हनुमदष्टोत्तरशतनामावलिः
हनुमते नमः
अञ्जना-सूनवे नमः
धीमते नमः
केसरि-नन्दनाय नमः
वातात्मजाय नमः
वर-गुणाय नमः
वानरेन्द्राय नमः
विरोचनाय नमः
सुग्रीव-सचिवाय नमः
श्रीमते नमः १०
सूर्य-शिष्याय नमः
सुख-प्रदाय नमः
ब्रह्म-दत्त-वराय नमः
ब्रह्म-भूताय नमः
ब्रह्मर्षि-सन्नुताय नमः
जितेन्द्रियाय नमः
जितारातये नमः
राम-दूताय नमः
रणोत्कटाय नमः
सञ्जीवनी-समाहर्त्रे नमः २०
सर्व-सैन्य-प्रहर्षकाय नमः
रावणाकम्प्य-सौमित्रि-नयन-स्फुट-भक्तिमते नमः
अशोक-वनिका-च्छेदिने नमः
सीता-वात्सल्य-भाजनाय नमः
विषीदद्-भूमि-तनयार्पित-रामाङ्गुलीयकाय नमः
चूडामणि-समानेत्रे नमः
राम-दुःखापहारकाय नमः
अक्ष-हन्त्रे नमः
विक्षतारये नमः
तृणीकृत-दशाननाय नमः ३०
कुल्या-कल्प-महाम्भोधये नमः
सिंहिका-प्राण-नाशनाय नमः
सुरसा-विजयोपाय-वेत्त्रे नमः
सुर-वरार्चिताय नमः
जाम्बवन्नुत-माहात्म्याय नमः
जीविताहत-लक्ष्मणाय नमः
जम्बुमालि-रिपवे नमः
जम्भ-वैरि-साध्वस-नाशनाय नमः
अस्त्रावध्याय नमः
राक्षसारये नमः ४०
सेनापति-विनाशनाय नमः
लङ्कापुर-प्रदग्ध्रे नमः
वालानल-सुशीतलाय नमः
वानर-प्राण-सन्दात्रे नमः
वालि-सूनु-प्रियङ्कराय नमः
महारूप-धराय नमः
मान्याय नमः
भीमाय नमः
भीम-पराक्रमाय नमः
भीम-दर्प-हराय नमः ५०
भक्त-वत्सलाय नमः
भर्त्सिताशराय नमः
रघु-वंश-प्रिय-कराय नमः
रण-धीराय नमः
रयाकराय नमः
भरतार्पित-सन्देशाय नमः
भगवच्छ्लिष्ट-विग्रहाय नमः
अर्जुन-ध्वज-वासिने नमः
तर्जिताशर-नायकाय नमः
महते नमः ६०
महा-मधुर-वाचे नमः
महात्मने नमः
मातरिश्व-जाय नमः
मरुन्नुताय नमः
महोदार-गुणाय नमः
मधु-वन-प्रियाय नमः
महा-धैर्याय नमः
महा-वीर्याय नमः
मिहिराधिक-कान्तिमते नमः
अन्नदाय नमः ७०
वसुदाय नमः
वाग्मिने नमः
ज्ञान-दाय नमः
वत्सलाय नमः
वशिने नमः
वशीकृताखिल-जगते नमः
वरदाय नमः
वानराकृतये नमः
भिक्षु-रूप-प्रतिच्छन्नाय नमः
अभीति-दाय नमः ८०
भीति-वर्जिताय नमः
भूमी-धर-हराय नमः
भूति-दायकाय नमः
भूत-सन्नुताय नमः
भुक्ति-मुक्ति-प्रदाय नमः
भूम्ने नमः
भुज-निर्जित-राक्षसाय नमः
वाल्मीकि-स्तुत-माहात्म्याय नमः
विभीषण-सुहृदे नमः
विभवे नमः ९०
अनुकम्पा-निधये नमः
पम्पा-तीर-चारिणे नमः
प्रतापवते नमः
ब्रह्मास्त्र-हत-रामादि-जीवनाय नमः
ब्रह्म-वत्सलाय नमः
जय-वार्ताहराय नमः
जेत्रे नमः
जानकी-शोक-नाशनाय नमः
जानकी-राम-साहित्य-कारिणे नमः
जन-सुख-प्रदाय नमः १००
बहु-योजन-गन्त्रे नमः
बल-वीर्य-गुणाधिकाय नमः
रावणालय-मर्दिने नमः
राम-पादाब्ज-वाहकाय नमः
राम-नाम-लसद्-वक्त्राय नमः
रामायण-कथादृताय नमः
राम-स्वरूप-विलसन्मानसाय नमः
राम-वल्लभाय नमः १०८
॥इति ब्रह्मयामले रामरहस्ये प्रोक्ता श्री-हनुमद्-अष्टोत्तरशत-नामावलिः सम्पूर्णा॥