सप्तष्टितमोऽध्यायः॥६७॥

आहूयमानस्तु स तेन सङ्ख्ये
महात्मना वै धृतराष्ट्रसूनुः।
निवर्तितश्चापि गिराङ्कुशेन
गजो मदोन्मत्त इवाङ्कुशेन॥१॥
सोऽमृष्यमाणो वचसाऽभिमृष्टो
महारथेनातिरथस्तरस्वी।
ततः स पर्याववृते रथेन
भोगी यथा पादतलाभिमृष्टः॥२॥
ततो दुर्योधनः क्रुद्धो विक्षिपन् धनुरुत्तमम्।
धृतिं कृत्वा सुविपुलां प्रत्युवाच धनञ्जयम्॥३॥
सोऽहमिन्द्रादभिक्रुद्धान् न बिभेमीह भारत।
भुक्त्वा सुविपुलं राज्यं वित्तानि च सुखानि च।
किमर्थं युद्धसमये पलायिष्ये नरोत्तम॥४॥
एवमुक्त्वा महाराजः प्रत्ययुध्यत भारत।
सन्न्यवर्तत शीघ्राश्वस्तोत्रार्दित इव द्विपः॥५॥
आक्रान्तभोगस्तेजस्वी धनुर्वक्र इवोरगः।
रथं रथेन सङ्गम्य योधयामास पाण्डवम्॥६॥
तं प्रेक्ष्य कर्णः परिवर्तमानं
निवृत्य संस्तम्भितसर्वगात्रम्।
दुर्योधनं दक्षिणतोऽन्वरक्षत्
पार्थान् महाबाहुरधिज्यधन्वा॥७॥
गान्धारराजः शकुनिर्निवृत्य
द्रौणिश्च सर्वास्त्रविदां वरिष्ठः।
ररक्षतुः कौरवमभ्युपेत्य
पार्थान् नृवीरौ युधि सव्यतश्च॥८॥
भीष्मस्ततः शान्तनवो विवृत्य
हिरण्यकक्ष्यांस्त्वरया तुरङ्गान्।
दुर्योधनं पश्चिमतो ररक्ष
पार्थान् महाबाहुरधिज्यधन्वा॥९॥
द्रोणः कृपश्चैव विविंशतिश्च
दुःशासनश्चैव निवृत्य शीघ्रम्।
सर्वे पुरस्तात् प्रणिधाय बाणान्
दुर्योधनार्थं त्वरिताऽभ्युपेयुः॥१०॥
सर्वाण्यनीकानि निवर्तितानि
सम्प्रेक्ष्य पूर्णौघनिभानि पार्थः।
हंसो महामेघमिवापतन्तं
धनञ्जयः प्रत्यपतत् तरस्वी॥११॥
ते सर्वतः सम्परिवार्य पार्थम्
अस्त्राणि दिव्यानि समाददानाः।
ववर्षुरभ्येत्य शरैः समग्रैर्-
मेघा यथा भूधरमम्बुवेगैः॥१२॥
ततोऽस्त्रमस्त्रेण निवार्य तेषां
गाण्डीवधन्वा कुरुपुङ्गवानाम्।
सम्मोहनं शत्रुसहोऽन्यदस्त्रं
प्रादुश्चकारैन्द्रमवारणीयम्॥१३॥
ततो दिशश्चानुदिशो निवार्य
शरैः सुघोरैर्निशितैः सुपुङ्खैः।
गाण्डीवशब्देन मनांसि तेषां
महाबलं प्रवथयां चकार॥१४॥
ततः पुनर्भीमरवं निगृह्य
दोर्भ्यां महाशङ्खमुदारघोषम्।
व्यनादयन् सम्प्रदिशो दिशः खं
भुवं च पार्थो द्विषतां निहन्ता॥१५॥
सम्मोहनास्त्रप्रभवैः शरौघैर्-
विनष्टदेहाश्च निपत्य योधाः।
निःसत्त्ववेगाः कुरुराजसैन्याः
कुड्योपमास्तस्थुरनीहमानाः॥१६॥
ते शङ्खनादेन कुरुप्रवीराः
सम्मोहिताः पार्थसमीरितेन।
उत्सृज्य चापानि दुरासदानि
