देवसेनाष्टोत्तरशतनामावलिः

देवसेनायै नमः
देवलोकजनन्यै नमः
दिव्यसुन्दर्यै नमः
देवपूज्यायै नमः
दयारूपायै नमः
दिव्याभरणभूषितायै नमः
दारिद्र्यनाशिन्यै नमः
देव्यै नमः
दिव्यपङ्कजधारिण्यै नमः
दुःस्वप्ननाशिन्यै नमः१०
दुष्टशमन्यै नमः
दोषवर्जितायै नमः
पीताम्बरायै नमः
पद्मवासायै नमः
परानन्दायै नमः
परात्परायै नमः
पूर्णायै नमः
परमकल्याण्यै नमः
प्रकटायै नमः
पापनाशिन्यै नमः२०
प्राणेश्वर्यै नमः
परायै शक्त्यै नमः
परमायै नमः
परमेश्वर्यै नमः
महावीर्यायै नमः
महाभोगायै नमः
महापूज्यायै नमः
महाबलायै नमः
माहेन्द्र्यै नमः
महत्यै नमः३०
मायायै नमः
मुक्ताहारविभूषितायै नमः
ब्रह्मानन्दायै नमः
ब्रह्मरूपायै नमः
ब्रह्माण्यै नमः
ब्रह्मपूजितायै नमः
कार्त्तिकेयप्रियायै नमः
कान्तायै नमः
कामरूपायै नमः
कलाधरायै नमः४०
विष्णुपूज्यायै नमः
विश्ववेद्यायै नमः
वेदवेद्यायै नमः
वज्रिजातायै नमः
वरप्रदायै नमः
विशाखकान्तायै नमः
विमलायै नमः
विशालाक्ष्यै नमः
सत्यसन्धायै नमः
सत्प्रभावायै नमः५०
सिद्धिदायै नमः
स्कन्दवल्लभायै नमः
सुरेश्वर्यै नमः
सर्ववन्द्यायै नमः
सुन्दर्यै नमः
साम्यवर्जितायै नमः
हतदैत्यायै नमः
हानिहीनायै नमः
हर्षदात्र्यै नमः
हतासुरायै नमः६०
हितकर्त्र्यै नमः
हीनदोषायै नमः
हेमाभायै नमः
हेमभूषणायै नमः
लयहीनायै नमः
लोकवन्द्यायै नमः
ललितायै नमः
ललनोत्तमायै नमः
लम्बवामकरायै नमः
लभ्यायै नमः७०
लज्जाढ्यायै नमः
लाभदायिन्यै नमः
अचिन्त्यशक्त्यै नमः
अचलायै नमः
अचिन्त्यरूपायै नमः
अक्षरायै नमः
अभयायै नमः
अम्बुजाक्ष्यै नमः
अमराराध्यायै नमः
अभयदायै नमः८०
असुरभीतिदायै नमः
शर्मदायै नमः
शक्रतनयायै नमः
शङ्करात्मजवल्लभायै नमः
शुभायै नमः
शुभप्रदायै नमः
शुद्धायै नमः
शरणागतवत्सलायै नमः
मयूरवाहनदयितायै नमः
महामहिमशालिन्यै नमः९०
मदहीनायै नमः
मातृपूज्यायै नमः
मन्मथारिसुतप्रियायै नमः
गुणपूर्णायै नमः
गणाराध्यायै नमः
गौरीसुतमनःप्रियायै नमः
गतदोषायै नमः
गतावद्यायै नमः
गङ्गाजातकुटुम्बिन्यै नमः
चतुरायै नमः१००
चन्द्रवदनायै नमः
चन्द्रचूडभवप्रियायै नमः
रम्यरूपायै नमः
रमावन्द्यायै नमः
रुद्रसूनुमनःप्रियायै नमः
मङ्गलायै नमः
मधुरालापायै नमः
महेशतनयप्रियायै नमः

॥इति श्री-देवसेना अष्टोत्तरशतनामावलिः सम्पूर्णा॥