दुर्गाष्टोत्तरशतनामावलिः

सत्यै नमः
साध्व्यै नमः
भवप्रीतायै नमः
भवान्यै नमः
भवमोचन्यै नमः
आर्यायै नमः
दुर्गायै नमः
जयायै नमः
आद्यायै नमः
त्रिनेत्रायै नमः१०
शूलधारिण्यै नमः
पिनाकधारिण्यै नमः
चित्रायै नमः
चण्डघण्टायै नमः
महातपसे नमः
मनसे नमः
बुद्ध्यै नमः
अहङ्कारायै नमः
चित्तरूपायै नमः
चितायै नमः२०
चित्त्यै नमः
सर्वमन्त्रमय्यै नमः
सत्तायै नमः
सत्यानन्दस्वरूपिण्यै नमः
अनन्तायै नमः
भाविन्यै नमः
भाव्यायै नमः
भव्यायै नमः
अभव्यायै नमः
सदागत्यै नमः३०
शाम्भव्यै नमः
देवमात्रे नमः
चिन्तायै नमः
रत्नप्रियायै नमः
सर्वविद्यायै नमः
दक्षकन्यायै नमः
दक्षयज्ञविनाशिन्यै नमः
अपर्णायै नमः
अनेकवर्णायै नमः
पाटलायै नमः४०
पाटलावत्यै नमः
पट्टाम्बरपरीधानायै नमः
कलमञ्जीररञ्जिन्यै नमः
अमेयविक्रमायै नमः
क्रूरायै नमः
सुन्दर्यै नमः
सुरसुन्दर्यै नमः
वनदुर्गायै नमः
मातङ्ग्यै नमः
मतङ्गमुनिपूजितायै नमः५०
ब्राह्म्यै नमः
माहेश्वर्यै नमः
ऐन्द्र्यै नमः
कौमार्यै नमः
वैष्णव्यै नमः
चामुण्डायै नमः
वाराह्यै नमः
लक्ष्म्यै नमः
पुरुषाकृत्यै नमः
विमलायै नमः६०
उत्कर्षिण्यै नमः
ज्ञानायै नमः
क्रियायै नमः
नित्यायै नमः
बुद्धिदायै नमः
बहुलायै नमः
बहुलप्रेमायै नमः
सर्ववाहनवाहनायै नमः
निशुम्भशुम्भहनन्यै नमः
महिषासुरमर्दिन्यै नमः७०
मधुकैटभहन्त्र्यै नमः
चण्डमुण्डविनाशिन्यै नमः
सर्वासुरविनाशायै नमः
सर्वदानवघातिन्यै नमः
सर्वशास्त्रमय्यै नमः
सत्यायै नमः
सर्वास्त्रधारिण्यै नमः
अनेकशस्त्रहस्तायै नमः
अनेकास्त्रधारिण्यै नमः
कुमार्यै नमः८०
एककन्यायै नमः
कैशोर्यै नमः
युवत्यै नमः
यत्यै नमः
अप्रौढायै नमः
प्रौढायै नमः
वृद्धमात्रे नमः
बलप्रदायै नमः
महोदर्यै नमः
मुक्तकेश्यै नमः९०
घोररूपायै नमः
महाबलायै नमः
अग्निज्वालायै नमः
रौद्रमुख्यै नमः
कालरात्र्यै नमः
तपस्विन्यै नमः
नारायण्यै नमः
भद्रकाल्यै नमः
विष्णुमायायै नमः
जलोदर्यै नमः१००
शिवदूत्यै नमः
कराल्यै नमः
अनन्तायै नमः
परमेश्वर्यै नमः
कात्यायन्यै नमः
सावित्र्यै नमः
प्रत्यक्षायै नमः
ब्रह्मवादिन्यै नमः१०८

॥इति श्री-दुर्गाष्टोत्तरशतनामावलिः सम्पूर्णा॥