सर्वे तदा मोहपरा बभूवुः॥१७॥
ततो विसंज्ञानि परेषु पार्थः
संस्मृत्य सन्देशमथोत्तरायाः।
निर्याहि वाहादिति मात्स्यपुत्रम्
उवाच यावत् कुरवो विसंज्ञाः॥१८॥
आचार्यशारद्वतयोः सुशुक्ले
कर्णस्य पीतं रुचिरं च वस्त्रम्।
द्रौणेश्च राज्ञश्च तथैव नीले
वस्त्रे समादत्स्व नरप्रवीर॥१९॥
भीष्मस्य संज्ञां तु तथैव मन्ये
जानाति मेऽस्त्रप्रतिघातमेषः।
एतस्य वाहान् कुरु सव्यतस्त्वम्
एवं प्रयातव्यममूढसंज्ञैः॥२०॥
रश्मीन् समुत्सृज्य ततो महात्मा
रथादवप्लुत्य विराटपुत्रः।
वस्त्राण्युपादाय महारथानां
नानाविधान्यद्भुतवर्णकानि॥२१॥
महान्ति चीनांशुदुकूलकानि
पट्टांशुकानि विविधानि मनोज्ञकानि।
हारांश्च राज्ञां मणिभूषणानि
सुवर्णनिष्काभरणानि मारिष॥२२॥
माणिक्यबाह्वङ्गदकङ्कणानि
अन्यानि राज्ञां मणिभूषणानि।
वस्त्राण्युपादाय महारथानां
तूर्णं पुनः खं रथमारुरोह॥२३॥
राज्ञश्च सर्वान् कृतसन्निकाशान्
सम्मोहनास्त्रेण विसंज्ञकल्पान्।
नासाग्रविन्यस्तकराङ्गुलीकः
पार्थो जहास स्मयमानचेताः॥२४॥
ततोऽन्वशात् तांश्चतुरः सदश्वान्
पुत्रो विराटस्य हिरण्यकक्ष्यान्।
ते तद् व्यतीयुर्द्विषतामनीकं
श्वेता वहन्तोऽर्जुनमाजिमध्यात्॥२५॥
तथा प्रयान्तं पुरुषप्रवीरं
भीष्मः शरैरभ्यहनत् तरस्वी।
स चापि भीष्मस्य हयान्निहत्य
विव्याध भीष्मं दशभिः पृषत्कैः॥२६॥
ततोऽर्जुनो भीष्ममपास्य युद्धे
विद्ध्वाऽस्य यन्तारमरिष्टधन्वा।
तस्थौ विमुक्तो रथवृन्दमध्याद्
राहुं विदार्येव सहस्ररश्मिः॥२७॥
लब्ध्वा तु संज्ञां पुरुषप्रवीरः
पार्थं निरीक्ष्याथ महेन्द्रकल्पम्।
रणात् प्रमुक्तं पुरुषप्रवीरं
स धार्तराष्ट्रस्त्वरितो बभाषे॥२८॥
अयं कथञ्चिद् भवतो विमुक्तस्-
तं वै प्रबध्नीत यथा न मुच्येत्।
तमब्रवीच्छान्तनवः प्रहस्य
क्व ते गता बुद्धिरभूत् क्व वीर्यम्॥२९॥
शान्तिं परां प्राप्य यथा स्थितस्त्वम्
उत्सृज्य बाणांश्च धनुश्च चित्रम्।
न त्वेव बीभत्सुरलं नृशंसं
कर्तुं न पापेऽस्य मनो निविष्टम्॥३०॥
जह्यान्न धर्मं त्रिदिवस्य हेतोः
सर्वे तु तस्मान्न हता रणेऽस्मिन्।
क्षिप्रं कुरून् याहि कुरुप्रवीर
विजित्य गाश्च प्रतियातु पार्थः॥३१॥
सम्मोहनास्त्रप्रतिमोहिताः स्थ
यूयं न जानीथ धनापहारम्।
पश्यामि वस्त्राभरणानि राजन्
विराटपुत्रेण समाहृतानि॥३२॥
नृपेषु सर्वेषु च मोहितेषु
