सप्तसप्ततितमोऽध्यायः॥७७॥
विराट उवाच
यच्च वक्ष्याम्यहं तेऽद्य मा शङ्केथा युधिष्ठिर।
इदं सनगरं राष्ट्रं सजनं सवधूजनम्।
युष्यभ्यं सम्प्रदास्यामि भोक्ष्याम्युच्छिष्टमेव च॥१॥
अहं वृद्धश्चिरं राजन् भुक्तभोगश्चिरं सुखम्।
राज्यं दत्त्वा तु युष्मभ्यं प्रव्रजिष्यामि काननम्॥२॥
उत्तरां प्रतिगृह्णातु सव्यसाची धनञ्जयः।
अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः॥३॥
वैशम्पायन उवाच
एवमुक्तो धर्मराजः पार्थमैक्षद् धनञ्जयम्।
ईक्षितं चार्जुनो ज्ञात्वा मात्स्यं वचनमब्रवीत्॥४॥
वयं वनान्तरात् प्राप्ता न ते राज्यं गृहामहे।
किन्तु दुर्योधनादीनां राज्ञां राज्यं गृहामहे॥५॥
प्रतिगृह्णाम्यहं राजन् स्नुषां दुहितरं तव।
युक्तो ह्यावां हि सम्बन्धो मात्स्यभारतवंशयोः॥६॥
विराट उवाच
किमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम।
प्रतिग्रहीतुं नेमां त्वं मया दत्तमिहेच्छसि॥७॥
अर्जुन उवाच
अन्तःपुरेऽहमुषितः सदा पश्यन् सुतां तव।
रहस्यं च प्रकाशं च विश्वस्ता पितृवन्मयि॥८॥
प्रियो बहुमतश्चाहं नर्तने गीतवादिते।
आचार्यवच्च मां नित्यं मन्यते दुहिता तव॥९॥
वयस्यया तया राजन् सह संवत्सरोषितः।
अतिशङ्का ततोऽस्थाने तव लोकस्य च प्रभो॥१०॥
तस्मादामन्त्रये त्वाऽद्य पुत्रार्थं मे विशाम्पते।
शुद्धं जितेन्द्रियं मन्ये तस्याः शुद्धिः कृता मया॥११॥
स्नुषायां दुहितुर्वाऽपि पुत्रे चाऽऽत्मनि वा पुनः।
अतिशङ्कां न पश्यामि तेन शुद्धिर्भविष्यति॥१२॥
अभिषङ्गादहं भीतो मिथ्याचारात् परन्तप।
स्नुषार्थमुत्तरां राजन् प्रतिगृह्णामि ते सुताम्॥१३॥
स्वस्त्रीयो वासुदेवस्य साक्षाद् देवसुतो यथा।
दयितश्चक्रहस्तस्य बलवानस्त्रकोविदः॥१४॥
अभिमन्युर्महाबाहुः पुत्रो मम विशाम्पते।
जामाता तव युक्तो वै भर्ता च दुहितुस्तव॥१५॥
विराट उवाच
उपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनञ्जये।
सदैव धर्मनित्यश्च ज्ञातज्ञानश्च पाण्डवः॥१६॥
यत्कृत्यं मन्यसे पार्थ क्रियतां तदनन्तरम्।
सर्वे कामाः समृद्धा मे सम्बन्धी यस्य मेऽर्जुनः॥१७॥
वैशम्पायन उवाच
एवं ब्रुवति राजेन्द्रे कुन्तीपुत्रो युधिष्ठिरः।
अन्वजानत सम्बन्धं समये कृष्णमात्स्ययोः॥१८॥
दूतान् सर्वेषु मित्रेषु वासुदेवे च भारत।
प्रेषयामास कौन्तेयो विराटश्च महीपतिः॥१९॥
प्रतिगृह्य स्नुषार्थं वै दर्शयन् वृत्तमात्मनः।
शीलशौचसमाचारं लोकस्याऽऽवेद्य फल्गुनः॥२०॥
लोके विख्याप्य माहात्म्यं यशश्च स परन्तपः।
कृतार्थः शुचिरव्यग्रस्तुष्टिमानभवत् तदा॥२१॥
युधिष्ठिर उवाच
