द्विसप्ततितमोऽध्यायः॥७२॥

वैशम्पायन उवाच

सभाज्यमानः पौरैश्च स्त्रीभिर्जानपदैरपि।
आसाद्यान्तःपुरद्वारं पित्रे सम्प्रत्यवेदयत्॥१॥
ततो द्वाःस्थः समासाद्य प्रणिपत्य कृताञ्जलिः।
वर्धयित्वा जयाशीर्भिरिदं वचनमब्रवीत्॥२॥
राजन् पृथुयशस्तुभ्यं जित्वा शत्रून् समागतः।
उत्तरः सह सूतेन द्वारि तिष्ठति वारितः॥३॥
कुमारो योधमुख्यैश्च गणिकाभिश्च संवृतः।
पौरजानपदैर्युक्तः पूज्यमानो जयाशिषाः॥४॥
ततो हृष्टो महीपालः क्षत्तारमिदमब्रवीत्।
प्रवेशयोभौ तौ तूर्णं दर्शनेप्सुरहं तयोः॥५॥
क्षत्तारं कुरुराजस्तु शनैः कर्ण उपाजपत्।
उत्तरः प्रविशत्वेको न प्रवेश्या बृहन्नला॥६॥
एतस्य हि महाबाहोर्व्रतं नित्यं महात्मनः।
यो ममाङ्गे व्रणं कुर्याच्छोणितं वा प्रदर्शयेत्।
अन्यत्र सङ्ग्रामगतान्न स जीवेत् कथञ्चन॥७॥
व्यक्तं भृशं सुसङ्क्रुद्धो मां दृष्ट्वैव सशोणितम्।
विराटमिह सामात्यं हन्यात् सबलवाहनम्॥८॥
इन्द्रं वाऽपि कुबेरं वा यमं वा वरुणं तथा।
मम शोणितकर्तारं मृद्गीयात् किं पुनर्नरम्॥९॥
क्षणमात्रं तु तत्रैव द्वारि तिष्ठतु वीर्यवान्।
इति प्रोवाच धर्मात्मा युधिष्ठिर उदारधीः॥१०॥
इत्युक्त्वा क्षमया युक्तो धर्मराजो घृणान्वितः।
सभायां सह मात्स्येन तूष्णीमुपविवेश ह॥११॥
ततो राजसुतो ज्येष्ठः प्राविशत् पृथिवीञ्जयः।
ववन्दे स पितुः पादौ कङ्कं चाप्युपतिष्ठत॥१२॥
पश्यन् युधिष्ठिरं दृष्ट्या वक्रया चरणौ पितुः।
अभिवाद्य ततो दृष्ट्वा कङ्कस्य रुधिरप्लुतम्।
हृदयेऽदह्यत तदा मृत्युग्रस्त इवोत्तरः॥१३॥
ततो रुधिरसिक्ताङ्गमनेकाग्रमनागसम्।
भूमावेकान्त आसीनं सैरन्ध्र्या समुपासितम्।
ततः पप्रच्छ राजानं त्वरमाण इवोत्तरः॥१४॥
केनायं ताडितः कङ्कः केन पापमिदं कृतम्।
को वा जिगमिषुर्मृत्युं केन स्पृष्टः पदोरगः॥१५॥
श्रोत्रियो ब्राह्मणश्रेष्ठ इन्द्रासनरतिक्षमः।
पूजनीयोऽभिवाद्यश्च न प्रबाध्योऽयमीदृशः॥१६॥