हन्तुं यदीच्छेत् स हनिष्यतीति।
तदा तु धर्मात्मतया नृवीरो
न चाहनद् वो बलभित्तनूजः॥३३॥
भाग्येन युष्मानवधीन्न पार्थः
सन्धिं कुरूणामनुमन्यमानः।
तद्यात यूयं सहसैनिकैस्तैर्-
हतावशिष्टैर्गजसाह्वयं पुरुम्॥३४॥

वैशम्पायन उवाच

दुर्योधनस्तस्य निशम्य वाक्यं
पितामहस्याऽऽत्महितं प्रशस्य।
अतीतकामो युधि सोऽत्यमर्षी
राजा विनिश्वस्य बभूव तूष्णीम्॥३५॥
तद् भीष्मवाक्यं हि निशम्य सर्वे
धनञ्जयाग्निं च विवर्धमानम्।
निवर्तनायैव मतिं निदध्युर्-
दुर्योधनं तं परिरक्षमाणाः॥३६॥
तान् प्रस्थितान् प्रीतमनाः समर्थो
धनञ्जयः सर्वकुरुप्रवीरः।
आमन्त्र्य वीरोऽनुययौ मुहूर्तं
गाण्डीवघोषेण विनद्य लोकम्॥३७॥
तेषामनीकानि निरीक्ष्य पार्थो
विकीर्णयानध्वजकार्मुकाणि।
गाण्डीवधन्वा प्रहसन् कुरूणां
शङ्ख प्रदध्मौ बलवान् बलेन॥३८॥
ते शङ्खशब्दं तुमुलं निशम्य
ध्वजस्य शब्दं च ततोऽन्तरिक्षे।
गाण्डीवशब्देन मुहुर्मुहुस्ते
भीता ययुः सर्वधनं विहाय॥३९॥
तानर्जुनो दूरतरं विभज्य
धनं च सर्वं निखिलं निवर्त्य।
आपृच्छ्य तान् दूरमनुप्रयात्वा
धनञ्जयस्तत्र कुरून् महात्मा।
गुरूंश्च सर्वानभिवाद्य बाणैर्-
न्यवर्ततोदग्रमनाः शरैः सह॥४०॥
पितामहं शान्तनवं महात्मा
द्वाभ्यां शराभ्यामभिवाद्य वीरः।
द्रोणं कृपं चैव कुरूंश्च मान्याञ्-
शरैश्च सर्वानभिवाद्य सङ्ख्ये।
दुर्योधनस्योत्तमरत्नचित्रं
चिच्छेद पार्थो मकुटं शरौघैः॥४१॥
अराजवंशस्य किमर्थमेतन्-
नित्यं न धार्यं मकुटं त्वयेति।
सम्पातितं भूमितले सरत्नं
प्रीतस्ततो मात्स्यसुतो बभूव॥४२॥
धनञ्जयं नागमिव प्रभिन्नं
विजित्य शत्रून् परिवर्तमानम्।
गास्ता विजित्याभिमुखं प्रयान्तं
न शक्नुवन्तः कुरवः प्रयाताः॥४३॥
धनञ्जयं सिंहमिवाऽऽत्तशस्त्रं
गा वै विजित्याभिमुखं प्रयान्तम्।
उदीक्षितुं पार्थिवास्ते न शेकुर्-
यथैव मध्याह्नगतं हि सूर्यम्॥४४॥
रक्तानि वासांसि च तानि गृह्य
रणोत्कटो नाग इव प्रभिन्नः।
जित्वा च वैराटिमुवाच पार्थः
प्रहृष्टरूपो रथिनां वरिष्ठः॥४५॥
आवर्तयाश्वान् पशवो जितास्ते
याताः परे प्रैहि पुरं प्रहृष्टः।
उद्‌घुष्यतां ते विजयोऽद्य शीघ्रं
गात्रं तु ते सेवतु माल्यगन्धः।
माता तु ते नन्दतु बान्धवाश्च
त्वामद्य दृष्ट्वा समुदीर्णहर्षम्॥४६॥

॥इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तष्टितमोऽध्यायः॥६७॥