त्रिसप्ततितमोऽध्यायः॥७३॥
वैशम्पायन उवाच
प्रदाय वस्त्राणि किरीटमाली
विराटगेहे मुदितः सखीभ्यः।
कृत्वा महत् कर्म तदाऽऽजिमध्ये
दिदृक्षया सोऽभिजगाम पार्थम्॥१॥
तं प्रेक्षमाणस्त्वथ धर्मराजं
पप्रच्छ पार्थोऽथ स भीमसेनम्।
किं धर्मराजो हि यथापुरं मां
मुखं प्रतिच्छाद्य न चाऽऽह किञ्चित्॥२॥
तमेवमुक्त्वा परिशङ्कमानन्
दृष्ट्वाऽर्जुनं भीमसेनं च राजा।
तदाऽब्रवीत् तावभिवीक्ष्य राजन्
युधिष्ठिरस्तत् परिमृज्य रक्तम्॥३॥
दुरात्मना त्वय्यभिपूज्यमाने
विराटराज्ञाऽभिहतोऽस्मि पार्थ।
तस्मात् प्रहाराद् रुधिरस्य बिन्दून्
पश्यन्न चेमे पृथिवीं स्पृशेयुः।
इति प्रतिच्छाद्य मुखं ततोऽहं
मन्युं नियच्छन्नुपविष्ट आसम्॥४॥
शुभार्ह राष्ट्रं न खिलीकृतं भवेद्
वयं तु यस्मिन् सुखिनोऽभवाम।
क्रुद्धे तु वीरे त्वयि चाप्रतीते
राजा विराटो न लभेत शर्म॥५॥
अजानता तेन च शौर्यमाजौ
छन्नस्य सत्रेण बलं च पार्थ।
इदं विराटेन मयि प्रयुक्तं
त्वां वीक्षमाणो न गतोऽस्मि हर्षम्॥६॥
वैशम्पायन उवाच
तेनाप्रमेयेन महाबलेन
तस्मिंस्तथोक्ते शममास्थितेन।
तं भीमसेनो बलवानमर्षी
धनञ्जयं क्रुद्धमुवाच वाक्यम्॥७॥
न पार्थ नित्यं क्षमकालमाह
बृहस्पतिर्ज्ञानवतां वरिष्ठः।
क्षमीह सर्वैः परिभूयतेऽसौ
यथा भुजङ्गो विषवीर्यहीनः॥८॥
विराटमद्यैव निहत्य शीघ्रं
सपुत्रपौत्रं सकुलं ससैन्यम्।
योक्ष्यामहे धर्मसुतं च राज्ये
अद्यैव शीघ्रं त्वरिरेष मात्स्यः॥९॥
अनेन पाञ्चालसुताऽथ कृष्णा
उपेक्षिता कीचकेनाभियुक्ता।
तस्मादयं नार्हति राजशब्दं
राजा भव त्वं नृप पार्थवीर्यात्॥१०॥
राजा कुरूणां च युधिष्ठिरोऽयं
मात्स्येषु राजा भवतु प्रवीरः।
तं मात्स्यदेहं शतधा भिनद्मि
पूर्णोदकं कुम्भमिवाश्मनीह॥११॥
अर्जुन उवाच
भवतः क्षमया राजन्त्सर्वे दोषाश्च नोऽभवन्।
तं मात्स्यं सबलं हत्वा सपुत्रज्ञातिबान्धवम्।
पश्चाच्चैव कुरून् सर्वान् हनिष्यामि न संशयः॥१२॥
भीमसेनश्च ये चान्ये तथैवेति तमब्रुवन्॥१३॥
तमब्रवीद् धर्मसुतो महात्मा
क्षमी वदान्यः कुपितं च भीमम्।
न प्रत्युपस्थास्यति चेत् सदारः
प्रसादने सम्यगथास्तु वध्यः॥१४॥
न हन्तव्यो दुरात्माऽयं विराटश्चापि तेऽर्जुन॥१५॥
श्वः प्रभाते प्रवेक्ष्यामः सभां सिंहासनेष्वपि।
राजवेषेण संयुक्ताः स्थानमस्व स्वलङ्कृताः॥१६॥
विराटो यदि तत्रस्थान् राजालङ्कारशोभितान्।
राजलक्षणसम्पन्नान् यदि तत्र न मंस्यते।
पश्चाद् धन्यामहे पार्थ विराटं सहबान्धवम्॥१७॥
इतिकर्तव्यतां सर्वे मन्त्रयित्वा तु पाण्डवाः।
न्यवसंश्चैव तां रात्रिं धर्मज्ञा धर्मवत्सलाः॥१८॥
सहपुत्रेण मात्स्यः स सम्प्रहृष्टो नराधिपः।
तां रात्रिमवसत् प्रीतः सम्प्रहृष्टेन चेतसा॥१९॥
॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि त्रिसप्ततितमोऽध्यायः॥७३॥
गोग्रहणपर्व समाप्तम्॥४॥