सप्ततितमोऽध्यायः॥७०॥

वैशम्पायन उवाच

प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलङ्कृताः।
मत्स्यराजो महाराजः प्रहृष्ट इदमब्रवीत्॥१॥
त्रिगर्ताः कुरवः सर्वे सङ्ग्रामे निर्जिता मया।
प्रविश्यान्तःपुरं हृष्टा द्यूतं दीव्याम ब्राह्मण॥२॥
अक्षानाहर सैरन्ध्रि आसनं चोपकल्पय।
आदाय व्यजनं त्वं च पार्श्वतोऽनन्तरा भव॥३॥
तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभाषत।
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम्॥४॥
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे।
प्रियं तु ते चिकीर्षामि वर्ततां यदि रोचते।
द्यूतं कर्तुं न वाञ्छामि नरेन्द्र जनसंसदि॥५॥

विराट उवाच

स्त्रियो गावो हिरण्यं च यच्चान्यद् वसु किञ्चन।
न मे किञ्चित् त्वया कार्यमन्तरेणापि देवितम्॥६॥

कङ्क उवाच

किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद।
देवने बहवो दोषास्तस्मात् तत् परिवर्जयेत्॥७॥
श्रुतो वा यदि वा दृष्टो धर्मराजो युधिष्ठिरः।
स राज्यं धनमक्षय्यं पणमेकममन्यत॥८॥
कृष्णां च भार्यां दयितां भ्रातॄंश्च त्रिदशोपमान्।
निःसंशयं स कितवः पश्चात् तप्यति पाण्डवः॥९॥
विविधानां च रत्नानां धनानां च पराजये।
अभीप्सितविनाशश्च वाक्पारुष्यमनन्तरम्॥१०॥
अविश्वास्यं बुधैर्नित्यमेकाह्ना द्रव्यनाशनम्।
द्यूते हारितवान् सर्वं तस्माद् द्यूतं न रोचये॥११॥
अथवा मन्यसे राजन् दीव्याव यदि रोचते।
एवमाभाष्य वाक्यैस्तु क्रीडतस्तौ नरोत्तमौ॥१२॥
प्रवर्तमाने द्यूते तु मात्स्यः पाण्डवमब्रवीत्॥१३॥
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः।
कुरवोऽतिरथाः सर्वे देवैरपि सुदुर्जयाः॥१४॥
ततोऽब्रवीद् धर्मराजो द्यूते मात्स्यं युधिष्ठिरः।
दिष्ट्या ते विजिता गावः कुरवश्च पराजिताः॥१५॥
अत्यद्भुततमं मन्ये उत्तरश्चेत् कूरूञ्जयेत्।
यन्ता बृहन्नला यस्य स कथञ्चिद् विजेष्यते॥१६॥
ततो विराटः क्षुभितो मन्युना च परिप्लुतः।
उवाच वचनं क्रुद्धः परिव्राजमनन्तरम्॥१७॥
तादृशेन तु योधेन महेष्वासेन धीमता।
कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम्॥१८॥

कङ्क उवाच

यन्ता तथाविधो यस्य रथे तिष्ठति वीर्यवान्।
यदि तद् दुष्करं कुर्यात् तत्र किं नाद्भुतं भवेत्॥१९॥

विराट उवाच

समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि।
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे॥२०॥
पुमांसो बहवो दृष्टाः सूताश्च बहवो मया।
विक्रम्य यन्ता योद्धा च न मे दृष्टः कदाचन॥२१॥
विप्रियं न चरेद् राज्ञामनुकूलं प्रियं वदेत्।
आचरन् विप्रियं राज्ञां न जातु सुखमेधते॥२२॥
वयस्यत्वात् तु ते सर्वमपराधमिमं क्षमे।
नेदृशीं प्रवदर्वाचं यदि जीवितुमिच्छसि॥२३॥

