आदिशङ्कराचार्याष्टोत्तरशतनामावलिः

श्रीशङ्कराचार्यवर्याय नमः
ब्रह्मज्ञानप्रदायकाय नमः
अज्ञानतिमिरादित्याय नमः
सुज्ञानाम्बुधिचन्द्रमसे नमः
वर्णाश्रमप्रतिष्ठात्रे नमः
श्रीमते नमः
मुक्तिप्रदायकाय नमः
शिष्योपदेशनिरताय नमः
भक्ताभीष्टप्रदायकाय नमः
सूक्ष्मतत्त्वरहस्यज्ञाय नमः१०
कार्याकार्यप्रबोधकाय नमः
ज्ञानमुद्राञ्चितकराय नमः
शिष्य-हृत्ताप-हारकाय नमः
पारिव्राज्याश्रमोद्धर्त्रे नमः
सर्वतन्त्रस्वतन्त्रधिये नमः
अद्वैतस्थापनाचार्याय नमः
साक्षाच्छङ्कररूपभृते नमः
षण्मतस्थापनाचार्याय नमः
त्रयीमार्गप्रकाशकाय नमः
वेदवेदान्ततत्त्वज्ञाय नमः२०
दुर्वादिमतखण्डनाय नमः
वैराग्यनिरताय नमः
शान्ताय नमः
संसारार्णवतारकाय नमः
प्रसन्नवदनाम्भोजाय नमः
परमार्थप्रकाशकाय नमः
पुराणस्मृतिसारज्ञाय नमः
नित्यतृप्ताय नमः
महते नमः
शुचये नमः३०
नित्यानन्दाय नमः
निरातङ्काय नमः
निःसङ्गाय नमः
निर्मलात्मकाय नमः
निर्ममाय नमः
निरहङ्काराय नमः
विश्ववन्द्यपदाम्बुजाय नमः
सत्त्वप्रधानाय नमः
सद्भावाय नमः
सङ्ख्यातीतगुणोज्ज्वलाय नमः४०
अनघाय नमः
सारहृदयाय नमः
सुधिये नमः
सारस्वतप्रदाय नमः
सत्यात्मने नमः
पुण्यशीलाय नमः
साङ्ख्ययोगविचक्षणाय नमः
तपोराशये नमः
महातेजसे नमः
गुणत्रयविभागविदे नमः५०
कलिघ्नाय नमः
कालधर्मज्ञाय नमः
तमोगुणनिवारकाय नमः
भगवते नमः
भारतीजेत्रे नमः
शारदाह्वानपण्डिताय नमः
धर्माधर्मविभागज्ञाय नमः
लक्ष्यभेदप्रदर्शकाय नमः
नादबिन्दुकलाभिज्ञाय नमः
योगिहृत्पद्मभास्कराय नमः६०
अतीन्द्रिय-ज्ञाननिधये नमः
नित्यानित्यविवेकवते नमः
चिदानन्दाय नमः
चिन्मयात्मने नमः
परकायप्रवेशकृते नमः
अमानुष-चरित्राढ्याय नमः
क्षेमदायिने नमः
क्षमाकराय नमः
भवाय नमः
भद्रप्रदाय नमः७०
भूरिमहिम्ने नमः
विश्वरञ्जकाय नमः
स्वप्रकाशाय नमः
सदाधाराय नमः
विश्वबन्धवे नमः
शुभोदयाय नमः
विशालकीर्तये नमः
वागीशाय नमः
सर्वलोकहितोत्सुकाय नमः
कैलासयात्रा-सम्प्राप्तचन्द्रमौलि-प्रपूजकाय
काञ्च्यां श्रीचक्रराजाख्य-यन्त्रस्थापन-दीक्षिताय नमः
श्रीचक्रात्मक-ताटङ्क-पोषिताम्बा-मनोरथाय नमः
श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकाय नमः
चतुर्दिक्चतुराम्नायप्रतिष्ठात्रे नमः
महामतये नमः
द्विसप्ततिमतोच्छेत्त्रे नमः
सर्वदिग्विजयप्रभवे नमः
काषायवसनोपेताय नमः
भस्मोद्धूलितविग्रहाय नमः
ज्ञानात्मकैकदण्डाढ्याय नमः९०
कमण्डलुलसत्कराय नमः
व्याससन्दर्शनप्रीताय नमः
भगवत्पादसंज्ञकाय नमः
चतुःषष्टिकलाभिज्ञाय नमः
ब्रह्मराक्षस-मोक्षदाय नमः
सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकाय नमः
श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुताय नमः
तोटकाचार्यसम्पूज्याय नमः
पद्मपादार्चिताङ्घ्रिकाय नमः
हस्तामलकयोगीन्द्रब्रह्मज्ञानप्रदायकाय नमः१००
सुरेश्वरादि-सच्छिष्य-सन्न्यासाश्रम-दायकाय नमः
निर्व्याजकरुणामूर्तये नमः
जगत्पूज्याय नमः
जगद्गुरवे नमः
भेरीपटहवाद्यादिराजलक्षणलक्षिताय नमः
सकृत्स्मरणसन्तुष्टाय नमः
सर्वज्ञाय नमः
ज्ञानदायकाय नमः१०८
श्रीशङ्करभगवत्पादाचार्येभ्यो नमः

॥इति श्री-आदिशङ्कराचार्याष्टोत्तरशतनामावलिः सम्पूर्णा॥