एकसप्ततितमोऽध्यायः॥७१॥

जनमेजय उवाच

युद्धं तु मानुषं द्रष्टुमागतास्त्रिदशाः पुरा।
किमकुर्वन्त ते पश्चात् कथयस्व ममानघ॥१॥

वैशम्पायन उवाच

वासवप्रमुखाः सर्वे देवाः सर्षिपुरोगमाः।
यक्षगन्धर्वसङ्घाश्च गणा अप्सरसां तथा॥२॥
युद्धं तु मानुषं दृष्ट्वा कुरूणां फल्गुनस्य च।
एकस्य च बहूनां च रौद्रमत्युग्रदर्शनम्॥३॥
अस्त्राणामथ दिव्यानां प्रयोगानथ सङ्ग्रहान्।
लघु सुष्ठु च चित्रं च कृतीनां च प्रयत्नतः॥४॥
भीष्मं शारद्वतं द्रोणं कर्णं गाण्डीवधन्वना।
जितानन्यान् भूमिपालान् दृष्ट्वा जग्मुर्दिवौकसः॥५॥
सर्वे ते परितुष्टाश्च प्रशस्य च मुहुर्मुहुः।
असङ्गगतिना तेन विमानेनाऽऽशुगामिना।
प्रतिजग्मुरसङ्गास्ते त्रिदिवं च दिवौकसः॥६॥
कुरवो निर्जिताः सर्वे भीष्मद्रोणकृपादयः।
अजय्यास्त्रिदशैः सर्वैः सेन्द्रैः सर्वैः सुरासुरैः।
पार्थेनैकेन सङ्ग्रामे विस्मयो नो महानहो॥७॥
कस्मिन् मुहूर्ते सञ्जातः कस्य धर्मस्य वा फलम्॥८॥
किमाश्चर्यं फल्गुनेऽस्मिन् यो रुद्रेण न्ययोधयत्।
निवातकवचानाजौ यस्त्रिंशत्कोटिसम्मितान्॥९॥
तस्य चैतत् किमाश्चर्यं स्तुवन्त इति ते सुराः।
जग्मुः सुरालयं हृष्टा विस्मयाविष्टचेतसः॥१०॥
कुरवोऽर्जुनबाणैश्च ताडिताः शरविक्षताः।
कुरूनभिमुखां याताः समग्रबलवाहनाः॥११॥
विराटनगराच्चैव गजाश्वरथसङ्कुलाः।
योधैः क्षत्रियदायादैर्बलवद्भिरधिष्ठिताः॥१२॥
विराटप्रहिता सेना नगराच्छीघ्रयायिनी।
उत्तरं सह सूतेन प्रत्ययात्तमरिन्दमम्॥१३॥
तस्मिंस्तूर्यशताकीर्णे हस्त्यश्वरथसङ्कुले।
प्रहर्षः स्त्रीकुमाराणां तुमुलः समपद्यत॥१४॥
अर्जुनस्तु ततो दृष्ट्वा सैन्यरेणुं समुत्थितम्।
सैन्यध्वजं निशम्याथ वैराटिं समभाषत॥१५॥
नगरे तुमुलः शब्दो रेणुश्चाऽऽक्रमते नभः।
किं नु खल्वपयातास्ते कुरवो नगरं गताः॥१६॥
ते चैव निर्जिताऽस्माभिर्महेष्वासाः सुतेजसः।
आमुञ्च कवचं वीर चोदयस्व च वाजिनः।
जवेनाभिप्रपद्यस्व विराटनगरं प्रति॥१७॥
न तावत् तलनिर्घोषं गाण्डीवस्य च निस्वनम्।
ध्वजं वा दर्शयिष्यामि अथवा स्वजनो भवेत्॥१८॥

उत्तर उवाच

सेनाग्रमेतन्मात्स्यानां गणिकाश्च स्वलङ्कृताः।
कन्या रथेषु दृश्यन्ते योधा विविधवाससः॥१९॥
उत्तरामत्र पश्यामि सखीभिः परिवारिताम्।
अनीकिन्यः प्रदृश्यन्ते हस्तिनोऽश्वाश्च वर्मिताः॥२०॥
रथिनश्च पदाताश्च बहवो न च शस्त्रिणः।
विराटवचनात् सर्वे संहृष्टाः प्रतिभान्ति मे।
न च मेऽत्र प्रतीघातश्चित्तस्य स्वजने यथा॥२१॥

वैशम्पायन उवाच

ततः शीघ्रं समासाद्य उत्तरं स्वजनो बहु।
परस्परममित्रघ्नं सस्वजे तं समागतम्॥२२॥

जना ऊचुः

प्रीतिमान् पुरुषव्याघ्रो हर्षयुक्तः पुनः पुनः।
दिष्ट्या जयसि भद्रं ते दिष्ट्या सूतो बृहन्नला।
दिष्ट्या सङ्ग्राममागम्य भयं तव न किञ्चन॥२३॥

उत्तर उवाच

अजैषीदेष ताञ्जिष्णुः कुरूनेकरथो रणे।
एतस्य बाहुवीर्यं तद् येन गावो जिता मया।
कुरवो निर्जिता यस्मात् सङ्ग्रामेऽमिततेजसः॥२४॥
अकार्षीदेष तत् कर्म देवपुत्रोपमो युवा।
एष तत् पुरुषव्याघ्रो विक्षोभ्य कुरुमण्डलम्।
गावः प्रसह्य विजिता रणे मां चाभ्यपालयत्॥२५॥

वैशम्पायन उवाच

उत्तरस्य वचः श्रुत्वा शंसमानस्य चार्जुनम्।
चोदिता राजपुत्रेण जयं मङ्गलवादिनः॥२६॥
ततो गन्धैश्च माल्यैश्च धूपैश्च वसुसम्भृतैः।
कन्याः पार्थममित्रघ्नं किरन्त्यः समपूजयन्॥२७॥
आपूर्यमाणो माल्यैश्च गन्धैश्च विविधैः शुभैः।
सम्पूज्यमानो लोकेन नगरद्वारमागमत्॥२८॥
भेर्यश्च तूर्याणि च वेणवश्च
विचित्रवेषाः प्रमदाजनाश्च।
पुरो विराटस्य महाबलस्य
निष्क्रम्य भूमिञ्जयमभ्यनन्दन्॥२९॥
प्रशस्यमानस्तु जयेन तत्र
पुत्रो विराटस्य न हृष्यति स्म।
सम्भाष्यमाणस्तु जयेन तत्र
सोऽन्तर्मनाः पाण्डवमीक्षमाणः॥३०॥
पुत्र्यै विराटस्य ततो वराणि
वस्त्राण्यदात् पाण्डुसुतः सखीभ्यः।
सभाजयंश्चापि समागतास्ता
दृष्ट्वा जयं तच्च बलं कुमार्यः॥३१॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकसप्ततितमोऽध्यायः॥७१॥