वैशम्पायन उवाच

स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः।
प्रत्युवाचोत्तरं वाक्यं साध्वसाद् ध्वस्तमानसः॥१७॥
पुत्र ते विजयं श्रुत्वा प्रहृष्टोऽहं मुदा भृशम्।
अक्षक्रीडनयाऽनेन कालक्षेपमकारिषम्॥१८॥
तत्राजयत् कुरून् सर्वानुत्तरो राष्ट्रवर्धनः।
इत्युक्तं हि मया पुत्र नेति कङ्को बृहन्नला।
अजयत् सा कुरून् सर्वानिति मामब्रवीन्मुहुः॥१९॥
प्रशंसिते मया पुत्र विजये तव विश्रुते।
बृहन्नलाया विजयं कङ्कोऽस्तुवत वै रुषा॥२०॥
मया प्रशस्यमाने तु त्वयि षण्डं प्रशंसति।
बृहन्नलाप्रशंसाभिरभ्यसूयमहं तदा।
ताडितोऽयं मया पुत्र दुरात्मा शत्रुपक्षकृत्॥२१॥
ताडितोऽयं यतिः कङ्क इत्युक्तं तद्वचोत्तरः।
श्रुत्वा पितुर्भृशं क्रुद्धः पितरं वाक्यमब्रवीत्॥२२॥
अकार्यं ते कृतं राजन् क्षिप्रमेष प्रसाद्यताम्।
मा त्वा ब्रह्मविषं घोरं समूलमुपनिर्दहेत्॥२३॥
यावन्न क्षयमायाति कुलं सर्वमशेषतः।
स्फीतं वृद्धं च मात्स्यानामयं तावत् प्रसाद्यताम्॥२४॥
प्रणम्य पादयोरस्य दण्डवत् क्षितिमण्डले।
प्रगृह्य पादौ पाणिभ्यामयं तावत् प्रसाद्यताम्॥२५॥
दक्षेण पाणिना स्पृष्ट्वा शपे त्वां क्षपितं मया।
इति यावद् वदेत् कङ्क अयं तावत् प्रसाद्यताम्॥२६॥
स पुत्रस्य वचः श्रुत्वा विराटः साध्वसाकुलः।
क्षमयामास कौन्तेयं छन्नं ब्राह्मणवर्चसा॥२७॥
क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत।
चिरं क्षान्तं मया राजन् मन्युर्मम न विद्यते॥२८॥
यदि स्म तत् पतेद् भूमौ रुधिरं मम पार्थिव।
सराष्ट्रस्त्वमिहोच्छेदमापद्येथा नरर्षभ॥२९॥
न दूषयामि राजेन्द्र यस्तु हन्याददूषकम्।
फलं तस्य महाराज क्षिप्रं दारुणमाप्नुयात्॥३०॥

वैशम्पायन उवाच

शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नला।
अभिवाद्य महाराजं कङ्कं चाप्युपतिष्ठत॥३१॥
क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम्।
परिष्वज्य दृढं राजा प्रवेश्य भवनोत्तमम्।
प्रशशंस ततो मात्स्यः शृण्वतः सव्यसाचिनः॥३२॥

विराट उवाच

त्वया दायादवानस्मि कैकेयीनन्दिवर्धन।
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति॥३३॥
पदं पदसहस्रेण यश्चरन्नापराध्नुयात्।
तेन कर्णेन ते तात कथमासीत् समागमः॥३४॥
रणे यं प्रेक्ष्य सीदन्ति हृतवीर्यपराक्रमाः।
कृपेन तेन ते तात कथमासीत् समागमः॥३५॥
यस्य तद् विश्रुतं लोके महद् वृत्तमनुत्तमम्।
पितुः कृते कृतं घोरं ब्रह्मचर्यमनुत्तमम्॥३६॥
योऽयोधीत् समरे रामं जामदग्न्यं प्रतापिनम्।
भीष्मोऽसौ पुरुषव्याघ्र न च युद्धे पराजितः॥३७॥
पराक्रमी च दुर्धर्षो विद्वाञ्छूरो जितेन्द्रियः।
दृढवेधी क्षिप्रकारी विश्रुतः सर्वकर्मसु॥३८॥
तेन ते सह भीष्मेण कुरुवृद्धेन संयुगे।
युद्धमासीत् कथं तात सर्वमेतद् ब्रवीहि मे॥३९॥
पर्वतं यो विनिर्भिन्द्याद् राजपुत्रो वरेषुभिः।
दुर्योधनेन ते तात कथमासीत् समागमः॥४०॥
आचार्यो वृष्णिवीराणां पाञ्चालानां च यः प्रभुः।
कुरूणां पाण्डवानां च सर्वक्षत्रस्य यो गुरुः॥४१॥
सर्वशस्त्रभृतां श्रेष्ठः सर्वलोकेषु विश्रुतः।
तेन द्रोणेन ते तात कथमासीत् समागमः॥४२॥
आचार्यपुत्रो यः शूरो द्रोणादनवमो रणे।
तेन वीरेण ते तात कथमासीत् समागमः॥४३॥
सर्वे चैव महावीर्या धार्तराष्ट्रा महारथाः।
तैस्तैर्वीरैश्च ते तात कथमासीत् समागमः॥४४॥

