दक्षिणामूर्त्यष्टोत्तरशतनामावलिः

विद्यारूपिणे नमः
महायोगिने नमः
शुद्धज्ञानिने नमः
पिनाकधृते नमः
रत्नालङ्कृतसर्वाङ्गाय नमः
रत्नमालाजटाधराय नमः
गङ्गाधारिणे नमः
अचलावासिने नमः
सर्वज्ञानिने नमः
समाधिकृते नमः १०
अप्रमेयाय नमः
योगिनिधये नमः
तारकाय नमः
भक्तवत्सलाय नमः
ब्रह्मरूपिणे नमः
जगद्व्यापिने नमः
विष्णुमूर्तये नमः
पुरातनाय नमः
उक्षवाहाय नमः
चर्मवाससे नमः २०
पीताम्बरविभूषणाय नमः
मोक्षदायिने नमः
मोक्षनिधये नमः
अन्धकारये नमः
जगत्पतये नमः
विद्याधारिणे नमः
शुक्लतनवे नमः
विद्यादायिने नमः
गणाधिपाय नमः
पदाऽपस्मारसंहर्त्रे नमः ३०
शशिमौलये नमः
महास्वनाय नमः
सामप्रियाय नमः
अव्ययाय नमः
साधवे नमः
सर्ववेदैरलङ्कृताय नमः
हस्ते वह्निधराय नमः
श्रीमते नमः
मृगधारिणे नमः
वशङ्कराय नमः ४०
यज्ञनाथाय नमः
क्रतुध्वंसिने नमः
यज्ञभोक्त्रे नमः
यमान्तकाय नमः
भक्तानुग्रहमूर्तये नमः
भक्तसेव्याय नमः
वृषध्वजाय नमः
भस्मोद्धूलितसर्वाङ्गाय नमः
अक्षमालाधराय नमः
हराय नमः ५०
त्रयीमूर्तये नमः
परस्मै ब्रह्मणे नमः
नागराजैरलंकृताय नमः
शान्तरूपाय नमः
महारूपिणे नमः
सर्वलोकविभूषणाय नमः
अर्धनारीश्वराय नमः
देवाय नमः
मुनिसेव्याय नमः
सुरोत्तमाय नमः ६०
व्याख्यानदेवाय नमः
भगवते नमः
अग्निचन्द्रार्कलोचनाय नमः
जगत्स्रष्ट्रे नमः
जगद्गोप्त्रे नमः
जगद्ध्वंसिने नमः
त्रिलोचनाय नमः
जगद्गुरवे नमः
महादेवाय नमः
महानन्दपरायणाय नमः ७०
व्योमगङ्गाजलस्नाताय नमः
सिद्धसङ्घसमर्चिताय नमः
तत्त्वमूर्तये नमः
महाभोगिने नमः
महासारस्वतप्रदाय नमः
व्योममूर्तये नमः
भक्तानामिष्टाय नमः
कामफलप्रदाय नमः
परमूर्तये नमः
चित्स्वरूपिणे नमः ८०
तेजोमूर्तये नमः
अनामयाय नमः
वेदवेदान्ततत्त्वार्थाय नमः
चतुःषष्टिकलानिधये नमः
भवरोगभयध्वंसिने नमः
भक्तानामभयप्रदाय नमः
नीलग्रीवाय नमः
ललाटाक्षाय नमः
गजचर्मिणे नमः
गतिप्रदाय नमः ९०
अरागिणे नमः
कामदहनाय नमः
तपस्विने नमः
विष्णुवल्लभाय नमः
ब्रह्मचारिणे नमः
संन्यासिने नमः
गृहस्थाश्रमकारणाय नमः
दान्ताय नमः
शमवतां श्रेष्ठाय नमः
सत्त्वरूपाय नमः १००
दयापराय नमः
योगपट्टाभिरामाय नमः
वीणाधारिणे नमः
विचेतनाय नमः
मतिप्रज्ञासुधाधारिणे नमः
मुद्रापुस्तकधारणाय नमः
राजयक्ष्मादिरोगाणां विनिहन्त्रे नमः
सुरेश्वराय नमः १०८

॥इति श्री-धन्वन्तर्यष्टोत्तरशतनामावलिः सम्पूर्णा॥