अन्नपूर्णाष्टोत्तरशतनामावलिः

अन्नपूर्णायै नमः
शिवायै नमः
देव्यै नमः
भीमायै नमः
पुष्ट्यै नमः
सरस्वत्यै नमः
सर्वज्ञायै नमः
पार्वत्यै नमः
दुर्गायै नमः
शर्वाण्यै नमः१०
शिववल्लभायै नमः
वेदविद्यायै नमः
महाविद्यायै नमः
विद्यादात्र्यै नमः
विशारदायै नमः
कुमार्यै नमः
त्रिपुरायै नमः
बालायै नमः
लक्ष्म्यै नमः
श्रियै नमः२०
भयहारिणै नमः
भवान्यै नमः
विष्णुजनन्यै नमः
ब्रह्मादिजनन्यै नमः
गणेशजनन्यै नमः
शक्त्यै नमः
कुमारजनन्यै नमः
शुभायै नमः
भोगप्रदायै नमः
भगवत्यै नमः३०
भक्ताभीष्टप्रदायिन्यै नमः
भवरोगहरायै नमः
भव्यायै नमः
शुभ्रायै नमः
परममङ्गलायै नमः
भवान्यै नमः
चञ्चलायै नमः
गौर्यै नमः
चारुचन्द्रकलाधरायै नमः
विशालाक्ष्यै नमः४०
विश्वमात्रे नमः
विश्ववन्द्यायै नमः
विलासिन्यै नमः
आर्यायै नमः
कल्याणनिलयायै नमः
रुद्राण्यै नमः
कमलासनायै नमः
शुभप्रदायै नमः
शुभावर्तायै नमः
वृत्तपीनपयोधरायै नमः५०
अम्बायै नमः
संहारमथन्यै नमः
मृडान्यै नमः
सर्वमङ्गलायै नमः
विष्णुसंसेवितायै नमः
सिद्धायै नमः
ब्रह्माण्यै नमः
सुरसेवितायै नमः
परमानन्ददायै नमः
शान्त्यै नमः६०
परमानन्दरूपिण्यै नमः
परमानन्दजनन्यै नमः
परानन्दप्रदायिन्यै नमः
परोपकारनिरतायै नमः
परमायै नमः
भक्तवत्सलायै नमः
पूर्णचन्द्राभवदनायै नमः
पूर्णचन्द्रनिभांशुकायै नमः
शुभलक्षणसम्पन्नायै नमः
शुभानन्दगुणार्णवायै नमः७०
शुभसौभाग्यनिलयायै नमः
शुभदायै नमः
रतिप्रियायै नमः
चण्डिकायै नमः
चण्डमथन्यै नमः
चण्डदर्पनिवारिण्यै नमः
मार्ताण्डनयनायै नमः
साध्व्यै नमः
चन्द्राग्निनयनायै नमः
सत्यै नमः८०
पुण्डरीकहरायै नमः
पूर्णायै नमः
पुण्यदायै नमः
पुण्यरूपिण्यै नमः
मायातीतायै नमः
श्रेष्ठमायायै नमः
श्रेष्ठधर्मायै नमः
आत्मवन्दितायै नमः
असृष्ट्यै नमः
सङ्गरहितायै नमः९०
सृष्टिहेतवे नमः
कपर्दिन्यै नमः
वृषारूढायै नमः
शूलहस्तायै नमः
स्थितिकारिण्यै नमः
संहारकारिण्यै नमः
मन्दस्मितायै नमः
स्कन्दमात्रे नमः
शुद्धचित्तायै नमः
मुनिस्तुतायै नमः१००
महाभगवत्यै नमः
दक्षायै नमः
दक्षाध्वरविनाशिन्यै नमः
सर्वार्थदात्र्यै नमः
सावित्र्यै नमः
सदाशिवकुटुम्बिन्यै नमः
नित्यसुन्दरसर्वाङ्ग्यै नमः
सच्चिदानन्दलक्षणायै नमः

॥इति श्री-शिवरहस्ये श्री-अन्नपूर्णाष्टोत्तरशतनामावलिः सम्पूर्णा॥