षट्सप्ततितमोऽध्यायः॥७६॥

वैशम्पायन उवाच

विराटस्य वचः श्रुत्वा पार्थिवस्य महात्मनः।
उत्तरः प्रत्युवाचेदमभिपन्नो युधिष्ठिरे॥१॥
प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये।
तेजस्वी बलवाञ्छूरो राजराजेश्वरः प्रभुः॥२॥
उत्तरां च स्वसारं मे पार्थस्यामित्रकर्शन।
प्रणिपत्य प्रयच्छामस्ततः शिष्टा भवामहे॥३॥
वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम्।
प्रसाद्याभ्युपतिष्ठामो राजन् किं करवामहे॥४॥
राजंस्त्वमसि सङ्ग्रामे गृहीतस्तेन मोक्षितः।
एतेषां बाहुवीर्येण गावश्च विजितास्त्वया॥५॥
कुरवो निर्जिता यस्मात् सङ्ग्रामेऽमिततेजसः।
एष तत् सर्वमकरोत् कुन्तीपुत्रो युधिष्ठिरः॥६॥
अर्च्याः पूज्याश्च मान्याश्च प्रत्युत्थेयाश्च पाण्डवाः।
अर्वार्हाश्चाभिवाद्याश्च प्राप्तकालं च मे मतम्॥७॥
पूज्यतां पूजनीयाश्च महाभागाश्च पाण्डवाः।
न ह्येते कुपिता शेषं कुर्युराशीविषोपमाः॥८॥
तस्माच्छीघ्रं प्रपद्येम कुन्तीपुत्रं युधिष्ठिरम्।
प्रसादयाम्यहं तत्र सह पार्थैर्महात्मभिः॥९॥
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः।
जानाम्यहमिदं सर्वमेषां तु बलपौरुषम्।
कुले च जन्म महति फल्गुनस्य च विक्रमम्॥१०॥

वैशम्पायन उवाच

उत्तरात् पाण्डवाञ्छ्रुत्वा विराटो रिपुसूदनः।
उत्तरं चापि सम्प्रेक्ष्य प्राप्तकालमचिन्तयत्॥११॥
ततो विराटः सामात्यः सहपुत्रः सबान्धवः।
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः।
भूमौ निपतितस्तूर्णं पाण्डवस्य समीपतः॥१२॥

विराट उवाच

प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः।
प्रच्छन्नरूपवेषत्वान् नाग्निर्दृष्टस्तृणैर्वृतः॥१३॥
शिरसाऽभिप्रपन्नोऽस्मि सपुत्रपरिचारकः॥१४॥
यदस्माभिरजानद्भिरधिक्षिप्तो महीपतिः।
अवमत्य कृतं सर्वमज्ञानात् प्राकृते यथा।
क्षन्तुमर्हसि तत् सर्वं धर्मज्ञो धर्मवत्सल॥१५॥
यदिदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव।
सदण्डकोशं विसृजे तव वश्योऽस्मि पार्थिव।
वयं च सर्वे सामात्या भवन्तं शरणं गताः॥१६॥

वैशम्पायन उवाच

तं धर्मराजः पतितं महीतले
सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम्।
उवाच वाक्यं परलोकदर्शनः
प्रनष्टमन्युर्गतशोकमत्सरः॥१७॥
न ते भयं पार्थिव विद्यते मयि
प्रतीतरूपोऽस्म्यनुचिन्त्य मानसम्।
एतत् त्वया सम्यगिहोपपादितं
द्विजैरमात्यैः सदृशैश्च पण्डितैः।
इमां च कन्यां समलङ्कृतां भृशं
समीक्ष्य तुष्टोऽस्मि नरेन्द्रसत्तम॥१८॥
क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव।
न चैव किञ्चित् पश्यामि विकृतं ते नराधिप॥१९॥

वैशम्पायन उवाच

ततो विराटः परमाभितुष्टः
समेत्य राज्ञा समयं चकार।
राज्यं च सर्वं विससर्ज तस्मै
सदण्डकोशं सपुरं महात्मा॥२०॥

॥इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि षट्सप्ततितमोऽध्यायः॥७६॥