वैशम्पायन उवाच

ततोऽब्रवीत् पुनः कङ्कः प्रहस्य कुरुवर्धनः।
बृहन्नलाया राजेन्द्र धुष्यतां नगरे जयः॥२४॥
उत्तरेण तु सारथ्यं कृतं नूनं भविष्यति।
निमित्तं किञ्चिदुत्पन्नं तर्कश्चापि दृढो मम।
यतो जानामि राजेन्द्र नान्यथा तद् भविष्यति॥२५॥
कुरवोऽपि महावीर्या देवैरपि सुदुर्जयाः।
ससोमवरुणादित्यैः सयक्षेशहुताशनैः॥२६॥
यत्र शान्तनवो भीष्मो द्रोणकर्णौ सुदुर्जयौ।
अश्वत्थामा विकर्णश्च सोमदत्तो जयद्रथः॥२७॥
भूरिश्रवाः शलो भूरिर्जलसन्धिश्च वीर्यवान्।
दुर्योधनो दुष्प्रसहो दुःशासनविविंशती॥२८॥
वृषसेनोऽश्ववेगश्च वायुवेगसुवर्चसौ।
बाह्लीकः शूरसेनश्च युयुत्सुश्च परन्तपः॥२९॥
सौबलः शकुनिश्चैव द्युमत्सेनश्च साल्वराट्।
अन्ये च बहवः शूरा नानाजनपदेश्वराः॥३०॥
कृपेणाचार्यमुख्येन सहिताः कुरवो नृपाः।
सज्जकार्मुकनिस्त्रिंशा रथिनो रथयूथपाः।
अन्ये चैव महावीर्या राजपुत्रा महारथाः॥३१॥
मरुद्गणैः परिवृतः साक्षादपि पुरन्दरः।
तद्बलं न जयेत् क्रुद्धो भीष्मद्रोणादिभिर्वृतम्॥३२॥
कस्तद् बृहन्नलादन्यो मनुष्यः प्रतियोत्स्यति।
यस्य बाहुबले तुल्यो न भविष्यति कश्चन॥३३॥
अतीव समरं दृष्ट्वा हर्षो यस्याभिवर्धते।
किमेवं पुरुषो लोको दिवि वा भुवि विद्यते॥३४॥

वैशम्पायन उवाच

तेन सङ्क्षुभितो राजा दीर्यमाणेन चेतसा।
अब्रवीद् वचनं क्रूरमजानन् वै युधिष्ठिरम्॥३५॥
कङ्क मा ब्रूहि मे वाक्यं प्रतिकूलं द्विजोत्तम।
बहुशः प्रतिषिद्धस्त्वं न च वाचं नियच्छसि॥३६॥
नियन्ता चेन्न विद्येत न कश्चिद् धर्ममाचरेत्।
इति प्रक्षुभितो राजा सोऽक्षेणाभ्यहनद् भृशम्॥३७॥
तस्य तक्षकभोगाभं बाहुमुत्क्षिप्य दक्षिणम्।
विराटः प्राहनत् क्रुद्धः कर्णमाश्रित्य दक्षिणम्॥३८॥
मुखे युधिष्ठिरं कोपान्मैवमित्यवभर्त्सयन्।
बलवत् प्रतिविद्धस्य नस्तः शोणितमास्रवत्॥३९॥
अक्षेणाभिहतो राजा विराटेन युधिष्ठिरः।
तूष्णीमासीन्महाबाहुः कृष्णां पश्यन् सुदुःखिताम्॥४०॥
तस्य रक्तोत्पलनिभं शिरसः शोणितं तदा।
प्रावर्तत महाबाहोरभिघातान्महात्मनः॥४१॥
तदप्राप्तं महीं पार्थः पाणिभ्यां समधारयत्।
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम्॥४२॥
सा वेदनामभिज्ञाय भर्तुश्चित्तवशानुगा।
सा विषण्णा च भीता च क्रुद्धा च द्रुपदात्मजा॥४३॥
बाष्पं नियम्य कृच्छ्रेण भर्तुर्निःश्रेयसैषिणी।
उत्तरीयेण सूक्ष्मेण तूर्णं जग्राह शोणितम्॥४४॥
निगृह्य रक्तं वस्त्रेण सैरन्ध्री दुःखमोहिता।
सौवर्णं गृह्य भृङ्गारं शोणितं तदपामृजत्।
युधिष्ठिरस्य राजेन्द्र द्रुपदेन्द्रसुता तदा॥४५॥

विराट उवाच

सैरन्ध्रि किमिदं रक्तमुत्तरीयेण गृह्यते।
कोऽत्र हेतुर्विशालाक्षि तन्ममाचक्ष्व तत्त्वतः॥४६॥

सैरन्ध्र्युवाच

रक्तबिन्दूनि यावन्ति कङ्कस्य धरणीतले।
तावद् वर्षाणि राष्ट्रे ते अनावृष्टिर्भविष्यति॥४७॥
एतन्निमित्तं मात्स्येन्द्र कङ्कस्य रुधिरं मया।
गृहीतमुत्तरीयेण विनाशो मा भवेत् तव॥४८॥
यतीशं यो विहन्येत तस्यायुर्विनशिष्यति।
यो यतीशं नियम्येत सहस्रं यातना यमे॥४९॥
यतौ रक्तं दर्शयति यावत् पांसुरगृह्यत।
तावन्तः पितृलोकस्थाः पितरः प्रपतन्त्यधः॥५०॥
इति ज्ञात्वा विराटेन्द्र धृतं रक्तं च वाससा।
मया तव हितार्थाय त्वयि प्रणयकारणात्॥५१॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्ततितमोऽध्यायः॥७०॥