अष्टसप्ततितमोऽध्यायः॥७८॥

वैशम्पायन उवाच

ततस्त्रयोदशे वर्षे निवृत्ते पञ्च पाण्डवाः।
उपप्लाव्ये विराटस्य वासं चक्रुः पुरोत्तमे॥१॥
दूतान् मित्रेषु सर्वेषु ज्ञातिसम्बन्धिकेष्वपि।
प्रेषयामास कौन्तेयो विराटश्च महीपतिः॥२॥
तेषु तत्रोपविष्टेषु प्रेषितेषु ततस्ततः।
तत्राऽऽगमन्महाबाहुर्वनमाली बलानुजः॥३॥
तस्मिन् काले निशम्याथ दूतवाक्यं जनार्दनः।
दयितं स्वस्त्रियं पुत्रं सुभद्रायाः सुमानितम्।
अभिमन्युं समादाय रामेण सहितस्तदा॥४॥
सर्वयादवमुख्यैश्च संवृतः परवीरहा।
शङ्खदुन्दुभिनिर्घोषैर्विराटनगरं ययौ॥५॥
कृतवर्मा च हार्दिक्यो युयुधानश्च सात्यकिः।
अनाधृष्टिस्तथाऽक्रूरः साम्बो निशठ एव च।
प्रद्युम्नश्च महाबाहुरुल्मुकश्च महाबलः॥६॥
अभिमन्युमुपादाय सह मात्रा परन्तपाः।
कृष्णेन सहिताः सर्वे पाण्डवान् द्रष्टुमागताः॥७॥
इन्द्रसेनादयश्चैव रथैस्तैः सुसमाहितैः।
उपेयुः सहिताः सर्वे परिसंवत्सरोषिताः॥८॥
दशनागसहस्राणि हयानां द्विगुणं तथा।
रथानां नियुतं पूर्णं निखर्वं च पदातयः॥९॥
वृष्ण्यन्धकाश्च शतशो भोजाश्च परमौजसः।
अन्वयुर्वृष्णिशार्दूलं वासुदेवं महाबलम्॥१०॥
वासुदेवं तथाऽऽयान्तं श्रुत्वा पाण्डुसुतास्तदा।
मात्स्येन सहिताः सर्वे प्रत्युद्याता जनार्दनम्॥११॥
शङ्खदुन्दुभिनिर्घोषैर्मङ्गलैश्च जनार्दनम्।
ववन्दुर्मुदिताः सर्वे पादयोस्तस्य पाण्डवाः।
मात्स्येन सहिताः सर्वे आनन्दाश्रुपरिप्लुताः॥१२॥

पाण्डवा ऊचुः

तव कृष्ण प्रसादाद् वै वर्षाण्येतानि सर्वशः।
त्रयोदशोऽपि दाशार्ह यथा स समयः कृतः॥१३॥
उषिताः स्मो जगन्नाथ त्वं नाथो नो जनार्दन।
रक्षस्व देवदेवेश त्वामार्य शरणं गताः॥१४॥

