः
जयाय नमः
सुरूपाय नमः
सर्वनेत्राधिवासाय नमः१०
वीरासनाश्रयाय नमः
योगाधिपाय नमः
तारकस्थाय नमः
पुरुषाय नमः
गजकर्णकाय नमः
चित्राङ्गाय नमः
श्यामदशनाय नमः
भालचन्द्राय नमः
चतुर्भुजाय नमः
शम्भुतेजसे नमः२०
यज्ञकायाय नमः
सर्वात्मने नमः
सामबृंहिताय नमः
कुलाचलांसाय नमः
व्योमनाभये नमः
कल्पद्रुमवनालयाय नमः
निम्ननाभये नमः
स्थूलकुक्षये नमः
पीनवक्षसे नमः
बृहद्भुजाय नमः३०
पीनस्कन्धाय नमः
कम्बुकण्ठाय नमः
लम्बोष्ठाय नमः
लम्बनासिकाय नमः
सर्वावयवसम्पूर्णाय नमः
सर्वलक्षणलक्षिताय नमः
इक्षुचापधराय नमः
शूलिने नमः
कान्तिकन्दलिताश्रयाय नमः
अक्षमालाधराय नमः४०
ज्ञानमुद्रावते नमः
विजयावहाय नमः
कामिनी-कामना-काम-मालिनी-केलि-लालिताय नमः
अमोघसिद्धये नमः
आधाराय नमः
आधाराधेयवर्जिताय नमः
इन्दीवरदलश्यामाय नमः
इन्दुमण्डलनिर्मलाय नमः
कर्मसाक्षिणे नमः
कर्मकर्त्रे नमः५०
कर्माकर्मफलप्रदाय नमः
कमण्डलुधराय नमः
कल्पाय नमः
कपर्दिने नमः
कटिसूत्रभृते नमः
कारुण्यदेहाय नमः
कपिलाय नमः
गुह्यागमनिरूपिताय नमः
गुहाशयाय नमः
गुहाब्धिस्थाय नमः६०
घटकुम्भाय नमः
घटोदराय नमः
पूर्णानन्दाय नमः
परानन्दाय नमः
धनदाय नमः
धरणीधराय नमः
बृहत्तमाय नमः
ब्रह्मपराय नमः
ब्रह्मण्याय नमः
ब्रह्मवित्प्रियाय नमः७०
भव्याय नमः
भूतालयाय नमः
भोगदात्रे नमः
महामनसे नमः
वरेण्याय नमः
वामदेवाय नमः
वन्द्याय नमः
वज्रनिवारणाय नमः
विश्वकर्त्रे नमः
विश्वचक्षुषे नमः८०
हवनाय नमः
हव्यकव्यभुजे नमः
स्वतन्त्राय नमः
सत्यसङ्कल्पाय नमः
सौभाग्यवर्धनाय नमः
कीर्तिदाय नमः
शोकहारिणे नमः
त्रिवर्गफलदायकाय नमः
चतुर्बाहवे नमः
चतुर्दन्ताय नमः९०
चतुर्थी-तिथि-सम्भवाय नमः
सहस्रशीर्ष्णे पुरुषाय नमः
सहस्राक्षाय नमः
सहस्रपदे नमः
कामरूपाय नमः
कामगतये नमः
द्विरदाय नमः
द्वीपरक्षकाय नमः
क्षेत्राधिपाय नमः
क्षमाभर्त्रे नमः१००
लयस्थाय नमः
लड्डुकप्रियाय नमः
प्रतिवादिमुखस्तम्भाय नमः
दुष्टचित्तप्रसादनाय नमः
भगवते नमः
भक्तिसुलभाय नमः
याज्ञिकाय नमः
याजकप्रियाय नमः
॥इति श्री-गणेशपुराणे उपासनाखण्डे श्री-गणपत्यष्टोत्तरशतनामावलिः सम्पूर्णा॥