चन्द्रशेखरेन्द्र सरस्वती अष्टोत्तरशतनामावलिः
श्री-काञ्ची-कामकोटि-पीठाधीश्वराय नमः
श्री-चन्द्रशेखरेन्द्र-सरस्वती-गुरुभ्यो नमः
सन्न्यासाश्रमशिखराय नमः
काषाय-दण्डधारिणे नमः
सर्वपीडाप्रायश्चित्ताय नमः
स्वामीनाथाय नमः
करुणासागराय नमः
जगदाकर्षणशक्तये नमः
सर्वचराचरहृदयस्थाय नमः
भक्तपरिपालकश्रेष्ठाय नमः१०
धर्मपरिपालकाय नमः
श्री-जयेन्द्रसरस्वत्याचार्याय नमः
ब्रह्मोपदेशकाय नमः
शक्तिस्वरूपकाय नमः
भक्तजनप्रियाय नमः
ब्रह्म-विष्णु-शिवैक्य एकरूपाय नमः
काशीक्षेत्रवासाय नमः
कैलासशिखरवासाय नमः
सर्वधर्मपरिपोषकाय नमः
चतुर्वर्णरक्षकाय नमः२०
लोकरक्षितसङ्कल्पाय नमः
सर्वनिष्ठापराय नमः
सर्वपापहराय नमः
धर्मरक्षकसन्तुष्टाय नमः
भक्तार्पितधनस्वीकर्त्रे नमः
सर्वोपनिषद् व्युत्पन्नाय नमः
सर्वशास्त्रगमनाय नमः
सर्वलोकपितामहाय नमः
भक्ताभीष्टप्रदायकाय नमः
ब्राह्मण्यपोषकाय नमः३०
नानाविधपुष्पार्चिताय नमः
रुद्राक्षकिरीटधारिणे नमः
भस्मोद्धूलितवेषकाय नमः
सर्वज्ञाय नमः
सर्वचराचरव्याप्त्रे नमः
अनेकशिष्यपरिपालकाय नमः
चञ्चलमनध्वंसिने नमः
अभयहस्ताय नमः
भयापहाय नमः
यज्ञपुरुषाय नमः४०
यज्ञकर्त्रे नमः
यज्ञसम्पन्नाय नमः
यज्ञसहायकाय नमः
यज्ञफलदाय नमः
यज्ञप्रियाय नमः
सर्वोपमानयोग्याय नमः
स्फटिक-तुलसी-रुद्राक्ष-हार-धारिणे नमः
ब्रह्म-क्षत्रिय-वैश्य-शूद्रादि चतुर्वर्णजनसमदृष्टाय नमः
ऋग्यजुस्सामाथर्वणादि चतुर्वेदरक्षकाय नमः
दक्षिणामूर्तिस्वरूपाय नमः५०
जाग्रत्-स्वप्न-सुषुप्त्याद्यवस्थानुग्रहाय नमः
कोटिसूर्यप्रकाशतेजोमयशरीराय नमः
साधुसङ्गरक्षकाय नमः
अश्वगजगोपूजप्रियाय नमः
गुरुपादुकापूजाधुरन्धराय नमः
कनकाभिषिक्ताय नमः
स्वर्णबिल्वदलपूज्याय नमः
सर्वजीवमोक्षदाय नमः
मूकवाग्दाननिपुणाय नमः
नेत्रदीक्षादानाय नमः६०
द्वादशलिङ्गस्थापिताय नमः
गानरसप्रियाय नमः
श्री-जयेन्द्रसरस्वती-पूजिताय नमः
सकलकलासिद्धिदाय नमः
चतुर्वर्णजनपूजिताय नमः
अनेकभाषा-सम्भाषण-सिद्धिदाय नमः
अष्टसिद्धिप्रदायकाय नमः
श्रीशारदामठस्थाय नमः
नित्यान्नदानसुप्रीताय नमः
प्रार्थनामात्रसुलभाय नमः७०
पादयात्राप्रियाय नमः
नानाविध-मत-पण्डिताय नमः
श्रुतिस्मृतिपुराणाय नमः
देव-यक्ष-किन्नर-किम्पुरुष-पूज्याय नमः
श्रवणानन्दाय नमः
दर्शनानन्दाय नमः
जिह्वानन्दाय नमः
चिन्तितानन्दाय नमः
शैव-वैष्णव-भेद-ध्वंसिने नमः
शङ्कहराय नमः८०
शङ्खहस्ताय नमः
वीणामृदङ्गसकलवाद्य-नादस्वरूपाय नमः
राग-स्वर-साहित्य-रसिकाय नमः
नटन-नाट्य-नाटकादि सकलकलाश्रयाय नमः
हृदय-गुहेशाय नमः
रुद्र-चमक-वर्णित स्वरूपाय नमः
केदारेश्वरनाथाय नमः
अविद्यानाशकाय नमः
निष्काम्य-कर्मोपदेशकाय नमः
लघुभक्तिमार्गोपदेशकाय नमः९०
लिङ्गस्वरूपाय नमः
शालग्रामसूक्ष्मस्वरूपाय नमः
शृङ्गेरी-द्वारकादि चतुर्मठसमदृष्टाय नमः
जितेन्द्रियाय नमः
शरणागतवत्सलाय नमः
श्रीशैलशिखरवासाय नमः
दमरुकनाद-वेदशृष्टिकाय नमः
वृषभारूढाय नमः
दुर्मतनाशकाय नमः
आभिचारिकदोषहर्त्रे नमः१००
मिथ्याहराय नमः
मृत्युविमोचकशक्तये नमः
सुदर्शनचक्रप्रतिष्ठिताय नमः
दस्य कर्मानुग्रहाय नमः
अनूराधानक्षत्रजाताय नमः
सर्वलोकगमनाय नमः
श्रीत्रिपुरसुन्दरी-समेत-श्रीचन्द्रमौलीश्वर-पूजा-प्रियाय नमः
वेङ्कटेश्वरानन्द-हृदयवासाय नमः
॥इति श्री-काञ्ची कामकोटि पीठाधीश्वरः शङ्कराचार्यः
श्री-चन्द्रशेखरेन्द्रसरस्वती अष्टोत्तर-शतनामावलिः सम्पूर्णा॥