वैशम्पायन उवाच

तान् वन्दमानान् सहसा परिष्वज्य जनार्दनः।
विराटस्य सहायांस्तान् सर्वयादवसंवृतः॥१५॥
यथार्हं पूजयामास मुदा परमया युतः।
वृष्णिवीराश्च तान् सर्वान् यथार्हं प्रतिपेदिरे॥१६॥
कृष्णा च देवकीपुत्रं ववन्दे पादयोस्तथा।
तामुद्यम्य सुकेशान्तां नयने परिमृज्य च।
उवाच वाक्यं देवेशः सर्वयादवसन्निधौ॥१७॥
मा शोकं कुरु कल्याणि धार्तराष्ट्रान् समाहितान्।
अचिराद् घातयित्वाऽहं पार्थेन सहितः क्षितिम्॥१८॥
युधिष्ठिराय दास्यामि यातु ते मानसो ज्वरः।
अभिमन्युना च पार्थेन रौक्मिणेयेन ते शपे॥१९॥
सत्यमेतद् वचो मह्यमवैहि त्वमनिन्दिते।
इत्युक्त्वा तां विसृज्याथ प्रीयमाणो युधिष्ठिरम्।
अन्वास्त वृष्णिशार्दूलः सह वृष्ण्यन्धकैस्तथा॥२०॥
काशिराजश्च शैब्यश्च भजमानौ युधिष्ठिरम्।
अक्षौहिणीभ्यां सहितावागतौ पृथिवीपती॥२१॥
अक्षौहिणीभिः पाञ्चालस्तिसृभिश्च महाबलः।
द्रौपद्याश्च सुता वीराः शिखण्डी चापराजितः॥२२॥
धृष्टद्युम्नश्च दुर्धर्षः सर्वशस्त्रभृतां वरः।
उपप्लाव्यं ययुः शीघ्रं पाण्डवार्थे महाबलाः॥२३॥
ततः शतसहस्राणि प्रयुतान्यर्बुदानि च।
समीपमभिवर्तन्ते योधा यौधिष्ठिरं बलम्॥२४॥
समुद्रमिव घर्मान्ते स्रोतःश्रेष्ठाः पृथक् पृथक्।
आपूरयन् महीपाला यज्वानो भूरिदक्षिणैः।
वेदावभृथसम्पन्नाः शूराः सर्वे तनुत्यजः॥२५॥
तानागतानभिप्रेक्ष्य पार्थो ज्ञानभृतां वरः।
पूजयामास विधिवद् यथार्हं राजसत्तमान्॥२६॥
पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम्।
स्त्रियो वासांसि रत्नानि पृथक् पृथगनेकशः॥२७॥
राजानो राजपुत्राश्च निवृत्ते समये तथा।
यथार्हं पाण्डवश्रेष्ठैरवर्तन्ताभिपूजिताः।
आसन् प्रहृष्टमनसः पारिबर्हं ददुस्तदा॥२८॥
सर्वेषु समवेतेषु राजभिर्वृष्णिभिः सह।
विवाहो विधिवद् राजन् ववृधे कुरुमात्स्ययोः॥२९॥
ततः शङ्खा मृदङ्गाश्च गोमुखा डिण्डिमास्तदा।
अभिमन्योर्विवाहे तु नेदुर्मात्स्यस्य वेश्मनि॥३०॥
उच्चावचान् मृगाञ्जघ्नुर्मेध्यांश्च शतशस्तथा।
भक्ष्यान्नभोज्यपानानि प्रभूतान्यभ्यहारयन्॥३१॥
गायनाख्यानशीलाश्च नटा वैतालिकास्तथा।
स्तुवन्तस्तानुपातिष्ठन् सूताश्च सह मागधैः॥३२॥
स्त्रियो वृद्धास्तरुण्यश्च उत्सवे तस्य मङ्गले।
द्रौपद्यन्तःपुरे चैव विराटस्य गृहे स्त्रियः॥३३॥
सुदेष्णां तु पुरस्कृत्य मत्स्यानामपि च स्त्रियः।
आजग्मुश्चारुपीनाङ्ग्यः सुमृष्टमणिकुण्डलाः॥३४॥
वर्णोपपन्नास्ता नार्यो रूपवत्यः स्वलङ्कृताः।
सर्वासामभवत् कृष्णा रूपेण वपुषाऽधिका॥३५॥
परिवार्योत्तरां श्लाघ्यां राजपुत्रीमलङ्कृताम्।
सुतामिव महेन्द्रस्य पुरस्कृत्योपतस्थिरे॥३६॥
भृङ्गारुं तु समादाय सौवर्णं जलपूरितम्।
पार्थस्य हस्ते सहसा सुतामिन्दीवरेक्षणाम्।
स्नुषार्थं प्राक्षिपद् वारि विराटो वाहिनीपतिः॥३७॥
तां प्रत्यगृह्णात् कौन्तेयः सुतस्यार्थे महामनाः।
सौभद्राश्चानवद्याङ्गो विराटतनयां तदा॥३८॥
तत्रातिष्ठद् गृहीत्वा तु रूपमिन्द्रस्य धारयन्।
स्नुषां तां परिगृह्णानः कुन्तीपुत्रो युधिष्ठिरः॥३९॥
द्रुपदश्च विराटश्च शिखण्डी च महाबलः।
युयुधानश्च शैब्यश्च धृष्टद्युम्नश्च सात्यकिः॥४०॥
सप्तैतेऽक्षौहिणीपाला यज्वानो भूरिदक्षिणाः।
पाण्डवं परिवार्यैते निवेशं चक्रिरे तदा॥४१॥
तत्रस्थायां तु सेनायां मात्स्यो धर्मभृतां वरः।
प्रीतो दुहितरं गृह्य प्रददावभिमन्यवे॥४२॥
प्रतिगृह्योत्तरां पार्थः पुरस्कृत्य जनार्दनम्।
विवाहं कारयामास सौभद्रस्य महात्मनः॥४३॥
ततो विवाहो ववृधे स्फीतः सर्वगुणान्वितः।
सौभद्रस्याद्भुतं कर्म पितुस्तव पितुस्तदा॥४४॥
धौम्यः शिष्यैः परिवृतो जुहावाग्नौ विधानतः।
अग्निं प्रदक्षिणीकुर्वन् सौभद्रः पाणिमग्रहीत्॥४५॥
ततः पार्थाय संहृष्टो मात्स्यराजो धनं महत्।
तस्मै शतसहस्राणि हयानां वातरंहसाम्॥४६॥
द्वे च नागशते मुख्ये धनं बहुविधं तदा।
प्रादान् मात्स्यपतिर्हृष्टः कन्याधनमनुत्तमम्॥४७॥
पारिबर्हं च पार्थेभ्यः प्रददौ मत्स्यपुङ्गवः।
कृष्णेन सह कौन्तेयः प्रत्यगृह्णात् प्रभूतवत्॥४८॥
कृते विवाहे तु तदा धर्मपुत्रो युधिष्ठिरः।
ब्राह्मणेभ्यो ददौ वित्तं यदुपाहरदच्युतः॥४९॥
गोसहस्राणि वस्त्राणि रत्नानि विविधानि च।
भूषणानि च सर्वाणि यानानि शयनानि च॥५०॥
नागरान् प्रीतिभिर्दिव्यैस्तर्पयामास भूपतिः॥५१॥
तन्महोत्सवसङ्काशं हृष्टपुष्टजनाकुलम्।
नगरं मत्स्यराजस्य शुशुभे भरतर्षभ॥५२॥
पुरोहितैरमात्यैश्च पौरैर्जानपदैः सह।
विराटो नृपतिः श्रीमान् सौभद्रायाभिमन्यवे।
तां सुतामुत्तरां दत्त्वा मुमुदे परमं तदा॥५३॥

जनमेजय उवाच

वृत्ते विवाहे हृष्टात्मा यदुवाच युधिष्ठिरः।
तत् सर्वं कथयस्वेह कृतवन्तो यदुत्तरम्॥५४॥

॥इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि अष्टसप्ततितमोऽध्यायः॥७८॥

वैवाहिकपर्व समाप्तम्॥५॥
समाप्तं च विराटपर्व॥४॥