उत्तर उवाच

न मया निर्जिता गावो न मया कुरवो जिताः।
कृतं च कर्म तत् सर्वं देवपुत्रेण केनचित्॥४५॥
स हि भीतं द्रवन्तं मां भीष्मद्रोणमुखान् कुरून्।
दृष्ट्वा विषण्णं सङ्ग्रामे देवपुत्रो न्यवारयत्॥४६॥
स हि तिष्ठन् रथोपस्थे वज्रपाणिनिभो युवा।
तेन ते निर्जिता गावस्तेन ते कुरवो जिताः॥४७॥
तस्य तत् कर्म वीरस्य न मया तात तत्कृतम्।
स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान्।
सूतपुत्रं च भीष्मं च चकार विमुखाञ्छरैः॥४८॥
दुर्योधनं च समरे प्रभिन्नमिव कुञ्जरम्।
प्रभग्नमब्रवीद् भीतं राजपुत्रं महाबलम्॥४९॥
न हास्तिनपुरे त्राणं तव पश्यामि किञ्चन।
न हास्तिनपुरे भोगा भोक्तुं शक्याः पलायता॥५०॥
व्यायामेन परीप्सस्व जीवितं कौरवात्मज।
न मोक्ष्यसे पलायंस्त्वं लोके युद्धमना भव।
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि॥५१॥
स निवृत्तो नरव्याघ्रो मुञ्चन् वज्रनिभाञ्छरान्।
सचिवैः संवृतो राजा भीष्मद्रोणकृपादिभिः।
ततो मे रोमहर्षोऽभूदूरुस्तम्भश्च मेऽभवत्॥५२॥
यदभूद् धनसङ्काशमनीकं व्यधमच्छरैः।
तत् प्रणुद्य रथानीकं सिंहदर्पसमो युवा।
तान् कुरून् द्रावयद् राजन् रणे नाग इव श्वसन्॥५३॥
एकेन तेन शूरेण षड्रथाः परिनिर्जिताः।
शार्दूलेनेव मत्तेन मृगास्तृणचरा यथा॥५४॥
हयानां च गजानां च शूराणां च धनुष्मताम्।
निहतानि सहस्राणि भग्ना च कुरुवाहिनी॥५५॥
सूतपुत्रं शतैर्विद्ध्वा हयान् हत्वा महारथः।
अस्त्रेण मोहयित्वा तं रक्तवस्त्रं समाददे॥५६॥
चतुर्भिः पुनरानर्च्छद् भीष्मं शान्तनवं शरैः।
स तं विद्ध्वा हयांश्चाऽऽशु नास्य वस्त्रं समाददे॥५७॥
दुर्योधनं च बलवान् बाणैर्विव्याध सप्तभिः।
तं स विद्ध्वा हयांश्चास्य पीतवस्त्रं समाददे॥५८॥
द्रोणं कृपं च बलवान् सोमदत्तं जयद्रथम्।
भूरिश्रवसमिन्द्राभं शकुनिं च महारथम्॥५९॥
त्रिभिस्त्रिभिः स विद्ध्वा तु दुःशासनमुखानपि।
विविधानि च वस्त्राणि महार्हाण्याजहार सः॥६०॥
द्वाभ्यां शराभ्यां विद्ध्वाऽथ तथाऽऽचार्यसुतं रणे।
चापं छित्त्वा विकर्णस्य नीले चाऽऽदत्त वाससी॥६१॥

विराट उवाच

क्व स वीरो महाबाहुर्देवपुत्रो महायशाः।
यो ममामोचयत् पुत्रं कुरुभिर्ग्रस्तमाहवे॥६२॥
इच्छामि तममित्रघ्नं दुष्टुमर्चितुमेव च।
येन मे त्वं च गावश्च मोक्षिता देवसूनुना॥६३॥
तस्मै दास्यामि तां पुत्रीं ग्रामांश्चैव तु हाटकान्।
स्फुरितं कटिसूत्रं च स्त्रीसहस्रशतानि च॥६४॥

उत्तर उवाच

अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान्।
अद्य श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति॥६५॥

वैशम्पायन उवाच

एवमाख्यायमानस्तु च्छन्नं सत्रेण पाण्डवम्।
वसन्तं तं तु नाज्ञासीद् विराटः पार्थमर्जुनम्॥६६॥
ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना।
सह पुत्रेण मात्स्यस्य मन्त्रयित्वा धनञ्जयः॥६७॥
इत्येवं ब्रूहि राजानं विराटं समुपस्थितम्।
इत्युक्त्वा सहसा पार्थः प्रविश्यान्तःपुरं शुभम्।
ददौ वस्त्राणि रत्नानि विराटदुहितुः स्वयम्॥६८॥
उत्तरा तु महार्हाणि वस्त्राण्याभरणानि च।
प्रगृह्य तानि सर्वाणि प्रीता सानुचराऽभवत्॥६९॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विसप्ततितमोऽध्यायः॥७२॥