पञ्चसप्ततितमोऽध्यायः॥७५॥
विराट उवाच
यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः।
कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली॥१॥
नकुलः सहदेवो वा द्रौपदी वा यशस्विनी।
यदा ह्यक्षैर्जिता ह्येते नान्तरा श्रूयते कथा॥२॥
अर्जुन उवाच
य एष बललोऽभूत् ते सूपकारश्च ते नृप।
एष भीमो महाभाग भीमवेगपराक्रमः॥३॥
एष क्रोधवशान् हत्वा पर्वते गन्धमादने।
सौगन्धिकानि पुष्पाणि कृष्णार्थे समुपानयत्॥४॥
गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम्।
व्याघ्रान् ऋक्षान् गजांश्चैव हतवांश्च पुरे तव॥५॥
हिडिम्बं च बकं चैव किर्मीरं च जटासुरम्।
हत्वा निष्कण्टकं चक्रे अरण्यं सर्वतः शुभम्॥६॥
यश्चाऽऽसीदश्वबन्धस्ते नकुलोऽयं परन्तप।
गोसङ्ख्यः सहदेवश्च माद्रीपुत्रौ महाबलौ॥७॥
शृङ्गारवेषभरणौ रूपवन्तौ मनस्विनौ।
नानारथसहस्राणां समर्थौ भरतर्षभौ॥८॥
एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी।
सैरन्ध्री द्रौपदी राजन् यत्कृते कीचका हताः॥९॥
द्रुपदस्य प्रिया पुत्री धृष्टद्युम्नस्य चानुजा।
अग्निकुण्डात् समुद्भूता द्रौपदी त्ववगम्यताम्॥१०॥
भीम उवाच
अस्त्रज्ञो दुर्लभः कश्चित् केवलं पृथिवीमनु।
धनुर्भृतामतिश्रेष्ठः कौन्तेयोऽयं धनञ्जयः॥११॥
एतेन खाण्डवं तस्य ह्यकामस्य शतक्रतोः।
दग्धं नागवनं चैव सह नागैर्नराधिप॥१२॥
वर्षं च शरवर्षेण वारितं दुर्जयेन वै।
करमाहारिताः सर्वे पार्थिवाः पृथिवीतले॥१३॥
स्त्रीवेषं कृतवानेष तव राजन् निवेशने।
बृहन्नलेति यामाहुरर्जुनं जयतां वरम्॥१४॥
उषिताः स्म सुखं सर्वे तव राजन् निवेशने।
अज्ञातवासे निभृता गर्भवास इव प्रजाः॥१५॥
वैशम्पायन उवाच
यदाऽर्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः।
पुनरेव च तान् पार्थान् दर्शयामास चोत्तरः॥१६॥
उत्तर उवाच
य एष जाम्बूनदशुद्धगौर-
तनुर्महान् सिंह इव प्रवृद्धः।
प्रचण्डघोणः पृथुदीर्घनेत्रस्-
ताम्रायताक्षः कुरुराज एषः॥१७॥
अयं पुनर्मत्तगजेन्द्रगामी
प्रतप्तचामीकरशुद्धगौरः।
पृथ्वायतांसो गुरुदीर्घबाहुर्-
वृकोदरः पश्यत पश्यतैनम्॥१८॥
यस्त्वेव पार्श्वेऽस्य महाधनुष्माञ्-
श्यामो युवा वारणयूथपोपमः।
सिंहोन्नतांसो गजराजगामी
पद्मायताक्षोऽर्जुन एष वीरः॥१९॥
राज्ञः समीपे पुरुषोत्तमौ तु
यमाविमौ विष्णुमहेन्द्रकल्पौ।
मनुष्यलोके सकले समोऽस्ति
ययोर्न रूपे न बले न शीले॥२०॥
आभ्यां तु पार्श्वे कनकोत्तमाङ्गी
यैषा प्रभा मूर्तिमतीव गौरी।
नीलोत्पलाभा सुरदेवतेव
कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः॥२१॥
वैशम्पायन उवाच
एवं निवेद्य तान् पार्थान् पाण्डवान् पञ्च भूपतेः।
ततोऽर्जुनस्य वैराटिः कथयामास विक्रमम्॥२२॥
अयं स द्विषतां मध्ये मृगाणामिव केसरी।
अचरद् रथबृन्देषु निघ्नंस्तेषां परावरान्॥२३॥
अनेन विद्धा मातङ्गा महामेघोपमास्तदा।
हिरण्यकक्ष्याः सङ्ग्रामे दन्ताभ्यामगमन्महीम्॥२४॥
अनेन विजिता गावो निर्जिताः कुरवो युधि।
अस्य शङ्खस्य शब्देन कर्णौ मे बधिरीकृतौ॥२५॥
जायते रोमहर्षो मे संस्मृत्यास्य धनुर्ध्वनिम्।
ध्वजस्य वानरं भूतैराक्रोशन्तं सहानुगैः॥२६॥
नाददानं शरान् घोरान् न मुञ्चन्तं शरोत्करान्।
न कार्मुकं विकर्षन्तमेनं पश्यामि संयुगे॥२७॥
एतद् धनुःप्रमुक्ताश्च शराः पुङ्खानुपुङ्खिनः।
नालक्ष्येषु रणे पेतुर्नाराचा रक्तभोजनाः॥२८॥
तीक्ष्णनाराचसङ्कृत्तशिरोबाहूरुवक्षसाम्।
कलेबराणि दृश्यन्ते योधानां साश्वसादिनाम्॥२९॥
अनेन तटिनी तत्र शोणिताम्बुप्रवाहिनी।
प्रवर्तिता भीमरूपा यां स्मृत्वाऽद्यापि मे मनः।
प्रकम्पते चण्डवायुकम्पिता कदली यथा॥३०॥
अनेन राजन् वीरेण भीष्मद्रोणमुखा रथाः।
दुर्योधनेन सहिता निर्जिता भीमकर्मणा॥३१॥
अयं भीतं द्रवन्तं मां देवपुत्रो न्यवारयत्।
यस्य बाहुबलेनास्मि जीवन् प्रत्यागतः पुरम्॥३२॥
वैशम्पायन उवाच
तस्य तद् वचनं श्रुत्वा मात्स्यराजः प्रतापवान्।
धनञ्जयं परिष्वज्य पाण्डवानथ सर्वशः॥३३॥
धर्मराजं नमस्कृत्य राजा राज्येऽभिषेचितम्।
नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः॥३४॥
सम्प्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत्।
दिष्ट्या भवन्तः सम्प्राप्ताः सर्वे कुशलिनो वनात्।
दिष्ट्या विचरितं कृच्छ्रमज्ञातं च दुरात्मभिः॥३५॥
इदं राज्यं च वः सर्वं यच्चापि वसु किञ्चन।
विभक्तमेतद् भवतां नोत्कण्ठां कर्तुमर्हथ।
अविभक्तं भवद्भिर्मे न सन्देहो नराधिपाः॥३६॥
॥इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि पञ्चसप्ततितमोऽध्यायः॥७५॥