अष्टषष्टितमोऽध्यायः॥६८॥
वैशम्पायन उवाच
ततो विजित्य सङ्ग्रामे कुरुगोवृषभेक्षणः।
समानयामास तदा विराटस्य धनं महत्॥१॥
गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः।
वनान्निष्क्रम्य गहनाद् बहवः कुरुसैनिकाः।
भयात् सन्त्रस्तमनसः समाजग्मुस्ततस्ततः॥२॥
मुक्तकेशाः प्रदृश्यन्ते स्थिताः प्राञ्जलयस्तदा।
क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः।
ऊचुः प्राञ्जलयः सर्वे पार्थ किं करवामहे॥३॥
प्राणानन्तर्मनोयातान् प्रयाचिष्यामहे वयम्।
वयं चार्जुन ते दासा ह्यनुरक्ष्या ह्यनाथकाः॥४॥
अर्जुन उवाच
अनाथान् दुःखितान् दीनान् कृशान् वृद्धान् पराजितान्।
न्यस्तशस्त्रान् निराशांश्च नाहं हन्मि कृताञ्जलीन्॥५॥
भवन्तो यान्तु विस्रब्धा निर्भया अमृता यथा।
मम पादरजोलक्ष्म्या जीवन्तु सुचिरं भुवि॥६॥
तस्य तामभयां वाचं श्रुत्वा योधाः समागताः।
आयुः कीर्तियशोभिस्ते तमाशीर्भिरवर्धयन्॥७॥
ततो निवृत्ताः कुरवो भग्नाश्च दिवमास्थिताः।
प्रयाताः सर्वतस्तत्र नमस्कृत्य धनञ्जयम्॥८॥
एवं दत्ताभयास्तेन ततो याताः कुरून् प्रति॥९॥
स कर्म कृत्वा परमार्यकर्मा
निहत्य शत्रून्द्विषतां निहन्ता।
यातो महामेघ इवाऽऽतपान्ते
विद्राव्य पार्थः कुरुसैन्यमेकः॥१०॥
तं मात्स्यपुत्रं द्विषतां निहन्ता
वचोऽब्रवीत् सम्परिगृह्य राजन्॥११॥
पितुः सकाशे तव तात सर्वे
वसन्ति पार्था विदितं त्वयेति।
तान् मा स्म शंसीर्नगरं प्रविश्य
भीतः प्रणश्येत् स च मत्स्यराजः॥१२॥
मया जिता सा ध्वजिनी कुरूणां
मया हि गावो विजिता द्विषद्भ्यः।
एवं तु कामं नगरं प्रविश्य
त्वमात्मना कर्म कृतं ब्रवीहि॥१३॥
उत्तर उवाच
यत् ते कृतं कर्म न वारणीयं
तत् कर्म कर्तुं मम नास्ति शक्तिः।
न त्वां प्रवक्ष्यामि पितुः सकाशे
यावन्न मां वक्ष्यसि सव्यसाचिन्॥१४॥
वैशम्पायन उवाच
स शत्रुसेनां तरसा विजित्य
आच्छिद्य सर्वं तु धनं कुरूणाम्।
श्मशानमागम्य पुनः शमीं ताम्
अभ्येत्य तस्थौ शरविक्षताङ्गः॥१५॥
ततः स वह्निप्रतिमो महाकपिः
सहैव भूतैर्दिवमुत्पपात।
तथा च माया विहिता बभूव सा
ध्वजं च सिंहं युयुजे रथे पुनः॥१६॥
निधाय तच्चायुधमाजिमर्दनः
कुरूत्तमानामिषुधीन् ध्वजांस्तथा।
प्रायात् स मात्स्यो नगरं प्रवेष्टुं
किरीटिना सारथिना महात्मा॥१७॥
पार्थश्च कृत्वा परमार्यकर्म
निहत्य शत्रून् द्विषतां निहन्ता।
विधाय भूयश्च तथैव वेषं
जग्राह रश्मीन् पुनरुत्तरस्य।
बृहन्नलारूपमथो विधाय
प्रायात्य मात्स्यो नगरं प्रवेष्टुम्॥१८॥
वैशम्पायन उवाच
ततो निवृत्ताः कुरवः प्रभग्नाः शममास्थिताः।
परस्परमवेक्ष्यैव जग्मुस्ते हृतवाससः॥१९॥
पन्थानमुपसङ्गम्य फल्गुनो वाक्यमब्रवीत्।
राजपुत्र प्रपद्यस्व धनानीमानि सर्वशः।
गोकुलानि महाबाहो वीरगोपालकैः सह॥२०॥
ततोऽपराह्णे यास्यामो विराटनगरं प्रति।
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः॥२१॥
गच्छन्तु त्वरितं दूता गोपालाः प्रेषितास्त्वया।
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम्॥२२॥
उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत् ततः।
वचनादर्जुनस्यैव ह्याचक्षध्वं जयं मम॥२३॥
मया जिता सा ध्वजिनी कुरूणां
मया च गावो विजिता द्विषद्भ्यः।
एवं तु कामं नगरं प्रविश्य
मयाऽऽत्मना कर्म कृतं ब्रवीत॥२४॥
॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि अष्टषष्टितमोऽध्यायः॥६८॥