राजन् प्रीतोऽस्मि भद्रं ते सखा मेऽसि परन्तप।
सुखमध्युषिताः सर्वे अज्ञातास्त्वयि पार्थिव॥२२॥
वैशम्पायन उवाच
विराटनगरे राजा धर्मात्मा संशितव्रतः।
पूजितश्चाभिषिक्तश्च रत्नैश्च शतशोऽर्चितः॥२३॥
तथा ब्रुवन्तं प्रसमीक्ष्य राजा
परं प्रहृष्टः स्वजनेन तेन।
स्नेहात् परिष्वज्य नृपो भुजाभ्यां
ददौ महार्थं कुरुपाण्डवानाम्॥२४॥
युद्धात् प्रयाताः कुरवो हि मार्गे
समेत्य सर्वे हितमेव तत्र।
आचार्यपुत्रः शकुनिश्च राजा
दुर्योधनः सूतपुत्रश्च कर्णः।
सम्मन्त्र्य राजन् सहिताः समर्थाः
समादिशन् दूतमथो समग्राः॥२५॥
युधिष्ठिरश्चापि सुसम्प्रहृष्टो
दुर्योधनाद् दूतमपश्यदागतम्।
स चाब्रवीद् धर्मराजं समेत्य
युधिष्ठिरं पाण्डवमुग्रवीर्यम्॥२६॥
धनञ्जयेनासि पुनर्वनाय
प्रव्राजितः समये तिष्ठ पार्थः।
त्रयोदशे ह्येव किरीटमाली
संवत्सरे पाण्डवेयोऽद्य दृष्टः॥२७॥
वैशम्पायन उवाच
ततोऽब्रवीद् धर्मसुतः प्रहस्य
क्षिप्रं गत्वा ब्रूहि सुयोधनं तम्।
पितामहः शान्तनवो ब्रवीतु
पूर्णो न पूर्णोऽद्य त्रयोदशो नः॥२८॥
संवत्सरात् ते तु धनञ्जयेन
विष्फारितं गाण्डिवमाजिमध्ये।
पूर्णो न पूर्णो न इति ब्रवीतु
यदस्य सत्यं मम तत् प्रमाणम्॥२९॥
तेनैवमुक्तः स निवृत्य दूतो
दुर्योधनं प्राप्य शशंस तत्त्वम्॥३०॥
समेत्य दूतेन स राजपुत्रो
दुर्योधनो मन्त्रयामास तत्र।
भीष्मेण कर्णेन कृपेण चैव
द्रोणेन भूरिश्रवसा च सार्धम्॥३१॥
सम्मन्त्र्य रात्रौ बहुभिः सुहृद्भिर्-
भीष्मोऽब्रवीद् धार्तराष्ट्रं महात्मा।
तीर्णप्रतिज्ञेन धनञ्जयेन
विष्फारितं गाण्डिवमाजिमध्ये॥३२॥
वैशम्पायन उवाच
नेच्छन्त्यसत्येन सुरेन्द्रलोकं
पाण्डोः सुता ब्रह्मणश्चापि लोकम्।
तथ्यं च ते पथ्यमहं ब्रवीमि
स्वर्ग्यं यशस्यं परलोकपथ्यम्॥३३॥
कुन्तीसुतैस्त्वं समुपैहि सन्धिं
भुङ्क्ष्व स्वराज्यं सह पाण्डवेयैः।
युध्यस्व नो चेत् स्थिरबुद्धिराजौ
कुन्तीसुतैर्यद्यपि राज्यमिच्छेः॥३४॥
आन्तं न शक्यं कपटेन भोक्तुं
राज्यं परेषां महतां बलीनाम्।
जित्वा शत्रून् भुङ्क्ष्व राज्यं समग्रं
हतो भवान् भोक्ष्यति वज्रिलोकम्॥३५॥
वैशम्पायन उवाच
ततः स भागीरथिसूनुवाक्यं
निशम्य गान्धारितनूद्भवो नृपः।
उवाच भीष्मं प्रमुखे च पित्रोर्-
महीं न दद्यामणुमात्रिकामपि।
निहन्मि पाण्डूदरसम्भवान् वा
हतोऽस्मि तैर्वा सुरलोकमेमि॥३६॥
ते धार्तराष्ट्राः समयं निशम्य
तीर्णप्रतिज्ञस्य धनञ्जयस्य।
सञ्चिन्त्य सर्वे सहिताः सुहृद्भिः
सपार्थिवाः स्वानि गृहाणि जग्मुः॥३७॥
॥इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि सप्तसप्ततितमोऽध्यायः॥७७॥