हनुमदष्टोत्तरशतनामावलिः

आञ्जनेयाय नमः
महावीराय नमः
हनूमते नमः
मारुतात्मजाय नमः
तत्त्वज्ञानप्रदाय नमः
सीतादेवीमुद्राप्रदायकाय नमः
अशोकवनिकाच्छेत्रे नमः
सर्वमायाविभञ्जनाय नमः
सर्वबन्धविमोक्त्रे नमः
रक्षोविध्वंसकारकाय नमः१०
परविद्यापरीहर्त्रे नमः
परशौर्यविनाशनाय नमः
परमन्त्रनिराकर्त्रे नमः
परयन्त्रप्रभेदकाय नमः
सर्वग्रहविनाशिने नमः
भीमसेनसहायकृते नमः
सर्वदुःखहराय नमः
सर्वलोकचारिणे नमः
मनोजवाय नमः
पारिजातद्रुमूलस्थाय नमः२०
सर्वमन्त्रस्वरूपवते नमः
सर्वतन्त्रस्वरूपिणे नमः
सर्वयन्त्रात्मकाय नमः
कपीश्वराय नमः
महाकायाय नमः
सर्वरोगहराय नमः
प्रभवे नमः
बलसिद्धिकराय नमः
सर्वविद्यासम्पत्प्रदायकाय नमः
कपिसेनानायकाय नमः३०
भविष्यच्चतुराननाय नमः
कुमारब्रह्मचारिणे नमः
रत्नकुण्डलदीप्तिमते नमः
चञ्चलद्बालसन्नद्धलम्बमानशिखोज्ज्वलाय नमः
गन्धर्वविद्यातत्त्वज्ञाय नमः
महाबलपराक्रमाय नमः
कारागृहविमोक्त्रे नमः
शृङ्खलाबन्धमोचकाय नमः
सागरोत्तारकाय नमः
प्राज्ञाय नमः४०
रामदूताय नमः
प्रतापवते नमः
वानराय नमः
केसरीसुताय नमः
सीताशोकनिवारणाय नमः
अञ्जनागर्भसम्भूताय नमः
बालार्कसदृशाननाय नमः
विभीषणप्रियकराय नमः
दशग्रीवकुलान्तकाय नमः
लक्ष्मणप्राणदात्रे नमः५०
वज्रकायाय नमः
महाद्युतये नमः
चिरञ्जीविने नमः
रामभक्ताय नमः
दैत्यकार्यविघातकाय नमः
अक्षहन्त्रे नमः
काञ्चनाभाय नमः
पञ्चवक्त्राय नमः
महातपसे नमः
लङ्किणीभञ्जनाय नमः६०
श्रीमते नमः
सिंहिकाप्राणभञ्जनाय नमः
गन्धमादनशैलस्थाय नमः
लङ्कापुरविदाहकाय नमः
सुग्रीवसचिवाय नमः
धीराय नमः
शूराय नमः
दैत्यकुलान्तकाय नमः
सुरार्चिताय नमः
महातेजसे नमः७०
रामचूडामणिप्रदाय नमः
कामरूपिणे नमः
पिङ्गलाक्षाय नमः
वर्धिमैनाकपूजिताय नमः
कबलीकृतमार्तण्डमण्डलाय नमः
विजितेन्द्रियाय नमः
रामसुग्रीवसन्धात्रे नमः
महिरावणमर्दनाय नमः
स्फटिकाभाय नमः
वागधीशाय नमः८०
नवव्याकृतिपण्डिताय नमः
चतुर्बाहवे नमः
दीनबन्धवे नमः
महात्मने नमः
भक्तवत्सलाय नमः
सञ्जीवननगाहर्त्रे नमः
शुचये नमः
वाग्मिने नमः
दृढव्रताय नमः
कालनेमिप्रमथनाय नमः९०
हरिमर्कटमर्कटाय नमः
दान्ताय नमः
शान्ताय नमः
प्रसन्नात्मने नमः
शतकण्ठमदापहृते नमः
योगिने नमः
रामकथालोलाय नमः
सीतान्वेषणपण्डिताय नमः
वज्रदंष्ट्राय नमः
वज्रनखाय नमः१००
रुद्रवीर्यसमुद्भवाय नमः
इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकाय नमः
पार्थध्वजाग्रसंवासिने नमः
शरपञ्जरहेलकाय नमः
दशबाहवे नमः
लोकपूज्याय नमः
जाम्बवत्प्रीतिवर्धनाय नमः
सीतासमेतश्रीरामपादसेवाधुरन्धराय नमः

॥इति श्री-हनुमदष्टोत्तरशतनामावलिः सम्पूर्णा॥